________________
श. १: उ.५ः सू.२४१-२५०
उपयोगद्वारे—
१ । २४१. 'सागारोवउत्त'त्ति, आकारो - विशेषांशग्रहणशक्तिस्तेन सहेति साकारः, तद्विकलोऽनाकारः सामान्यग्राहीत्यर्थः ।
१ । २४४. ‘णाणत्तं लेसासु’त्ति, रलप्रभापृथिवीप्रकरणवच्छेषपृथिवीप्रकरणान्यध्येयानि, केवलं लेश्यासु विशेषः, तासां भिन्नत्वाद्, अत एव तद्दर्शनाय गाथा—‘काऊ’इत्यादि । तत्र 'तइयाए मीसिय'त्ति वालुकाप्रभाप्रकरणे उपरितननरकेषु कापोती, अधस्तनेषु तु नीली भवतीति ते यथासंभवं प्रश्नसूत्रे चाध्येतव्य इत्यर्थः । यच्च सूत्राभिलापेषु नरकावाससंख्यानानात्वं, तत् 'तीसा य पन्नवीसा' इत्यादिना पूर्वप्रदर्शितेन समवसेयमिति । एवं च सूत्राभिलापः कार्यः—'सक्करपभाए णं भंते! पुढवीए पणवीसाए निरयावाससयसहस्सेसु एक्कमेक्कसि निरयावासंसि कइ लेस्साओ पन्नत्ताओ ? गोयमा ! एगा काउलेस्सा पण्णत्ता । सक्करप्पभाए णं भंते ! जाव काउलेसाए वट्टमाणा नेरइया किं कोहोवउत्ता ?, इत्यादि 'जाव सत्तावीसं भंगा'। एवं सर्वपृथिवीषु गाथानुसारेण वाच्याः ।
असुरकुमारप्रकरणे—
३८०
भगवती वृत्ति
१ । २४५. ‘पडिलोमा भंग’त्ति नारकप्रकरणे हि क्रोधमानादिना क्रमेण भङ्गकनिर्देशः कृतः, असुरकुमारादिप्रकरणेषु लोभमायादिनाऽसौ कार्य इत्यर्थः । अत एवाह - 'सव्वेवि ताव होज लोहोवउत्त'त्ति, देवा हि प्रायो लोभवन्तो भवन्ति तेन सर्वेऽप्यसुरकुमारा लोभोपयुक्ताः स्युः । द्विकसंयोगे तु लोभोपयुक्तत्वे बहुवचनमेव । मायोपयोगे त्वेकत्वबहुत्वाभ्यां द्वौ भंगकौ । एवं सप्तविंशतिर्भगकाः कार्याः ।
'नवरं णाणत्तं जाणियव्वं' ति नारकाणामसुरकुमारादीनां च परस्परं नानात्वं ज्ञात्वा प्रश्नसूत्राणि उत्तरसूत्राणि चाध्येयानीति हृदयं तच्च नारकाणामसुरकुमारादीनां च संहननसंस्थानलेश्यासूत्रेषु भवति, तच्चैवं - 'चउसट्ठीए णं भंते ! असुरकुमारावाससयसहस्से एगमेसि असुरकुमारावासंसि असुरकुमाराणं सरीरगा किंसंघयणी ? गोयमा ! असंघयणी, जे पोग्गला इट्ठा कंता ते तेसिं संघायत्ताए परिणमंति, एवं संठाणेवि, नवरं भवधारणिज्जा समचउरंससंठिया उत्तरवेउव्विया अन्नयरसंठिया एवं लेसासुवि ।
'नवरं कइ लेस्साओ पन्नत्ताओ ? गोयमा ! चत्तारि तंजहा - किण्हा नीला काऊ तेऊलेसा, चउसट्ठीए णं जाव कण्हलेसाए वट्टमाणा किं कोहोवउत्ता ? गोयमा ! सव्वेवि ताव होज लोहोवउत्ता' इत्यादि । एवं 'नीलाकाऊतेऊवि' नागकुमारादिप्रकरणेषु तु 'चुलसीए नागकुमारावाससयसहरसेसु' इत्येवं "चउसट्ठी असुराणं नागकुमाराण होइ चुलसीइ" इत्यादेर्वचनात् प्रश्नसूत्रेषु भवनसंख्यानानात्वमवगम्य सूत्राभिलापः कार्य इति ।
१ । २४७. ‘एवं पुढविक्वाइयाणं सव्वेसु ठाणेसु अभंगयंति, पृथिवीकायिका एकैकस्मिन् कषाये उपयुक्ता बहवो लभ्यन्त इत्यभंगकं दशस्वपि स्थानेषु । नवरं ‘तेउलेसाए असीई भंग'त्ति, पृथिवीकायिकेषु लेश्याद्वारे तेजोलेश्या वाच्या, सा च यदा देवलोकाच्युतो देव एकोऽनेको वा पृथिवीकायिकेषूत्पद्यते तदा भवति । ततश्च तदैकत्वादिभवनादशीतिभंगका भवन्तीति ।
इह पृथिवीकायिकप्रकरणे स्थितिस्थानद्वारं साक्षाल्लिखितमेवास्ति । शेषाणि तु नारकववाच्यानि तत्र च 'नवरं णाणत्तं जाणियव्वं ' इत्येतस्यानुवृत्तेर्नानात्वमिह प्रश्नत उत्तरतश्चावसेयं तच्च शरीरादिषु सप्तसु द्वारेष्विदम् -' असंखिजेसु णं भंते ! पुढविकाइयावाससयसहस्सेसु जाव पुढविकाइयाणं कइ सरीरा पन्नत्ता ? गोयमा ! तिन्नि सरीरा, तंजहा - ओरालिए तेयए कम्मए' । एतेसु च 'कोहोवउत्तावि माणोवउत्तावी त्यादि वाच्यम् ।
तथा ‘असंखेज्जेसु णं जाव पुढविकाइयाणं सरीरगा किंसंघयणी ? 'इत्यादि तथैव, नवरं 'पोग्गला मणुन्ना अमणुन्ना सरीरसंघायत्ताए परिणमंति' । एवं संस्थानद्वारेऽपि, किन्तु उत्तरे 'हुंडसंठिया' एतावदेव वाच्यं, न तु 'दुविहा सरीरगा पन्नत्ता, तंजहा - भवधारणिजा य उत्तरवेउच्चिया य' इत्यादि पृथिवीकायिकानां तदभावादिति ।
लेश्याद्वारे पुनरेवं वाच्यं - 'पुढविक्काइयाणं भंते ! कइ लेस्साओ पन्नत्ताओ ? गोयमा ! चत्तारि, तंजहा - कण्हलेसा जाव तेउलेसा' एतासु च तिसृष्वभंगकमेव । तेजोलेश्यायां त्वशीतिभंगकाः, एतच्च प्रागेवोक्तमिति ।
दृष्टिद्वारे इदं वाच्यम्- 'असंखेजेस जाव पुढविक्काइया किं सम्मदिट्ठी मिच्छदिट्ठी सम्मामिच्छदिट्ठी ? गोयमा ! मिच्छदिट्ठी' शेषं तथैव । ज्ञानद्वारेऽपि तथैव, नवरं 'पुढविक्काइया णं भंते! किं णाणी अन्नाणी ? गोयमा ! णो णाणी अन्नाणी — नियमा दोअन्नाणी ।
योगद्वारेऽपि तथैव, नवरं 'पुढविक्वाइया णं भंते! किं मणजोगी वइजोगी कायजोगी ? गोयमा ! नो मणजोगी नो वयजोगी कायजोगी' ।
१ । २४८. ‘एवं आउक्वाइयावित्ति पृथिवीकायिकवदष्कायिका अपि वाच्याः, ते हि दशस्वपि स्थानकेष्वभंगकाः तेजोलेश्यायां चाशीतिभंगकवन्तो, यतस्तेष्वपि देव उत्पद्यत इति ।
१।२४६. ‘तेउक्काइए’त्यादौ सव्वेसु वि ठाणेसु त्ति स्थितिस्थानादिषु, दशस्वप्यभंगकं, क्रोधाद्युपयुक्तानामेकदैव तेषु बहूनां भावात् । इह देवा नोत्पद्यन्त इति तेजोलेश्या तेषु नास्ति, ततस्तत् संभवान्नाशीतिरपीत्यभंगकमेवेति । एतेषु च सूत्राणि पृथिवीकायिकसमानि केवलं वायुकायसूत्रेषु शरीरद्वारे एवमध्येयम्- 'असंखेज्जेसु णं भंते ! जाव वाउक्काइयाणं कइ सरीरा पन्नत्ता ? गोयमा ! चत्तारि तंजहा-ओरालिए वेउव्विए तेयए कम्मर त्ति ।
१ । २५०. ‘वणप्फइकाइए’त्यादि, वनस्पतयः पृथिवीकायिकसमाना वक्तव्याः दशस्वपि स्थानकेषु भंगकाभावात् । तेजोलेश्यायां च तथैवाशीतिभंगकसद्भावादिति ।
Jain Education International
ननु पृथिव्यपूवनस्पतीनां दृष्टिद्वारे सास्वादनभावेन सम्यक्त्वं कर्मग्रन्थेष्वभ्युपगम्यते । तत एव च ज्ञानद्वारे मतिज्ञानं श्रुतज्ञानं च, अल्पाश्चैते इत्येवमशीतिर्भगाः सम्यग्दर्शनाभिनिबोधिक श्रुतज्ञानेषु भवन्तु ? नैवं, पृथिव्यादिषु सास्वादनभावस्यात्यन्तविरलत्वेनाविवक्षितत्वात्, तत एवोच्यते“उभयाभावो पुढवाइएसु विगलेसु होज उववण्णो”त्ति,
For Private & Personal Use Only
www.jainelibrary.org