________________
३६३
भगवती वृत्ति
श.१: उ.६: सू.२६५-२६८ स्पर्शनामेवाधिकृत्याह११२७०. 'लोयंते भंते ! अलोयंत'मित्यादि, लोकान्तः सर्वतो लोकावसानम्, अलोकान्तस्तु तदनन्तर एवेति । इहापि१।२७१. 'पुटुं फुसइ'इत्यादिसूत्रप्रपञ्चो दृश्यः, अत एवोक्तं 'जाव नियमा छद्दिसि' ति । एतद्भावना चैवं-स्पृष्टमलोकान्तं लोकान्तः स्पृशति, स्पृष्टत्वं च
व्यवहारतो दूरस्थस्यापि दृष्टं यथा चक्षुःस्पर्श इति, अत उच्यते-अवगाढम्-आसन्नमित्यर्थः। अवगाढत्वं चासत्तिमात्रमपि स्यादत उच्यतेअनन्तरावगाढम् अव्यवधानेन संबद्धं न तु परम्पराऽवगाढं-शृंखलाकटिका इव परम्परासम्बद्धम् । तं चाणुं स्पृशति, अलोकान्तस्य क्वचिद्विवक्षया प्रदेशमात्रत्वेन सूक्ष्मत्वात् बादरमपि स्पृशति क्वचिद्विवक्षयैव बहुप्रदेशत्वेन बादरत्वात्। तमूर्ध्वमधस्तिर्यक् च स्पृशति, ऊर्ध्वादिदिक्षु लोकान्तस्यालोकान्तस्य च भावात् । तं चादौ मध्येऽन्ते च स्पृशति कथम् ? अधस्तिर्यगूदुज़लोकप्रान्तानामादिमध्यान्तकल्पनात् । तं च स्वविषये स्पृशति-स्पृष्टावगाढादौ, नाविषयेऽस्पृष्टादाविति । तं चानुपूर्व्या स्पृशति, आनुपूर्वी चेह प्रथम स्थाने लोकान्तस्ततोनन्तरं द्वितीये स्थानेऽलोकान्त इत्येवमवस्थानतया स्पृशति, लोकान्तस्य पार्वतः सर्वतोऽलोकान्तस्य भावात्। इह च विदिक्षु स्पर्शना नास्ति' दिशां लोकविष्कम्भप्रमाणत्वाद् विदिशां च तत्परिहारेण भावादिति।।
एवं द्वीपान्तसागरान्तादिसूत्रेषु स्पृथदिपदभावना कार्या। नवरं दीपान्तसागरान्तसूत्रे । ११२७२.'छद्दिसि इत्यस्यैवं भावना-योजनसहस्रावगाढा द्वीपाश्च समुद्राश्च भवन्ति, ततश्चोपरितनानधस्तनांश्च द्वीपसमुद्रप्रदेशानाश्रित्य ऊर्ध्वाधोदिग्द्वयस्य
स्पर्शना वाच्या। पूर्वादिदिशां तु प्रतीतैव समन्ततस्तेषामवस्थानात्।। ११२७३. 'उदयंते पोयंते'ति नद्याधुदकान्तः ‘पोतान्तं' नौपर्यवसानं, इहाप्युच्छ्यापेक्षया उर्ध्वदिक्स्पर्शना वाच्या जलनिमज्जनेन वेति । ११२७४. 'छिदंते दूसंत'न्ति छिद्रान्तः 'दूष्यान्तं' वस्त्रान्तं स्पृशति इहापि षड्दिस्पर्शनाभावना वस्त्रोच्छ्यापेक्षया। अथवा कम्बलरूपवस्त्रपोट्टलिकायां
तन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्ध्रापेक्षया लोकान्तसूत्रवत् षड्दिकस्पर्शना भावयितव्या । १॥२७५.'छायंते आयवंतंति इह छायाभेदेन षदिग्भावनैवम्-व्योमवर्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्त आतपान्तं चतसृषु दिक्षु स्पृशति तथा तस्या
एव छायाया भूमेः सकाशात्तद् द्रव्यं यावदुच्योऽस्ति, ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पृशति । अथवा प्रासादवरण्डिकादेर्या छाया तस्या भित्तेरवतरत्या आरोहन्त्या वाऽन्त आतपान्तमूर्ध्वमधश्च स्पृशतीति भावनीयम् । अथवा तयोरेव छायाऽऽतपयो; पुद्गलानामसंख्येयप्रदेशावगाहित्वादुच्छ्रयसद्भावः तत्सद्भावाच्चोवधिोविभागः। ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पृशतीति ।
स्पर्शनाऽधिकारादेव प्राणातिपातादिपापस्थानप्रभवकर्मस्पर्शनामधिकृत्याह१।२७६. 'अस्थि'त्ति अस्त्ययं पक्ष:-'किरिया कज्जइत्ति क्रियत इति क्रिया-कर्म सा क्रियते-भवति । १।२७७. 'पुढे' इत्यादेाख्या पूर्ववत्।। १।२७८. 'कडा कजइ'त्ति कृता भवति, अकृतस्य कर्मणोऽभावात् । ११२७६. 'अत्तकडा कज्जइ'त्ति आत्मकृतमेव कर्म भवति, नान्यथा । १।२८०. 'अणाणुपुब्बिं कडा कज्जइ'त्ति पूर्वपश्चाविभागो नास्ति यत्र तदनानुपूर्वीशब्देनोच्यत इति । ११२१५. 'जहा नेरइया जहा एगिदियवज्जा भाणियव्वं' त्ति नारकवदसुरादयोऽपि वाच्याः। एकेन्द्रियवर्जाः ते त्वन्यथा, तेषां हि दिक्पदे 'निव्वाघाएणं
छद्दिसिं वाघायं पडुच्च सिय तिदिसिं' इत्यादेर्विशेषाभिलापस्य जीवपदोक्तस्य भावात्, अत एवाह-एगिंदिया जहा जीवा तहा भाणियव्व' त्ति । ११२१६. 'जाव मिच्छादसणसल्ले' इह यावत्करणात् 'माणे माया लोभे पेजे' अनभिव्यक्तमायालोभस्वभावमभिष्वंगमात्रं प्रेम। 'दोसे' अन
भिव्यक्तक्रोधमानस्वरूपप्रीतिमात्रं द्वेषः। 'कलह' राटिः। 'अब्मक्खाणे' असद्दोषाविष्करणं । 'पेसुन्ने' प्रच्छन्नमसद्दोषाविष्करणं । 'परपरिवाए' विप्रकीर्णं परेषां गुणदोषवचनम्। 'अरतिरती' अरतिः-मोहनीयोदयाच्चित्तोद्वेगस्तत्फला रतिः-विषयेषु मोहनीयोदयाच्चित्ताभिरतिररतिरतिः । 'मायामोसे' तृतीयकषायद्वितीयाश्रवयोः संयोगः। अनेन च सर्वसंयोगा उपलक्षिताः। अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामषेति। मिथ्यादर्शनं शल्यमिव विविधव्यथानिबन्धनत्वान्मिथ्यादर्शनशल्यमिति। एवं तावद्गौतमद्वारेण कर्म प्ररूपितं । तच्च प्रवाहतः शाश्वतमित्यतः शाश्वतानेव लोकादिभावान् रोहकाभिधानमुनिपुंगवद्वारेण प्ररूपयितुं
प्रस्तावयन्नाह११२१८. 'तेणं कालेण'मित्यादि 'पगइभद्दए'त्ति स्वभावत एव परोपकारकरणशीलः । 'पगइमउए'त्ति स्वभावत एव भावमार्दविकः अत एव 'पगइविणीए'ति
तथा 'पगइउवसंते'त्ति क्रोधोदयाभावात् । 'पगइपयणुकोहमाणमायालोभे' सत्यपि कषायोदये तत्कार्याभावात् प्रतनुक्रोधादिभावः । 'मिउमद्दवसंपन्ने'त्ति मृदु यन्मार्दवम्- अत्यर्थमहंकृतिजयस्तत्संपन्नः-प्राप्तो गुरूपदेशाद् य; स तथा 'अल्लीणे'त्ति गुरुसमाश्रितः संलीनो वा। 'भद्दए'त्ति
अनुपतापको गुरुशिक्षागुणात् । 'विणीए'त्ति गुरुसेवागुणात् । १।२६२. 'भवसिद्धिया य'त्ति भविष्यतीति भवा, भवसिद्धिः-निवृत्तिर्येषां ते भवसिद्धिकाः, भव्याः इत्यर्थः । ११२६७. 'सत्तमे उवासंतरे'त्ति सप्तमपृथिव्या अधोवाकाशमिति ।
सूत्रसंग्रहगाथे-के ? तत्र१।२६८. 'ओवासे'त्ति सप्तावकाशान्तराणि, 'वाय'त्ति तनुवाता; घनवाताः, 'घणउदहित्ति घनोदधयः सप्त, 'पुढवि'त्ति नरकपृथिव्यः सप्तैव, 'दीवा यत्ति १. न स्पर्शनास्ति क. ग. घ. च. छ.
२. स्पर्श घ. च.
जाप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org