________________
श.१: उ.६: सू.२६५-३१३
३८४
भगवती वृत्ति जम्बूद्वीपादयोऽसंख्येया एव, 'सागरा' लवणादयः, 'वासत्ति वर्षाणि भरतादीनि सप्तैव, 'नेरइयाइत्ति चतुर्विंशतिदण्डकः ‘अस्थि यत्ति अस्तिकायाः पञ्च, 'समय'त्ति कालविभागाः, कर्माण्यष्टौ, लेश्या षट्, दृष्टयो-मिथ्यादृष्ट्यादयास्तिस्रः, दर्शनानि चत्वारि, ज्ञानानि पञ्च, सञ्ज्ञाश्चतस्रः शरीराणि पञ्च, योगास्त्रयः, उपयोगौ द्वौ, द्रव्याणि षट्, प्रदेशा अनन्ताः पर्यवा अनन्ता एव, 'अद्ध'त्ति अतीताद्धा अनागताद्धा सर्वाद्धा चेति ।
'पुट्विं लोयंतित्ति, अयं सूत्राभिलापनिर्देशः, तथैव पश्चिमसूत्राभिलापं दर्शयन्नाह१।३०१. 'पुट्विं भंते ! लोयंते पच्छा सव्वद्धे'त्ति । एतानि च सूत्राणि शून्यज्ञानादिवादनिरासेन विचित्रबाह्याध्यात्मिकवस्तुसत्ताऽभिधानार्थानि ईश्वरादि
कृतत्वनिरासेन चानादित्वाभिधानार्थानीति।
लोकान्तादिलोकपदार्थप्रस्तावादथ गौतममुखेनलोकस्थितिप्रज्ञापनायाह११३१०.'कइविहा ण'मित्यादि, अयं सूत्राभिलाप:-आकाशप्रतिष्ठितो वायु:-तनुवातघनवातरूपः, तस्यावकाशान्तरोपरि स्थितत्वात्, आकाशं तु
स्वप्रतिष्ठितमेवेति न तत्प्रतिष्ठाचिन्ता कृतेति(१)। तथा वातप्रतिष्ठित उदधिः-यनोदधिस्तनुवातघनवातोपरि स्थितत्वात(२)। तथा उदधिप्रतिष्ठिता पृथिवी घनोदधीनामुपरि स्थितत्वात् रलप्रभादीनां, बाहुल्यापेक्षया चेदमुक्तम्, अन्यथा ईषनागभारापृथिवी आकाशप्रतिष्ठितैव(३)। तथा पृथिवीप्रतिष्ठितास्त्रसस्थाराः प्राणाः, इदमपि प्रायिकमेव अन्यथाऽऽकाशपर्वतविमानप्रतिष्ठिता अपि ते सन्तीति (४)। तथाऽजीवाः-शरीरादिपुद्गलरूपा जीवप्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात् (५)। तथा जीवाः कर्मप्रतिष्ठिताः कर्मसु-अनुदयावस्थकर्मपुद्गलसमुदायरूपेषु संसरिजीवानामाश्रितत्वात् । अन्ये त्वाहुः-जीवा; कर्मभिः प्रतिष्ठिता:नारकादिभावेनावस्थापिताः'(६)। तथा अजीवा जीवसंगृहीताः मनोभाषादिपुद्गलानां जीवैः संग्रहीतत्वात्, अथाजीवाः जीवप्रतिष्ठितास्तथाऽजीवा जीवसंगृहीता इत्येतयोः को भेदः? उच्यते-पूर्वस्मिन् वाक्ये आधाराधेयभाव उक्तः, उत्तरे तु संग्राह्यसंग्राहकभाव इति भेदः । यच्च यस्य संग्राह्यं तत्तस्याधेयमण्यापत्तितः स्याद्, यथाऽपूपस्य तैलमित्याधाराधेयभावोऽप्युत्तरवाक्ये दृश्य इति (७)। तथा जीवाः कर्मसंगृहीताः संसारिजीवानामुदयप्राप्तकर्मवशवर्त्तित्वात्, ये च यद्वशास्ते तत्र प्रतिष्ठिताः । यथा घटे रूपादय इत्येवमिहाप्याधाराधेयता
दृश्येति (E)। १।३११. से जहानामए केइ'त्ति स 'यथानामकः' यत् प्रकारनामा देवदत्तादिनामेत्यर्थः, अथवा 'से' इति 'स' यथा इति दृष्टान्तार्थ: 'नाम' इति संभावनायाम्
'ए' इति वाक्यालंकारे 'वत्यिंति 'बस्तिं' दृति 'आडोवेइ'त्ति आटोपयेत् वायुना पूरयेत्, 'उप्पिं सियं बंधइत्ति उपरि सितं 'षिङ् बन्धने' इति वचनात् । क्तप्रत्ययस्य च भावार्थत्वात् कर्मार्थत्वाद्वा बन्ध-ग्रन्थिमित्यर्थः बजाति करोतीत्यर्थः । अथवा 'उप्पिंसि'त्ति उपरि 'त'मिति बस्तिं 'से आउयाए'त्ति सोऽकायस्तस्य वायुकायस्य 'उप्पिं ति उपरि, उपरिभावश्च व्यवहारतोऽपि स्यादित्यत आह-उपरितले सर्वोपरीत्यर्थः। यथा वायुराधारो जलस्य दृष्ट एवमाधाराधेयभावो भवति। आकाशघनवातादीनामिति भावः। आधाराधेयभावश्च प्रागेव सर्वपदेषु व्यंजित इति । 'अस्थाहमतारमपोरुसियंसि'त्ति अस्ताघम्-अविधमानस्ताघम्-अगाधमित्यर्थः, अस्ताधो वा निरस्ताधस्तलमिवेत्यर्थः' अत एवातारंतरीतुमशक्यं, पाठान्तरेणापार-पारवर्जितं पुरुषः प्रमाणमस्येति पौरुषेयं तत्प्रतिषेधादपौरुषेयं ततः कर्मधारयोऽतस्तत्र मकारश्चेहालाक्षणिकः । ‘एवं वा' इत्यत्र वाशब्दो दृष्यन्तान्तरतासूचनार्थः।
लोकस्थित्यधिकारादेवेदमाह-'अस्थि ण'मित्यादि अन्ये त्वाहु:-'अजीवा जीवपइट्ठिया' इत्यादेः पदचतुष्टयस्य भावनार्थमिदमाह११३१२. 'पोग्गले'त्ति कर्मशरीरादिपुद्गलाः। 'अण्णमण्णबद्ध'त्ति अन्योऽन्यं जीवाः पुद्गलानां पुद्गलाश्च जीवानां संबद्धा इत्यर्थः । कथं बद्धा इत्याह
'अन्नमन्नपुट्ठा' पूर्वं स्पर्शनामात्रेणान्योऽन्यं स्पृथस्ततोऽन्योऽन्यं बद्धाः गाढतरं संबद्धा इत्यर्थः । 'अण्णमण्णमोगाढ'त्ति परस्परेण लोलीभावं गतः, अन्योऽन्यं स्नेहप्रतिबद्धा इति । अत्र रागादिरूपः स्नेहः यदाह
"नेहाभ्यक्तशरीरस्य, रेणुना श्लिष्यते यथा गात्रम् ।
रागद्वेषक्लिनस्य' कर्मबन्यो भवत्येवम् ।।" इति । अत एव अण्णमण्णघडताए त्ति अन्योऽन्यं घटासमुदायो येषां तेऽन्योऽन्यघटास्तद्भावस्तत्ता तयाऽन्योन्यघटतया । १।३१३. 'हरए सिय'त्ति 'हृदो' नदः ‘स्यात्' भवेत् 'पुण्णे'त्ति भृतो जलस्य, स च किञ्चिन्यूनोऽपि व्यवहारतः स्यादत आह–'पुण्णप्पमाणे'त्ति पूर्णप्रमाणः
पूर्ण वा जलेनात्मनो मानं यस्य स पूर्णात्ममानः। 'वोलट्टमाणे' त्ति व्यपलोड्यन अतिजलभरणाच्छर्धमानजल इत्यर्थः । 'वोसट्टमाणे'त्ति जलप्राचुयदिव विकशन्-रफारीभवन् वर्द्धमान इत्यर्थः । 'समभरघडत्ताए' त्ति समो न विषमो घटैकदेशमनाश्रितत्वेन भरो-जलसमुदायो यत्र स समभरः सर्वथा भृतो वा समभरः, समशब्दस्य सर्वशब्दार्थत्वात्, समभरश्चासौ घटश्चेति समासः समभरघट इव समभरघटस्तभावस्तत्ता तया समभरघटतया सर्वथाभृतघटाकारतयेत्यर्थः ।
'अहे णत्ति अहेशब्दः अथार्थः अथशब्दश्चानन्तर्यार्थः, णमिति वाक्यालंकारे 'महंति महतीं 'सयासवं'ति आश्रवति-ईषत्क्षरतिजलं यैस्ते १. अवस्थिता ख. ग.
३. रागद्वेषा ख. ग. घ. च. छ. २. मित्यर्थः ख. ग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org