SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३७८ श.१: उ.५: सू.२१५-२१८ भगवती वृत्ति ११२१४,२१५. 'पुढवी'त्यादि, तत्र पुढवीति लुप्तविभक्तिकत्वानिर्देशस्यं पृथिवीषु, उपलक्षणत्वाच्चास्य पृथिव्यादिषु जीवावासेष्विति द्रष्टव्यमिति। 'ठिइत्ति 'सूचनात् सूत्र'मिति न्यायात् स्थितिस्थानानि वाच्यानीति शेषः । एवं 'ओगाहणे ति अवगाहनास्थानानि । शरीरादिपदानि तु व्यक्तान्येव । एकारान्तं च पदं प्रथमैकवचनान्तं दृश्यम्, इत्येवमेतानि स्थितिस्थानादीनि दश वस्तूनि इहोद्देशके विचारयितव्यानीति गाथासमासार्थः । विस्तारार्थं तु सूत्रकारः स्वयमेव वक्ष्यतीति । तत्र रलप्रभापृथिव्यां स्थितिस्थानानि तावारूपयन्नाह११२१६. 'इमीसे ण'मित्यादि व्यक्तं, नवरं 'एगमेगंसि निरयावासंसित्ति प्रतिनरकावासमित्यर्थः 'ठितिठाण' त्ति आयुषों विभागाः 'असंखेज' त्ति संख्यातीतानि, कथं ? प्रथमपृथिव्यपेक्षया जघन्या स्थितिर्दश वर्षसहस्त्राणि उत्कृष्थ तु सागरोपमम् । एतस्यां चैकैकसमयवृद्ध्याऽसंख्येयानि स्थितिस्थानानि भवन्ति, असंख्येयत्वात्सागरोपमसमयानामिति । एवं नरकावासापेक्षयाऽप्यसंख्येयान्येव तानि केवलं तेषु जघन्योत्कृटविभागो ग्रन्थान्तरादवसेयो, यथा प्रथमप्रस्तटनकरेषु जघन्या स्थितिर्दश वर्षसहस्रणि उत्कृष्ट तु नवतिरिति एतदेव दर्शयन्नाह-'जहणिया ठिती' त्यादि, जघन्या स्थितिर्दशवर्षसहस्त्रादिका इत्येकं स्थितिस्थानं, तच्च प्रतिनरकं भिन्नरूपं, सैव समयाधिकेति द्वितीयं, इदमपि विचित्रम्, एवं यावदसंख्येयसमयाधिका सा, सर्वान्तिमस्थितिस्थानदर्शनायाह-'तप्पाउग्गुक्कोसिय'त्ति उत्कृय असावनेकविधेति विशेष्यते तस्य-विवक्षितनरकावासस्य प्रायोग्या-उचिता उत्कर्षिका तत्प्रायोग्योकर्षिका इत्यपरं स्थितिस्थानम्, इदमपि विचित्र', विचित्रत्वादुत्कर्षस्थितेरिति । एवं स्थितिस्थानानि प्ररूप्य तेष्वेव क्रोधाधुपयुक्तत्वान्नारकाणां विभागेन दर्शयन्निदमाह११२१७. 'इमीसे णं'इत्यादि 'जहन्नियाए ठिईए वट्टमाण'त्ति या यत्र नरकावासे जघन्या तस्यां वर्तमानाः 'किं कोहोवउत्ते'त्यादि प्रश्ने ‘सब्वेवी' त्याधुत्तरं। तत्र च प्रतिनरकं जघन्यस्थितिकानां एकादिसंख्यातसमयाधिकजघन्यस्थितिकानां तु कादाचित्कत्वात् तेषु च क्रोधाधुपयुक्तानामेकत्वानेकत्वसंभवादशीतिर्भङ्गकाः। एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां प्रत्येकं बहूनां भावादभङ्गकम्। आह च "संभवइ जहिं विरहो असीई भंगा तर्हि करेजाहि। जहियं न होइ विरहो, अभंगयं सत्तवीसा वा॥" इदपि विचित्रम्, एवं यावदसंख्ययावषसहस्त्रादिका इत्येकं स्थितिस्थान मतप्पाउग्गुक्कोसिय'त्ति उत्कृथ असा ११२१८. अयं च तत्सत्तापेक्षो विरहो द्रष्टव्यो, न तूत्पादापेक्षया । यतो रलप्रभायां चतुर्विशतिर्मुहूर्ता उत्पादविरहकाल उक्तः । ततश्च यत्र सप्तविंशतिभंगकाः उच्यन्ते, तत्रापि विरहभावादशीतिः प्राप्नोति, सप्तविंशतेश्चाभाव एवेति । तत्र 'सव्वेवि ताव होज कोहोवउत्त'त्ति, प्रतिनरकं स्वकीयस्वकीयस्थित्यपेक्षया जघन्यस्थितिकानां नारकाणां सदैव बहूनां सद्भावात् नारकभवस्य च क्रोधोदयप्रचुरत्वात्सर्व एव क्रोधोपयुक्ता भवेयुरित्येको भंगः। 'अहवा' इत्यादिना द्वित्रिचतुः संयोगभंगा दर्शिताः । तत्र द्विकसंयोगे बहुवचनान्तं क्रोधममुञ्चता षड्भंगाः कार्याः, तथाहि क्रोधोपयुक्तश्च मानोपयुक्ताश्च १ तथा क्रोधोपयुक्ताश्च मानोपयुक्ताश्च २ एवं मायया एकत्वबहुत्वाभ्यां द्वौ, लोभेन च द्वौ एवमेते द्विकसंयोगे षट्। त्रिकसंयोगे तु द्वादश भवन्ति १२, तथाहि-क्रोधे नित्यं बहुवचनं मानमाययोरेकवचनमित्येकः १ मानैकत्वे मायाबहुत्वे च द्वितीयः २ माने बहुवचने मायायामेकत्वमिति च तृतीयः ३, मानबहुत्वे मायाबहुत्वे च चतुर्थः ४, पुनः क्रोधमानलोभैरित्थमेव चत्वारः ४, पुनः क्रोधमायालोभैरित्थमेव चत्वारः ४ एवमेते द्वादश। चतुष्कसंयोगे त्वष्टौ, तथाहि-क्रोधे बहुवचनेन मानमायालोभेषु चैकवचनेनैकः, इत्यमेव लोभे बहुवचनेन द्वितीयः । एवमेतावेकवचनान्तमायया जातौ, एवमेव बहुवचनान्तमाययाऽन्यौ द्वौ एवमेते चत्वार एकवचनान्तमानेन जाताः, एवमेव बहुवचनान्तमानेन चत्वार इत्येवमष्टी, एवमेते जघन्यस्थितिषु नारकेषु सप्तविंशतिर्भवन्ति, जघन्यस्थितौ हि बहवो नारका भवन्त्यतः क्रोधे बहुवचनमेव। 'समयाहियाए जहन्नविईए वट्टमाणा नेरइया किं कोहोवउत्ता' इत्यादि प्रश्नः इहोत्तरम्-'कोहोबउत्ते य' इत्यादयोऽशीतिर्भाः । इह समयाधिकायां यावत्संख्येयसमयाधिकायां जघन्यस्थितौ नारका न भवन्त्यपि भवति चेदेको वाऽनेको वेति ततः क्रोधादिष्वेकत्वेन चत्वारो विकल्पाः, बहुत्वेन चान्ये चत्वार एव । ४ । द्विकसंयोगे चतुर्विंशतिः, तथाहि क्रोधमानयोरेकत्वबहुत्वाभ्यां चत्वारः ४, एवं क्रोधमाययोः ४, एव क्रोधलोभयोः ४, एवं मानमाययोः ४, एवं मानलोभयोः ४, एवं मायालोभयोरिति ४ द्विकयोगे चतुर्विंशतिः । त्रिकयोगे द्वात्रिंशत, तथाहि क्रोधमानमायास्वेकत्वेनैकः, एष्वेव मायाबहुत्वेन द्वितीयः एवमेतौ मानैकत्वेन, द्वावेवान्यौ तद्बहुत्वेन, एवमेते चत्वारः क्रोधैकत्वेन, चत्वार एवान्ये क्रोधबहुत्वेनेत्येवमथै क्रोधमानमायात्रिके जाताः । तथैवान्येऽष्टौ क्रोधमानलोभेषु । तथैवान्येऽथै क्रोधमायालोभेषु, तथैवान्येऽष्टौ मानमायालोभेष्विति द्वात्रिंशत् । चतुष्कसंयोगे षोडश, तथाहि क्रोधादिष्वेकत्वेनैको लोभस्य बहुत्वेन द्वितीयः, एवमेतौ मायैकत्वेन, तथाऽन्यौ मायाबहुत्वेन, एवमेते चत्वारो मानैकत्वेन, तथाऽन्ये चत्वार एव मानबहुत्वेन, एवमेतेऽष्टौ क्रोधैकत्वेन । एवमन्येऽष्टौ क्रोधबहुत्वेनेति षोडश । एवमेते सर्व एवाशीतिरिति । एते च जघन्यस्थितौ एकादिसंख्यातान्तसमयाधिकायां भवन्ति, असंख्यातसमयाधिकायास्तु जघन्यस्थितेरारभ्योत्कृष्धस्थितिं यावत्सप्तविंशतिभङ्गास्त एव, तत्र नारकाणां बहुत्वादिति । अथावगाहनाद्वारं तत्र १. इदमपि च ग. च. २. चित्रं क. Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.003593
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages458
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy