________________
भगवती वृत्ति
३५१
श.१: उ.५: सू.२५१-२५४ 'उभयं' प्रदिपद्यमानपूर्वप्रतिपन्नरूपमिति | ११२५१. 'बेईदिए'त्यादावेवमक्षरघटना-'जेहिं ठाणेहिं नेरइयाणं असीइभंगा तेहिं ठाणेहिं बेइंदियाइदियचउरिदियाणं असीइं चेव'त्ति तत्रैकादि
संख्यातान्तसमायाधिकायां जघन्यस्थितौ १ तथा जघन्यायामवगाहनायां च २ तत्रैव च संख्येयान्तप्रदेशवृद्धायां ३ मिश्रदृष्टौ च नारकाणामशीतिभंगका उक्ताः। विकलेन्द्रियाणामप्येतेषु स्थानेषु मिश्रदृष्टिवर्जेष्वशीतिरेव, अल्पत्वात्तेषां एकैकस्यापि क्रोधाधुपयुक्तस्य संभवात् । मिश्रदृष्टिस्तु विकलेन्द्रियेष्वेकेन्द्रियेषु च न भवतीति न विकलेन्द्रियाणां तत्राशीतिस्तत्राप्यभंगकमिति इति । वृध्दैस्त्विह सूत्रे कुतोऽपि वाचनाविशेषाद् यत्राशीतिस्तत्राप्यभंगकमिति व्याख्यातमिति । इहैव विशेषाभिधानायाह-नवरमित्यादि, अयमर्थः-दृष्टिद्वारे ज्ञानद्वारे च नारकाणां सप्तविंशतिरुक्ता, विकलेन्द्रियाणां तु 'अब्महिय'त्ति अभ्यधिकान्यशीतिभंगकानां भवति, क ? इत्याह सम्यक्त्वे' अल्पीयसां हि विकलेन्द्रियाणां सास्वादनभावेन सम्यक्त्वं भवति । अल्पत्वाच्च तेषामेकत्वस्यापि संभवेनाशीतिभंगकानां भवति । एवमाभिनिबोधिके श्रुते चेति । तथा 'जेही त्यादि, येषु स्थानेषु नैरयिकाणां सप्तविंशतिभंगकास्तेषु स्थानेषु द्वित्रिचतुरिन्द्रियाणां भंगकाभावः। तानि च प्रागुक्ताशीतिभंगकस्थानविशिष्टानि मंतव्यानि, भंगकाभावश्च क्रोधाधुपयुक्तानामेकदैव बहूनां भावादिति।। विकलेन्द्रियसत्राणि च पथिवीकायिकसत्राणीवाध्येयानि, नवरमिह लेश्याद्वारे-तेजोलेश्या नाध्येतव्या । दृष्टिद्वारे च 'बेइंदिया णं भंते ! किं सम्मद्दिवी मिच्छद्दिवी समामिच्छद्दिट्टी ? गोयमा ! सम्मद्दिट्ठीवि मिच्छद्दिट्ठीवि नो समामिच्छदिट्ठी। सम्मइंसणे वट्टमाणा बेइंदिया किं कोहोवउत्ता ?' इत्यादि प्रश्ने उत्तरमशीतिर्भङ्गकाः । तथा ज्ञानद्वारे-'बेइंदिया णं भंते ! किं णाणी अन्नाणी ? गोयमा ! णाणीवि अन्नाणीवि। जइ णाणी दुनाणी-'मइणाणी सुयणाणी य' शेषं तथैवाशीतिश्च भंगा इति। योगद्वारे-'बेइंदिया णं भंते ! किं मणजोगी वइजोगी कायंजोगी ? गोयमा ! णो मणजोगी वइजोगी कायजोगी य' शेषं तथैव। एवं
त्रीन्द्रियचतुरिन्द्रियसूत्राण्यपि। १।२५२. 'पंचिंदिये'त्यादि 'जहिं सत्तावीसं भंग'त्ति यत्र नारकाणां सप्तविंशतिभंगकास्तत्र पञ्चेन्द्रियतिरश्चामभंगकं । तच्च जघन्यस्थित्यादिकं पूर्वं दर्शितमेव ।
भंगकाभावश्च क्रोधाधुपयुक्तानां बहूनामेकदैव तेषु भावादिति । सूत्राणि चेह नारकसूत्रवदध्येयानि नवरं शरीरद्वारेऽयं विशेष:-'असंखेजेसु णं भंते ! पंचिंदियतिरिक्खजोणियावासेसु पंचिंदियतिरिक्खजोणियाणं केवइया सरीरा पन्नत्ता ? गोयमा ! चत्तारि, तंजहा-ओरालिए वेउविए तेयए कम्मए' सर्वत्र चाभंगकमिति । तथा संहननद्वारे 'पंचिंदियतिरिक्खजोणियाणं केवइया संघयणा पन्नत्ता ? गोयमा ! छ संघयणा पन्नत्ता, तंजहा-वइरोसहनारायं जाव छेवट्ठति । एवं संस्थानद्वारेऽपि 'छ संठाणा पन्नत्ता, तंजहा-समचउरंसे ६'।
एवं लेश्याद्वारे-'कइ लेसाओ पन्नत्ताओ ? गोयमा ! छ लेस्सा पन्नत्ता, तंजहा-किण्हलेस्सा ६'। ११२५३. 'मणुस्साणवित्ति यथा नैरयिका दशसु द्वारेष्वभिहितास्तथा मनुष्या अपि भणितव्या इति प्रक्रमः, एतदेवाह-'जेही'त्यादि, तत्र नारकाणां
जघन्यस्थितावेकादिसंख्यातान्तसमयाधिकायां १ तथा जघन्यावगाहनायां २ तस्यामेव संख्यातान्तप्रदेशाधिकायां ३ मिश्रे च ४ अशीतिभंगका उक्ताः। मनुष्याणामप्येतेष्वशीतिरेव, तत्कारणं च तदल्पत्वमेवेति । नारकाणां मनुष्याणां च सर्वथा साम्यपरिहारायाह-'जेसु सत्तावीसा' इत्यादि, सप्तविंशतिभंगकस्थानानि च नारकाणां जघन्यस्थित्यसंख्यातसमयाधिकजघन्यस्थितिप्रभृतीनि । तेषु जघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन तद्वर्जेषु मनुष्याणामभंगकम् । यतो नारकाणां बाहुल्येन क्रोधोदय एव भवति । तेन तेषां सप्तविंशतिर्भङ्गका उक्तस्थानेषु युज्यन्ते । मनुष्याणां तु प्रत्येकं क्रोधाधुपयोगवतां बहूनां भावान्न कषायोदये विशेषोऽस्ति । तेन तेषां तेषु स्थानेषु भंगकाभाव इति । इहैव विशेषाभिधानायाह-नवरमित्यादि । येषु स्थानेषु नारकाणामशीतिस्तेषु मनुष्याणामप्यशीतिः तथा 'जेसु सत्तावीसा तेसु अभंगय'मित्युक्तं, केवलं मनुष्याणामिदमभ्यधिकं यदुत जघन्यकस्थितौ तेषामशीतिर्न तु नारकाणां तत्र सप्तविंशतिरुक्तेत्यभंगकम् । तथाऽहारकशरीरे अशीतिराहारकशरीरवतां मनुष्याणामल्पत्वान्नारकाणां तु तन्नास्त्येवेत्येतदप्यभ्यधिकं मनुष्याणामिति। इह च नारकसूत्राणां मनुष्यसूत्राणां च प्रायः शरीरादिषु चतुर्दा ज्ञानद्वार एव च विशेषः, तथाहि-'असंखेज्जेसु णं भंते ! मणुस्सावासेसु मणुस्साणं कइ सरीरा पन्नत्ता ? गोयमा ! पंच, तंजहा-ओरालिए वेउविए आहारए तेयए कम्मए । असंखेज्जेसु णं जाव ओरालियसरीरे वट्टमाणा मणुस्सा किं कोहोवउत्ता ४ ? गोयमा ! कोहोवउत्तावि ४ । एवं सर्वशरीरकेषु नवरमाहारकेऽशीतिभंगकानां वाच्या। एवं संहननद्वारेऽपि नवरं 'मणुस्साणं भंते ! कइ संघयणा पण्णता ? गोयमा ! छस्संघयणा पण्णत्ता, तंजहा–वइरोसहनाराए जाव छेवढे ।' संस्थानद्वारे 'छ संठाणा पण्णत्ता, तंजहा समचउरंसे जाव हुंडे ।' लेश्याद्वारे 'छ लेसाओ, तंजहा-किण्हलेस्सा जाव सुक्कलेसा।' ज्ञानद्वारे 'मणुस्साणं भंते ! कइ णाणाणि ? गोयमा ! पंच, तंजहा–आभिणिबोहियणाणं जाव केवलणाणं ।' एतेषु च केवलवर्जेष्वभंगकम्
केवले तु कषायोदय एवं नास्तीति । ११२५४. 'वाणमंतरे'त्यादि, व्यन्तरादयो दशस्वपि स्थानेषु यथा भवनवासिनस्तथा वाच्याः। यत्रासुरादीनामशीतिभंगका यत्र च सप्तविंशतिस्तत्र
व्यन्तरादीनामपि ते तथैव वाच्याः । भकास्तु लोभमादौ विधायाध्येयाः। तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनां तु न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org