________________
३७५
भगवती वृत्ति
श.१: उ.३,४ः सू.१७०-१८० शंका, इयं चायुक्ता । द्रव्यापेक्षयैव तस्य नित्यत्वात्, पर्यायापेक्षया चानित्यत्वात्। दृश्यते चापेक्षयैकत्रैकदा विरुद्धानामपि धर्माणां समावेशो । यथा जनकापेक्षया य एव पुत्रः स एव पुत्रापेक्षया पितेति । तथा १२. नियम:-अभिग्रहः । तत्र यदि नाम सर्वविरतिः सामायिकं तद् किमन्येन पौरुष्यादिनियमेन ? सामायिकेनैव सर्वगुणावाप्तेः उक्तश्चासौ इति शंका, इयं चायुक्ता। यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति, आह च
"सामाइए वि हु सावजचागरूवे उ गुणकरं एवं ।
अपमायवुहिजणगत्तणेष आणाओ विजेयं ॥" ति। तथा १३. प्रमाण-प्रत्यक्षादि । तत्रागमप्रमाणम्-आदित्यो भूमेरुपरि योजनशतैरष्टाभिः संचरति, चक्षुः प्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यमिति सन्देहः, अत्र समाधिः-न हि सम्यक् प्रत्यक्षमिदं, दूरतरदेशतो विभ्रमादिति ।
॥प्रथमशते तृतीयोद्देशकः ।।
चतुर्थ उद्देशकः
अनन्तरोद्देशके कर्मणः उदीरणवेदनाद्युक्तमिति तस्यैव भेदादीन् दर्शयितुं तथा द्वारगाथायां 'पगइ'त्ति यदुक्तं तच्चाभिधातुमाह१1१७४. 'कइ ण'मित्यादि, व्यक्तं, नवरं 'कम्मपगडीओ'त्ति प्रज्ञापनायां त्रयोविंशतितमस्य कर्मप्रकृत्यभिधानस्य पदस्य प्रथमोदेशको नेतव्यः । एतद्वाच्यानां
चार्थानां सङ्ग्रहगाथाऽस्तीत्यत आह गाहा, सा चेयम्-'कई'त्यादि । तत्र 'कइप्पगडी'ति द्वारं, तच्चैवम्-'कइ णं भंते ! कम्मष्पगडीओ पन्नत्ताओ? गोयमा ! अट्ठ, तंजहा–णाणावरणिज्ज'मित्यादि'कह बंधइत्यादि द्वारमिदं चैवम्-कहानं भंते ! जीवे अट्ठ कम्मपगडीओ बंधइ ? गोयमा ! णाणावरणिज्जरस कम्मस्स उदएणं दंसणावरणिजं कम्मं निग्गच्छइ' विशिष्टोदयावस्थं जीवस्तदासादयतीत्यर्थः । 'दरिसणावरणिज्जस्स कम्मस्स उदएणं दंसणमोहणिज्जं कम्मं निग्गच्छइ' विपाकावस्था करोतीत्यर्थः । 'दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं निगच्छइ, मिच्छत्तेणं उदिनेणं एवं खलु जीवे अट्ठ कम्मपगडीओ बंधइ' इत्यादि । न चैवमिहेतरेतराश्रयदोषः कर्मबन्धप्रवाहस्यानादित्वादिति । 'कइहिं व ठाणेहिं'त्ति द्वारं तच्चैवम्-'जीवे णं भंते ! णाणावरणिज्जं कम्मं कइहिं ठाणेहिं बंधइ ? गोयमा ! दोहिं ठाणेहि, तंजहा-रागेण य दोसेण य'इत्यादि। 'कइ वेएइ वत्ति द्वारमिदं चैवम्-'जीवे णं भंते ! कइ कम्मपगडीओ वेएइ ? गोयमा ! अस्थेगइए वेएइ, अत्थेगतिए नो वेएइ, जे वेएइ से अट्ठ' इत्यादि । 'जीवे णं भंते ! णाणावरणिज्जं कम्मं वेएइ ? गोयमा ! अत्थेगइए वेएइ, अत्थेगतिए नो वेएइ' केवलिनोऽवेदनात् । ‘णेरइए णं भंते ! णाणावरणिज्जं कम्मं वेएइ ? गोयमा ! नियमा वेएइ'इत्यादि । 'अणुभागो कइविहो कस्स'त्ति कस्य कर्मणः कतिविधो रसः ? इति द्वारम् । इदं चैवम्-'णाणावराणिजस्स णं भंते ! कम्मस्स कतिविहे अणुभागे पण्णते? गोयमा ! दसविहे पण्णत्ते, तंजहा-सोयावरणे सोयविनाणावरणे' इत्यादि । द्रव्येन्द्रियावरणो भावेन्द्रियावरणश्चेत्यर्थः ।
अथ कर्मचिन्ताधिकारान्मोहनीयमाश्रित्याह१।१७५. 'जीवे णं भंते' इत्यादि 'मोहणिजेणं'ति मिथ्यात्वमोहनीयेन 'उदिण्णेणं ति उदितेन ‘उवट्ठाएज' त्ति 'उपतिष्ठेत' उपस्थानं-परलोकक्रियास्वभ्युपगमं
कुर्यादित्यर्थः।
१।१७६. 'वीरियत्ताए'त्ति वीर्ययोगावीर्यः-प्राणी, तद्भावो वीर्यता। अथवा वीर्यमेव स्वार्थिकप्रत्ययाद् वीर्यता। वीर्याणां वा भावो वीर्यता तया ।
'अवीरियत्ताए'त्ति अविद्यमानवीर्यतया वीर्याभावेनेत्यर्थः । नो अवीरियत्ताए'त्ति वीर्यहतुकत्वादुपस्थानस्येति । १११७७. 'बालवीरियत्ताए'त्ति बालः सम्यगर्थानवबोधात् सद्बोधकार्यविरत्यभावाच्च मिथ्यादृष्टिस्तस्य या वीर्यता-परिणतिविशेषः सा तथा तया । 'पंडियवीरियत्ताए'त्ति पण्डितः सकलावद्यवर्जकस्तदन्यस्य परमार्थतो निर्ज्ञानत्वेनापंण्डितत्वाद् यदाह
"तज्ज्ञानमेव न भवति यस्मिनुदिते विभाति रागगणः।
तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्वातुम् ।।" इति सर्वविरत इत्यर्थः । 'बालपंडियवीरियत्ताए'त्ति बालो देशे विरत्यभावात्, पण्डितो देश एव विरतिसद्भावादिति बालपण्डितो-देशविरतः । इह च मिथ्यात्वे उदिते मिध्यादृष्टित्वाञ्जीवस्य बालवीर्येणैवोपस्थानस्यान्नेतराभ्याम् । एतदेवाह-'गोयमे !'त्यादि।
उपस्थानविपक्षोऽपक्रमणमतस्तदाश्रित्याह१११७८. 'जीवे ण'मित्यादि 'अवक्कमेज'त्ति 'अपक्रामेत' अपसत्, उत्तमगुणस्थानकाद् हीनतरं गच्छेदित्यर्थः। १११८०. 'बालवीरियत्ताए अवक्कमेञ्ज'त्ति मिथ्यात्वमोहोदये सम्यक्त्वात् संयमाद्देशसंयमाद् वा 'अपक्रामेत्' मिथ्यादृष्टिभवेदिति । 'यो पंडियवीरियत्ताए
अवक्कमेज'त्ति नहि पण्डितत्वात्प्रधानतरं गुणस्थानकमस्ति यतः पण्डितवीर्येणापसर्पत्। 'सिय बालपंडियवीरियत्ताए अवक्कमेज'त्ति स्यात कदाचिच्चारित्रमोहनीयोदयेन संयमादपगत्य बालपण्डितवीर्येण देशविरतो भवेदिति ।
१. किह ख. ग. घ. च. छ. २. बंधइ त्ति क. घ. च. छ.
३. च. क. ग. घ. च. छ. ४. ठाणेहिं बंधइ ग. च. छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org