________________
भगवती वृत्ति
श.१: उ.६,७: सू.३१३-३३२ आश्रवाः-सूक्ष्मरन्ध्राणि सन्तो- विद्यमानाः सदा वा सर्वदा शतसंख्या वाऽऽश्रवा यस्यां सा सदाश्रवाः शताश्रवा वाऽतस्ताम् एवं 'सयछिडु' नवरं छिद्रं महत्तरं रन्ध्रम् 'ओगाहेजत्ति 'अवगाहयेत्' प्रवेशयेद् ।
'आसवदारेहिं ति आश्रवच्छिद्रैः 'आपूरमाणी'त्ति आपूर्यमाणा जलेनेति शेषः, इह द्विवचनमाभीक्ष्ण्ये 'पुण्णे'त्यादि प्रागवन्नवरं 'वोसट्टमाणा'. इत्यादौ वृद्धैरयं विशेष उक्तः-'वोसट्टमाणा' भृता सती या तत्रेव निमज्जति सोच्यते। 'समभरघडताए'त्ति ह्रदक्षिप्तसमभरघटवद् हृदस्याधस्त्योदकेन सह तिष्ठतीत्यर्थः । यथा नौश्च हृदोदकं चान्योऽन्यावगाहेन वर्त्तते एवं जीवाश्च पुद्गलाश्चेति भावना ।
लोकस्थितावेवेदमाह११३१४. 'सदा' सर्वदा ‘समियं ति सपरिमाणं न बादराकायवदपरिमितमपि, अथवा 'सदा'इति सर्तुषु 'समित मिति रात्रौ दिवसस्य च पूर्वापरयोः प्रहरयो; तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति, यदाह
"पढमचरिमाउ सिसिरे, गिम्हे अद्धं तु तासि वजेत्ता।
पायं ठवे सिणेहाइरक्खणवा पवेसे वा।।" लेपितपात्रं बहिर्न स्थापयेत् स्नेहादिरक्षणायेति । 'सूक्ष्मः स्नेहकाय'इति अप्कायविशेष इत्यर्थः । ११३१५. 'उद्दे'त्ति ऊध्र्वालोके वर्तुलवैताढ्यादिषु 'अहे'त्ति अधोलोकग्रामेषु, 'तिरिय'ति तिर्यगलोके। १।३१६. 'दीहकालं चिट्ठइत्ति तडागादिपूरणात् 'विद्धंसमागच्छइत्ति स्वल्पत्वात्तस्येति ।
॥प्रथमशते षष्ठोद्देशकः ॥
सप्तम उद्देशकः
अथ सप्तम आरभ्यते, तस्य चैवं सम्बन्धः-विध्वंसमागच्छतीत्युक्तं प्राक् इह तु तद्विपर्यय उत्पादोऽभिधीयते । अथवा लोकस्थितिः
प्रागुक्ता इहापि सैव । तथा 'नेरइए'त्ति यदुक्तं संग्रहिण्यां तच्चावसरायातमिहोच्यत इति, तत्रादिसूत्रम्११३१८. 'नेरइए णं भंते ! नेरइएसु उववजमाणे' त्ति ननूत्पद्यमान एव कथं नारक इति व्यपदिश्यते ? अनुत्पन्नत्वात् तिर्यकादिवद् इति, अत्रोच्यते
उत्पद्यमान उत्पन्न एव तदायुष्कोदयात् अन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्कोदयेऽपि यदि नारको नासौ तदन्यः कोऽसौ? इति । 'किं देसेणं देसं उववज्जइत्ति देशेन च 'देशेन च'' यदुत्पतनं प्रवृत्तं तद्देशेनदेश, छान्दसत्वाच्चाव्ययीभावप्रतिरूपः समासः, एवमुत्तरत्रापि । तत्र जीवः किं 'देशेन' स्वकीयावयवेन 'देशेन' नारकावयविनोंऽशतयोत्पद्यते अथवा 'देशेन' देशमाश्रित्योत्पादयित्वेति शेषः एवमन्यत्रापि । तथा 'देसेणं सव्वंति देशेन च सर्वेण च यत् प्रवृत्तं तद्देशेनसर्वं, तत्र देशेन-स्वावयवेन सर्वतः सर्वात्मना नारकावयवितयोत्पद्यत, इत्यर्थः । आहोस्वित् सर्वेण-सर्वात्मना देशतो नारकांशतयोत्पद्यते, अथवा 'सर्वेण' सर्वात्मना सर्वतो नारकतयेति प्रश्नः। अत्रोत्तरम् देशेनदेशतयोत्पद्यते, यतो न परिणामिकारणावयवेन कार्यावयवो निर्व्वय॑ते, तन्तुना पटाप्रतिबद्धपटप्रदेशवत्। यथा हि पटदेशभूतेन तन्तुना पटाप्रतिबद्धः पटदेशो न निर्वहँते तथा पूर्वावयविप्रतिबद्धेन तद्देशेनोत्तरावगविदेशो न निर्द्धर्त्यत इति भावः । तथा न देशेन सर्वतयोत्पद्यते, अपरिपूर्णकारणत्त्वात्, तन्तुना पट इवेति। तथा न सर्वेणदेशतयोत्पद्यते, संपूर्णपरिणामिकारणत्त्वात् समस्तघटकारणैर्घटैकदेशवत् । 'सव्वेणं सव्वं उववज्जइ' सर्वेण तु सर्व उत्पद्यते । पूर्णकारणसमवायाद्, घटवदिति चूर्णिव्याख्या। टीकाकारस्त्वेवमाह-किमवस्थित एव जीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते ? अथवा देशेन सर्वत उत्पद्यते ? अथवा सर्वात्मना यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते ? अथवा सर्वात्मना सर्वत्र ? इति, एतेषु पाश्चात्यभंगौ ग्राह्यौ । यतः सर्वेण सर्वात्मप्रदेशव्यापारेण इलिकागतौ यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते, तद्देशेनोत्पत्तिस्थानदेशस्यैव व्याप्तत्वात् । कन्दुकगतौ वा सर्वेण सर्वत्रोत्पद्यते विमुच्यैव पूर्वस्थानमिति । एतच्च टीकाकारव्याख्यानं वाचनान्तरविषयमिति ।
उत्पादे चाहारक इत्याहारसूत्रम्११३२०. तत्र 'देशेन देश'मिति आत्मदेशेनाभ्यवहार्यद्रव्यदेशमित्येवं गमनीयम् । उत्तरम् -'सव्वेण वा देसमाहारेइ'त्ति, उत्पत्त्यनन्तरसमयेषु
सर्वात्मप्रदेशैराहारपुद्गलान् कांश्चिदादत्ते कांश्चिद् विमुञ्चति, तप्ततापिकागततैलग्राहकविमोचकापूपवद्, अत उच्यते-देशमाहारयतीति । 'सव्वेण वा सव्वंति सर्वात्मप्रदेशैरुत्पत्तिसमये आहारपुद्गलानादत्ते एव प्रथमतः तैलभृततप्ततापिकाप्रथमसमयपतितापूपवदित्युच्यते-सर्व
माहारयतीति। उत्पादस्तदाहारेण सह प्राग्दण्डकाभ्यामुक्तः।। १।३२२,३२४. अथोत्पादप्रतिपक्षत्वाद्वर्तमानकालनिर्देशसाधयच्चिोद्वर्तनादण्डकस्तदाहारदण्डकेन सह । १।३२६,३२८. तदनन्तरं च नोद्वर्तनाऽनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डको उत्पन्नप्रतिपक्षत्वाच्चोवृत्ततदाहारदण्डकाविति ।
पुस्तकान्तरे तूत्पादतदाहारदण्डकानन्तरमुत्पादे सत्युत्पन्नः स्यादित्युत्पन्नतदाहारदण्डकौ। ततस्तूत्पादप्रतिपक्षत्वादुद्वर्तनाया उद्वर्तनातदाहार
दण्डकौ। १।३३०,३३२. उद्वर्तनायां चोवृत्तः स्यादित्युवृत्ततदाहारदण्डकौ कण्ठ्याश्चैत इति।
एवं तावदष्टाभिर्दण्डकैर्देशसर्वाभ्यामुत्पादादि चिन्तितम्, अथाथभिरेवाड़सर्वाभ्यामुत्पादाघेव चिन्तयन्नाह
३. उत्पादयन् क. घ.
१.X घ. २. उत्पादनं क.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org