________________
श.१: उ.४: सू.१८०-२००
३७६
भगवती वृत्ति वाचनान्तरे त्वेवम्-'बालवीरियत्ताए नो पंडियवीरियत्ताए नो बालपंडियवीरियत्ताए'त्ति तत्र च मिथ्यात्वमोहोदये बालवीर्यस्यैव भावादितरवीर्यद्वयनिषेध इति।
उदीर्णविपक्षत्वादुपशान्तस्येत्युपशान्तसूत्रद्वयं तथैव।। १।१९३. नवरम् 'उववाएजा पंडियदीरियत्ताए'त्ति उदीर्णालापकापेक्षयोपशान्तालापकयोरयं विशेषः-प्रथमालापके सर्वथा मोहनीयेनोपशान्तेन सतोपतिष्ठेत
क्रियासु पण्डितवीर्येण, उपशान्तमोहावस्थायां पण्डितवीर्यस्यैव भावादितरयोश्चाभावात् । वृद्धैस्तु काञ्चिद्वाचनामाश्रित्येदं व्याख्यातं-मोहनीयेनोपशान्तेन सता न मिथ्यादृष्टिर्जायते, साधुः श्रावको वा भवतीति। द्वितीयालापके तु 'अवक्कमेज बालपंडियवीरियत्ताए'त्ति मोहनीयेन हि उपशान्तेन संयतत्वाद् बालपण्डितवीर्येणापक्रामन् देशसंयतो भवति। देशतस्तस्य मोहोपशमसद्भावात् । न तु मिथ्यादृष्टिः, मोहोदय एव तस्य भावात्, मोहोपशमस्य हाधिकृतत्वादिति ।
अथापक्रामतीति यदुक्तं तत्र सामान्येन प्रश्नयन्नाह१।१६७. 'से भंते ! कि'मित्याह-'से'त्ति असौ जीवः अथार्थो वा सेशब्द: 'आयाए'त्ति आत्मना 'अणायाए'त्ति अनात्मना, परत इत्यर्थः 'अपक्रामति'
अपसर्पति । पूर्व पण्डितत्वरुचिर्भूत्वा पश्चान मिश्ररुचिर्मिथ्यारुचिर्वा भवतीति, कोऽसौ ? इत्याह-मोहनीयं कर्म मिथ्यात्वमोहनीयं चारित्रमोहनीयं
वा वेदयन् उदीर्णमोह इत्यर्थः। ११११८. 'से' कहमेयं भंते !'त्ति अथ 'कथं' केन प्रकारेण 'एतद्' अपक्रमणम् ‘एवं'ति मोहनीयं वेदयमानस्येति । इहोत्तरं-'गोयमे'त्यादि 'पूर्वम्'
अपक्रमणात् प्राग् 'असौ' अपक्रमणकारी जीवः 'एतद्' जीवादि अहिंसादि वा वस्तु एवं' यधा जिनैरुक्तं 'रोचते' श्रद्धत्ते करोति वा । 'इदानीं' मोहनीयोदयकाले सः जीवः एतद् जीवादि अहिंसादि वा एवं यथा जिनरुक्तं 'नो रोचते' न श्रद्धत्ते न करोति वा। ‘एवं खलु' उक्तप्रकारेण 'एतद्' अपक्रमणं एवं मोहनीयवेदनेत्यर्थः ।
मोहनीयकर्माधिकारात् सामान्यकर्म चिन्तयन्नाह१।१८६. 'से नूण'मित्यादि 'नेरइयस्स वे'त्यादौ नास्ति मोक्षः इत्येवं सम्बन्धात् षष्ठी। 'जे कडे'त्ति तैरेव यद् बद्धं 'पावे कम्मे'त्ति 'पाप' अशुभं नरकगत्यादि,
सर्वमेव वा 'पापं' दुष्टं मोक्षव्याघातहेतुत्वात् । 'तस्स'त्ति तस्मात्कर्मणः सकाशात् 'अवेइयत्त'त्ति तत्कर्माननुभूय। १।१६०. 'एवं खलु'त्ति वक्ष्यमाणप्रकारेण 'खलु' वाक्यालंकारे 'मए'त्ति मया, अनेन च वस्तुप्रतिपादने सर्वज्ञत्वेनात्मनः स्वातन्त्र्यं प्रतिपादयति । 'पएसकम्मे
य'त्ति प्रदेशा:-कर्मपुद्गला जीवप्रदेशेष्वोतप्रोतास्तद्रूपं कर्म प्रदेशकर्म । 'अणुभागकम्मे यत्ति अनुभाग:-तेषामेव कर्मप्रदेशानां संवेद्यमानताविषयो रसस्तद्पं कर्म अनुभागकर्म । तत्र यत् प्रदेशकर्म तन्नियमाद् वेदयति, विपाकस्याननुभवनेऽपि कर्मप्रदेशानामवश्यं क्षपणात्, प्रदेशेभ्यः प्रदेशान्नियमाच्छातयतीत्यर्थः । अनुभागकर्म च तथाभावं वेदयति वा न वा, यथा मिथ्यात्वं तत्क्षयोपशमकालेऽनुभागकर्मतया न वेदयति प्रदेशकर्मतया तु वेदयत्येवेति।। इह च द्विविधेऽपि कर्माणि वेदयितव्ये प्रकारद्वयमस्ति, तच्चाहतैव ज्ञायते इति दर्शयन्नाह-'ज्ञात' सामान्येनावगतम्, एतद् वक्ष्यमाणं वेदनाप्रकारद्वयं 'अर्हता' जिनेन 'सुयंति 'स्मृतं' प्रतिपादितम् अनुचिन्तितं वा। तत्र स्मृतमिव स्मृतं केवलित्वेन स्मरणाभावेऽपि जिनस्यात्यन्तमव्यभिचारसाधादिति। 'विण्णायंति विविधप्रकारैः देशकालादिविभागरूपैति विज्ञातम् । तदेवाह-'इम कम्मं अयं जीवे'त्ति अनेन द्वयोरपि प्रत्यक्षतामाह केवलित्वादर्हतः । 'अब्मोवगमियाए'त्ति प्राकृतत्वादभ्युपगमः प्रव्रज्याप्रतिपत्तितो ब्रह्मचर्यभूमिशयनकेशलुञ्चनादीनामंगीकारस्तेन निर्वृत्ता आभ्युपगमिकी तया 'वेयइस्सइत्ति भविष्यत्कालनिर्देशः । भविष्यत्पदार्थो विशिष्टज्ञानवतामेव ज्ञेयः अतीतो वर्तमानश्च पुनरनुभवद्वारेणान्यस्यापि ज्ञेय संभवतीति ज्ञापनार्थः। 'उवक्कमियाए'ति उपक्रम्यते अनेनेत्युपक्रमःकर्मवेदनोपायस्तत्र भवा औपक्रमिकी-स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य' कर्मणोऽनुभवस्तया औपक्रमिक्या वेदनया वेदयिष्यति । तथा च 'आहाकम्मति यथाकर्म-बद्धकर्मानतिक्रमेण 'अहानिगरणं'ति निकरणानां-नियतानां देशकालादीनां करणानांविपरिणामहेतूनामनतिक्रमेण यथा यथा तत्कर्म भगवता दृष्टं तथा तथा विपरिणस्यतीति, इति शब्दो वाक्यार्थसमाप्ताविति ।
अनन्तरं कर्म चिन्तितं । तच्च पुद्गलात्मकमिति परमाण्वादिपुद्गलांश्चिन्तयन्नाह-अथवा परिणामाधिकारात् पुद्गलपरिणाममाह१।१६१. 'एस णं भंते !'इत्यादि पोग्ग्ले'त्ति परमाणुरुत्तरत्र स्कन्धग्रहणात् । 'तीतंति अतीतम्, इह च सर्वेऽध्वभावकाला इत्यनेनाधारे द्वितीया । ततश्च
सर्वस्मिन्नतीत इत्यर्थः। 'अणतं'ति अपरिमाणं, अनादित्वात्। 'सासयंति सदा विद्यमानं, न हि लोकोऽतीतकालेन कदाचिच्छून्य इति । 'समय'
ति कालं । 'भुवि'त्ति अभूदिति । एतद्वक्तव्यं स्यात्? सद्भूतार्थत्वात् । १।१६२. 'पडुप्पन्नं'ति प्रत्युत्पन्नं वर्तमानमित्यर्थः । वर्तमानस्यापि शाश्वतत्वं सदाभावाद् । १।१६३.एवमनागतस्यापीति।
अनन्तरं स्कन्धः उक्तः । स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादिति जीवसूत्रं, जीवाधिकाराच्च प्रायो यथोत्तरप्रधानजीववस्तुवक्तव्यतामुद्देशकान्तं
यावदाह११२००.'छउमत्थे ण'मित्यादि । इह छद्मस्थोऽवधिज्ञानरहितोऽवसेयो, न पुनरकेवलिमात्रम्। उत्तरत्रावधिज्ञानिनो वक्ष्यमाणत्वादिति। केवलेणं ति
असहायेन शुद्धेन वा परिपूर्णेन वाऽसाधारणेन वा यदाह
३. चोदय क.घ.
१.तत्र च. घ. च. छ. २. देशे संयतो ग. छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org