SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ३७६ श.१: उ.५: सू.२१६-२४० ११२१६. 'ओगाहणाठाण'त्ति अवगाहन्ते-आसते यस्यां साऽवगाहना-तनुस्तदाधारभूतं वा क्षेत्रं तस्याः स्थानानि-प्रदेशवृद्ध्या विभागाः अवगाहना स्थानानि, तत्र 'जहन्निय' त्ति जघन्याऽगुंलासंख्येयभागमात्रा सर्वनरकेषु 'तप्पाउग्गुक्कोसियत्ति तस्य विवक्षितनरकस्य प्रायोग्या या उत्कर्षिका सा तत्प्रायोग्योत्कर्षिका यथा त्रयोदशप्रस्तटे धनुःसप्तकं रलित्रयमंगुलषट्कं चेति। ११२२०. 'जहन्नियाए'इत्यादि जघन्यायां तस्यामेव चैकादिसंख्यातान्तप्रदेशाधिकायामवगाहनायां वर्तमानानां नारकाणामल्पत्वात् क्रोधाधुपयुक्त एकोऽपि लभ्यतेऽतोऽशीतिर्भाः । 'असंखेजपएसे'त्यादि, असंख्यातप्रदेशाधिकायां तप्रायोग्योत्कृष्टायां च नारकाणां बहुत्वात् तेषु च बहूनां क्रोधोपयुक्तत्वेन क्रोधे बहुवचनस्य भावात् मानादिषु त्वेकत्वबहुत्वसंभवात् सप्तविंशतिभंगा भवन्तीति। ननु ये जघन्यस्थितयो जघन्यावगाहनाश्च भवन्ति तेषां जघन्यस्थितिकत्वेन सप्तविंशतिभंगकाः प्राप्नुवन्ति जघन्यावगाहनत्वेन चाशीतिरिति विरोधः? अत्रोच्यते, जघन्यस्थितिकानामपि जघन्यावगाहनाकालेऽशीतिरेव, उत्पत्तिकालभावित्वेन जघन्यावगाहनानामल्पात्वादिति, या च जघन्यस्थितिकानां सप्तविंशतिः सा जघन्यावगाहनत्वमतिक्रान्तानामिति भावनीयम्। शरीरद्वारे१॥२२२. 'सत्तावीसं भंग'त्ति अनेन यद्यपि वैक्रियशरीरे सप्तविंशतिभंगका उक्तास्तथाऽपि या स्थित्याश्रया अवगाहनाश्रया च भङ्गकप्ररूपणा सा तथैव दृश्या, निरवकाशत्वात्तस्याः, शरीराश्रयायाश्च सावकाशत्वात् । एवमन्यत्रापि विमर्शनीयमिति। १।२२३. 'एएणं गमेणं तिन्नि सरीरया भाणियव्व' ति, वैक्रियशरीरसूत्रपाठेन त्रीणि शरीरकाणि वैक्रियतैजसकार्मणानि भणितव्यानि, त्रिष्वपि भंगकाः सप्तविंशतिर्वाच्येत्यर्थः। ननु विग्रहगतौ केवले ये तैजसकार्मणशरीरे स्यातां तयोरल्पत्वेनाशीतिरपि भंगकानां संभवतीति कथमुच्यते तयोः सप्तविंशतिरेवेति ? अत्रोच्यते-सत्यमेतत्, केवलं वैक्रियशरीरानुगतयोस्तयोरिहाश्रयणं केवलयोश्चानाश्रयणमिति सप्तविंशतिरेवेति । यच्च द्वयोरेवातिदेश्यत्वे त्रीणीत्युक्तं तत् त्रयाणामपि गमस्यात्यन्तसाम्योपदर्शनार्थमिति । संहननद्वारे२२४.'छण्हं संघयणाणं असंघयणि'त्ति षण्णां संहननानां-वज्रर्षभनाराचादीनां मध्यादेकतरेणापि संहननेनासंहननानीति। कस्मादेवमित्यत आह 'नेवट्ठी'त्यादि, नैवास्थ्यादीनि तेषां सन्ति अस्थिसंचयरूपं च संहननमुच्यत इति । 'अनिट्ठ'त्ति इष्यन्ते स्मेतीष्टास्तनिषेधादनिष्टाः, अनिष्टमपि किंचित् कमनीयं भवतीत्यत उच्यते-अकान्ताः । अकान्तमपि किञ्चित् कारणवशात् प्रीतये भवतीत्याह-(ग्रन्थाग्रम् २०००) 'अप्पिया' अप्रीतिहेतवः। अप्रियत्वं तेषां कुतः ? यतः 'असुभ'त्ति अशुभस्वभावाः । ते च सामान्या अपि भवन्तीत्यतो विशिष्यते–'अमणुण्ण'त्ति न मनसा-अन्तःसंवेदनेन शुभतया ज्ञायन्त इत्यमनोज्ञाः। अमनोज्ञता चैकदाऽपि स्यादत आह-'अमणाम'त्ति न मनसा अम्यन्ते-गम्यन्ते पुनः पुनः स्मरणतो ये ते अमनोऽमाः। एकार्थिका वैते शब्दाः अनिष्टताप्रकर्षप्रतिपादनार्था इति । 'सरीरसंघायत्ताए'त्ति संघाततया, शरीररूपसंचयतयेत्यर्थः । संस्थानद्वारे११२२६. किंसंठियत्ति किं संस्थितं-संस्थानं येषां तानि किंसंस्थितानि। 'भवधारणिज्जत्ति, भवधारणं-निजजन्मातिवाहनं प्रयोजनं येषां तानि भवधारणीयानि, आजन्मधारणीयानीत्यर्थः। 'उत्तरवेउब्वियत्ति पूर्ववैक्रियापेक्षयोत्तराणि-उत्तरकालभावीनि वैक्रियाणि उत्तरवैक्रियाणि, 'हुंडसंठिय'त्ति सर्वत्रासंस्थितानि। दृष्टिद्वारे ११२३३. 'सम्मामिच्छादसणे असीइभंग'त्ति मिश्रदृष्टीनामल्पत्वात्तद्भावस्यापि च कालतोऽल्पत्वादेकोऽपि लभ्यते इत्यशीतिभंगाः। ज्ञानद्वारे११२३४. 'तिन्नि णाणाई नियम'त्ति ये ससम्यक्त्वा नरकेषूत्पद्यन्ते, तेषां प्रथमसमयादारभ्य भवप्रत्ययस्यावधिज्ञानस्य भावात् त्रिज्ञानिन एव ते। ये तु मिथ्यादृष्टयस्ते संज्ञिभ्योऽसंज्ञिभ्यश्चोत्पद्यन्ते, तत्र ये संनिभ्यस्ते भवप्रत्ययादेव विभंगस्य भावात् यज्ञानिनः, ये त्वसंज्ञिभ्यस्तेषामाद्यादन्तर्मुहूर्तात्परतो विभंगस्योत्पत्तिरिति तेषां पूर्वमज्ञानद्वयं पश्चाद् विभंगोत्पत्तावज्ञानत्रयमित्यत उच्यते-'तिन्नि अण्णाणाई भयणाए' त्ति 'भजनया' विकल्पनया कदाचिद् द्वे कदाचित् त्रीणीत्यर्थः । अत्रार्थे गाथे स्याताम् "सबी नेरइएसुं उरलपरिचायणंतरे समए। विमंगं ओहिं वा अविग्गहे विग्गहे लहइ।। अस्सनी नरएसुं पञ्जत्तो बेण लहइ विन्मंग। नाणा तिनेव तओ अमाणा दोनि तिनेव॥" ११२३६.'एवं तिन्नि णाणे'त्यादि, आभिनिबोधिकज्ञानवत् सप्तविंशतिभंगकोपेतानि आधानि त्रीणि ज्ञानानि अज्ञानानि चेति। इह च त्रीणि ज्ञानानीति यदुक्तं तदाभिनिबोधिकस्य पुनर्गणनेनान्यथा द्वे एव ते वाच्ये स्यातामिति । 'तिन्नि अन्नाणाई' इत्यत्र यदि मत्यज्ञानश्रुताज्ञाने विभंगात्पूर्वकालभाविनी विवक्ष्येते ततो जघन्यावगाहनाश्रयेणैवाशीतिभंगकास्तेषामवसेया इति । योगद्वारे१॥२४०. 'एवं कायजोए'त्ति, इह यद्यपि केवलकार्मणकाययोगेऽशीतिभङ्गाः संभवन्ति तथाऽपि तस्याविवक्षणात् सामान्यकाययोगाश्रयणाच्च सप्तविंशतिरुक्तेति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003593
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages458
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy