SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ श.१: उ.५,६: सू.२५४-२६८ ३८२ भगवती वृत्ति तथेति तैस्तेषां सर्वथा साम्यपरिहारसूचनायाह-'णवरं णाणत्तं जाणियव्वं जं जस्स' त्ति 'यत्' लेश्यादिगतं 'यस्य' ज्योतिष्कादेः 'नानात्वम्' इतरापेक्षया भेदस्तद् ज्ञातव्यमिति। परस्परतो विशेष ज्ञात्वैतेषां सूत्राण्यध्येयानीतिभावः । तत्र लेश्याद्वारे-ज्योतिष्काणामेकैव तेजोलेश्या वाच्या। ज्ञानद्वारे त्रीणि ज्ञानानि, अज्ञानान्येव त्रीण्येव, असंज्ञिनां तत्रोपपाताभावेन विभंगस्यापर्याप्तकावस्थायामपि भावात् । तथा वैमानिकानां लेश्याद्वारे तेजोलेश्यादयस्तिस्रो लेश्या वाच्याः । ज्ञानद्वारे च त्रीणि ज्ञानान्यज्ञानानि चेति। वैमानिकसूत्राणि चैवमध्येयानि'संखेजेसु णं भंते ! वेमाणियावाससयसहस्सेसु एगमेगंसि वेमाणियावासंसि केवइया ठिइठाणा पन्नत्ता ?' इत्येवमादीनि । ॥ प्रथमशते पञ्चमोद्देशकः ॥ षष्ठ उद्देशकः अथ षष्ठो व्याख्यायते, तस्य चायं सम्बन्धः-अनन्तरोद्देशकेऽन्तिमसूत्रेषु 'असंखेज्जेसु णं भंते ! जोतिसियवेमाणियावासेसु तथा संखेजेसु णं भंते ! वेमाणियावाससयसहस्सेसु' इत्येतदधीतं, तेषु च ज्योतिष्कविमानावासाः प्रत्यक्षा एवेति तद्गतदर्शनं प्रतीत्य तथा 'जावते' इति यदुक्तमादि गाथायां तच्च दर्शयितुमाह११२५६. 'जावइयाओ'इत्यादि, यत्परिमाणात् 'ओवासंतराओ'त्ति 'अवकाशान्तरात्' आकाशविशेषादवकाशरूपान्तरालाद् वा, यावत्यवकाशान्तरे स्थित इत्यर्थः । 'उदयंते'त्ति उदयन् उद्गच्छन् 'चक्खुप्फास'त्ति चक्षुषो-दृष्टेः स्पर्श इव स्पर्शो न तु स्पर्श एव चक्षुषोऽप्राप्तकारित्वादिति चक्षुःस्पर्शस्तं । 'हव्वं ति शीघ्रं, स च किल सर्वाभ्यन्तरमण्डले सप्तचत्वारिंशति योजनानां सहस्रेषु द्वयोः शतयोस्त्रिषष्टौ (४७२६३) च साधिकायां वर्तमान उदये दृश्यते। अस्तसमयेऽप्येवम् । एवं प्रतिमण्डलं दर्शने विशेषोऽस्ति, स च स्थानान्तरादवसेयः । ११२५७. 'सव्वओ समंत'त्ति 'सर्वतः' सर्वासु दिक्षु 'समन्तात् विदिक्षु, एकार्थों वैतौ । 'ओभासई त्यादि 'अवभासयति' ईषत्प्रकाशयति यथा स्थूलतरमेव वस्तु दृश्यते । 'उद्द्योतयति' भृशं प्रकाशयति यथा स्थूलमेव दृश्यते। 'तपति' अपनीतशीतं करोति यथा वा सूक्ष्म पिपीलिकादि दृश्यते तथा करोति । 'प्रभासयति' अतितापयोगाद्विशेषतोऽपनीतशीतं विधत्ते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोतीति । एतत्क्षेत्रमेवाश्रित्याह–'तं भंते !'त्यादि१।२५८. 'तं भंते' ! ति यत् क्षेत्रमवभासयति यदुद्द्योतयति तपति प्रभासयति च 'तत्' क्षेत्रं किं भदन्त ! स्पृष्टमवभासयति अस्पृष्टमवभासयति ? इह यावत्करणादिदं दृश्यं–'गोयमा ! पुढे ओभासेइ नो अपुटुं । ११२५६.तं भंते ! ओगाढं ओभासेइ अणोगाढं ओभासेइ ? गोयमा ! ओगाढं ओभासइ नो अणोगाढं । ११२६०.एवं अणंतरोगाढं ओभासेइ नो परम्परोगाढं। १।२६१.तं भंते ! किं अणुं ओभासइ बायरं ओभासइ ? गोयमा ! अणुंपि ओभासइ बायरंपि ओभासइ । १।२६२.तं मंते ! उई ओभासइ तिरियं ओभासइ अहे ओभासइ ? गोयमा ! उड्डपि ओभासइ तिरियंपि ओभासइ अहेपि ओभासइ । १।२६३.तं भंते ! आइं ओभासइ मज्झे ओभासइ अंते ओभासइ ? गोयमा आइंपि ओभासइ मज्झेपि ओभासइ अंतेपि ओभासइ। १।२६४.तं भंते ! सविसए ओभासइ अविसए ओभासइ ? गोयमा ! सविसए ओभासइ नो अविसए। १।२६५.तं मंते ! आणुपुट्विं ओभासेइ अणाणुपुरि ओभासइ ? गोयमा ! आणुपुरि ओभासइ नो अणाणुपुब्बिं । १।२६६.तं भंते ! कइदिसिं ओभासइ ? गोयमा ! नियमा छद्दिसिं'ति । एतेषां च पदानां प्रथमोद्देशकनारकाहारसूत्रव्याख्या दृश्येति । य एव 'ओभासइ' इत्यनेन सह सूत्रप्रपञ्च उक्तः स एव 'उज्जोयई'त्यादिना पदत्रयेण वाच्य इति दर्शयन्नाह११२६७.एवं 'उज्जोवेई'त्यादि । स्पृष्टं क्षेत्रं प्रभासयतीत्युक्तम् । अथ स्पर्शनामेव दर्शयन्नाह११२६८. 'सव्वंति'त्ति प्राकृत्वात् स्वतः सर्वासु दिक्षु 'सव्वावंति'त्ति प्राकृतत्वादेव सर्वात्मना सर्वेण वाऽऽतपेनापत्तिः-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापत्तिः, अथवा सर्व क्षेत्रम्, इतिशब्दो विषयभूतं क्षेत्रं सर्वं न तु समस्तमेवेत्यस्यार्थस्योपप्रदर्शनार्थः । तथा सर्वेणातपेनापो-व्याप्तिर्यस्य क्षेत्रस्य तत्सपिम् । इतिशब्दः सामान्यतः सर्वेणातपेन व्याप्तिर्न तु प्रतिप्रदेशं सर्वेणेत्यस्यार्थस्योपप्रदर्शनार्थः। अथवा सह व्यापेन-आतपव्याप्त्या यत्तत्सव्यापम् । इतिशब्दस्तु तथैव। 'फुसमाणकालसमयं' ति स्पृश्यमानक्षणे, अथवा स्पृशतः-सूर्यस्य स्पर्शनायाः कालसमयः स्पृशत्कालसमयस्तत्र आतपेनेति गम्यते, यावत्क्षेत्रं स्पृशति सूर्य इति प्रकृतं तावत्क्षेत्रं स्पृश्यमानं स्पृथमिति वक्तव्यं स्यादिति प्रश्नः। हन्तेत्याधुत्तरं। स्पृश्यमानस्पृष्टयोश्चैकत्वं प्रथम सूत्रादवगन्तव्यमिति। १. वेमाणावासेसु ख. ग. घ. च. छ. ४. आप्ति ग. २.अस्तमये ख. च. छ. ५. सर्वाप्ति ग. 3. चैतौ क.ख. ग.घ.च. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003593
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages458
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy