SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ३७७ श.१: उ.४,५: सू.२००-२१३ "केवलमेगं सुखं सगलमसाहारणं अणंतं च।" 'संजमेणं ति पृथिव्यादिरक्षणरूपेण, 'संवरेण ति इन्द्रियकषायनिरोधेन, 'सिंझिंसु' इत्यादौ च बहुवचनं प्राकृतत्वादिति। एतच्च गौतमेनानेनाभिप्रायेण पृष्ट-यदुत उपशान्तमोहाद्यवस्थायां सर्वविशुद्धाः संयमादयोऽपि भवन्ति विशुद्धसंयमादिसाध्या च सिद्धिरिति सा छद्मस्थस्यापि स्यादिति। ११२०१. अंतकरे'ति भवान्तकारिणः, ते च दीर्घतरकालापेक्षयाऽपि भवन्तीत्यत आह-'अंतिमसरीरिया वत्ति अन्तिमं शरीरं येषामस्ति तेऽन्तिमशरीरिकाः चरमदेहा इत्यर्थः। वाशब्दो समुच्चये। 'सव्वदुक्खाणमंतं करेंसु'इत्यादौ 'सिझिंसु सिझंती'त्याद्यपि द्रष्टव्यं सिद्ध्याधविनाभूतत्वात् सर्वदुःखान्तकरणस्येति। 'उप्पन्ननाणदंसणधरे' उत्पन्ने ज्ञानदर्शने धारयन्ति ये ते तथा, न त्वनादिसंसिद्धज्ञानाः। अत एव 'अरह'त्ति पूजार्हाः 'जिण'त्ति रागादिजेतारः। ते च छद्मस्था अपि भवन्तीत्यत आह–'केवली'ति सर्वज्ञाः 'सिझंती'त्यादिषु चतुषु पदेषु वर्तमाननिर्देशस्य शेषोपलक्षणत्वात् 'सिझिंसु सिझंति सिज्झिस्संती'त्येवमतीतो निर्देशो द्रष्टव्यः, अत एव 'सव्वदुक्खाण मित्यादौ पञ्चमपदेऽसौ विहित इति। ११२०४. 'जहा छउमत्थो'इत्यादेरियं भावना 'आहोहिएणं भंते ! मणूसेऽतीतमणंतं सासय मित्यादि दण्डकत्रयं । तत्राधः परमावधेरधस्ताद् योऽवधिः सोऽधोऽवधिस्तेन यो व्यवहरत्यसौ आधोऽवधिकः-परिमितक्षेत्रविषयावधिकः। 'परमाहोहिओ'त्ति परम आधोऽवधिकाद् यः स परमाधोऽवधिकः प्राकृतत्वाच्च व्यत्ययनिर्देशः। 'परमोहिओ'त्ति चित्पाठो,व्यक्तश्च। स च समस्तरूपिद्रव्यासंख्यातलोकमात्रालोकखण्डासंख्या तावसर्पिणीविषयावधिज्ञानः । 'तिन्नि आलावग'त्ति कालत्रयभेदतः। १।२०५. 'केवलीण मित्यादि केवलिनोऽप्येते एव त्रयो दण्डकाः विशेषस्तु सूत्रोक्त एवेति । १।२०६. 'से गुण मित्यादिषु कालत्रयनिर्देशो' वाच्य एवेति।। १।२०६. 'अलमत्युत्ति वत्तव्वं सिय'त्ति अलमस्तु पर्याप्तं भवतु, नातः परं किञ्चिद् ज्ञानान्तरं प्राप्तव्यमस्यास्तीत्येतद् वक्तव्यं 'स्यात्' भवेत् सत्यत्वादस्येति। ॥प्रथमशते चतुर्थोद्देशकः ॥ पञ्चम उद्देशकः अनन्तरोद्देशकस्यान्तिम सूत्रेष्वर्हदादय उक्तास्ते च पृथिव्यां भवन्तीति अथवा पृथिवीतोऽप्युद्वृत्ता मनुजत्वमवाप्ताः सन्तस्ते भवन्तीति पृथिवीप्रतिपादनायाह तथा 'पुढवित्ति यदुद्देशकसंग्रहिण्यामुक्तं तत्प्रतिपादनाय चाह११२११. 'कइ ण'मित्यादि तत्र 'रयणप्पभ'त्ति नरकवर्ज प्रायः प्रथमकाण्डे इन्द्रनीलादिबहुविधरलसंभवात् रलानां प्रभा-दीप्तिर्यस्यां सा रलप्रभा। यावत्करणादिदं दृश्य-शर्कराप्रभा वालुकाप्रभा पंकप्रभा धूमप्रभा तमःप्रभेति, शब्दार्थश्च रत्नप्रभावदिति । 'तमतम'त्ति तमस्तमःप्रभेत्यर्थः, तत्र प्रकृष्टं तमस्तमस्तमस्तस्येव प्रभा यस्याः सा तमस्तमःप्रभा। एतासु च नरकावासा भवन्तीति तान् आवासाधिकाराच्च शेषजीवावासान् परिमाणतो दर्शयन्नाह११२१२. 'इमीसे ण'मित्यादि, 'अस्यां' विनेयप्रत्यक्षायां 'निरयावाससयसहस्स'त्ति आवसन्ति येषु ते आवासाः नरकाश्च ते आवासाश्चेति नरकावासा स्तेषां यानि शतसहस्राणि तानि तथेति। शेषपृथिवीसूत्राणि तु गाथाऽनुसारेणाध्येयानि, अत एवाह 'गाह'त्ति सा चेयं 'तीसा य पन्नवीसा' इत्यादि। सूत्राभिलापश्च-'सक्करप्पभाए णं भंते ! पुढवीए कई निरयावाससयसहस्सा पन्नत्ता ? गोयमा ! पणवीसं निरयावाससयसहस्सा पन्नत्ता' इत्यादिरिति। १।२१३. 'छण्हंपि जुयलयाणं'ति दक्षिणोत्तरदिग्भेदेनासुरादिनिकायो विभेदो भवतीति युगलान्युक्तानि, तत्र षट्सु युगलेषु प्रत्येक षट्सप्ततिभवनलक्षाणामिति । एषां चासुरादिनिकाययुगलानां दक्षिणोत्तरदिशोरयं विभागः "चउतीसा चञ्चत्ता अदृत्तीसं च सयसहस्साओ। पन्ना चत्तालीसा दाहिणओ हुँति भवणाई॥" 'चत्तालीसत्ति द्वीपकुमारादीनां षण्णां प्रत्येकं चत्वारिंशभवनलक्षाः, "तीसा चत्तालीसा चोत्तीसं चेव सयसहस्साइं। छायाला छत्तीसा उत्तरओ होति भवणाई॥" 'छत्तीस' ति द्वीपकुमारादीनां षण्णां प्रत्येकं षट्त्रिंशद्भवनलक्षाणीति । अथाधिकृतोद्देशकार्थसंग्रहाय गाथामाह १. कालत्रय निर्देशनन्य च. छ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003593
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages458
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy