________________
श.१: उ.३: सू.१७०
३७४
भगवती वृत्ति इत्येवंलक्षणं क्षायोपशमिकम् । औपशमिकमप्येवं लक्षणमेव, यदाह
"खीणम्मि उदिनम्मी अणुदिजते व सेसमिछत्ते।
अंतोमहत्तमेतं उसमसम्म लहइ जीवो ॥" ततोऽनयोर्न विशेषः उक्तश्चासाविति, समाधिश्च–क्षयोपशमो हि उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः प्रदेशानुभवस्तूदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च
"वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो।
उबसंतकसाओ पुण वेदेइ ण संतकम ति॥" तथा ३. चारित्रं-चरणं तत्र च यदि सामायिकं सर्वसावधविरतिलक्षणं छेदोपस्थापनीयमपि तल्लक्षणमेव, महाव्रतानामवद्यविरतिरूपत्वात, तत्कोऽनयोर्भेदः ? उक्तश्चासाविति, अत्र समाधिः-ऋजुजडवक्रजडानां प्रथमचरमजिनसाधूनामाधासनाय छेदोपस्थापनीयमुक्तम् । व्रतारोपणे हि मनाक् सामायिकाशुद्धावपि व्रताखण्डनाच्चारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धिः स्यात्, सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रं, चारित्रस्य सामायिकमात्रत्वादित्येवमनाधासस्तेषां स्यादिति, आह च
"रिउवकजडा पुरिमेयराण सामाइए क्यारुहणं।
मणयमसुद्धेवि जओ सामाइए हुति हु वयाई॥" इति । तथा ४. लिंग–साधुवेषः । तत्र च यदि मध्यमजिनैर्यथालब्धवस्त्ररूपं लिंग साधूनामुपदिष्टं, तदा किमिति प्रथमचरमजिनाभ्यां सप्रमाणधवलवसनरूपं तदेवोक्तं ? सर्वज्ञानामविरोधिवचनत्वादिति । अत्रापि ऋजुजडवक्रजडऋजुप्रज्ञशिष्यानाश्रित्य भगवतां तस्योपदेशः, तथैव तेषामुपकारसम्भवादिति समाधिः। तथा ५. प्रवचनमागमः। तत्र च यदि मध्यमजिनप्रवचनानि चतुर्यामधर्मप्रतिपादकानि, कथं प्रथमेतरजिनप्रवचने पञ्चयामधर्मप्रतिपादके ? सर्वज्ञानामविरुद्धवचनत्वात् । अत्रापि समाधिः-चतुर्यामोऽपि तत्त्वतः पञ्चयाम एवासौ, चतुर्थव्रतस्य परिग्रहेऽन्तर्भूतत्वात् । योषा हि नामपरिगृहीता भुज्यते इति न्यायादिति । तथा ६. प्रवचनमधीते वेत्ति वा प्रावचन:-कालापेक्षया बह्वागमः पुरुषः । तत्रैकः प्रावचनिक एवं कुरुते अन्यस्त्वेवमिति किमत्र तत्त्वमिति ? समाधिश्चेह-चारित्रमोहनीयक्षयोपशमविशेषेण उत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति नासौ सर्वथाऽपि प्रमाणम्, आगमाविरुद्धप्रवृत्तेरेव प्रमाणत्वादिति । तथा ७. कल्पो-जिनकल्पिकादिसमाचारः । तत्र यदि नाम जिनकल्पिकानां नाग्न्यादिरूपो महाकष्टः कल्पः कर्मक्षयाय, तदा स्थविरकल्पिकानां वस्त्रपात्रादिपरिभोगरूपो यथाशक्तिकरणात्मकोऽकष्टस्वभावः कथं कर्मक्षयायेति ? इह च समाधि:-द्वावपि कर्मक्षयहेत, अवस्थाभेदेन जिनोक्तत्वात् । कष्टाकष्टयोश्च विशिष्टकर्मक्षयं प्रत्यकारणत्वादिति । तथा ८. मार्गः-पूर्वपुरुषक्रमागता सामाचारी। तत्र केषाञ्चिद्विश्चैत्यवन्दनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी तदन्येषां तु न तथेति किमत्र तत्त्वमिति ? समाधिश्च-गीतार्थाशठप्रवर्तिताऽसौ सर्वाऽपि न विरुद्धा, आचरितलक्षणोपेतत्वात् । आचरितलक्षणं चेदम्
"असढेण समाइनं जं कत्यइ केणई असावजं ।
न निवारियमबेहिं बहुमणुमयमेयमायरियं ॥" ति। तथा ६. मतं-समान एवागमे आचार्याणामभिप्रायः । तत्र च सिद्धसेनदिवाकरो मन्यते-केवलिनो युगपद् ज्ञानं दर्शनं च, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात् । जिनभद्रगणिक्षमाश्रमणस्तु भिन्नसमये ज्ञानदर्शने, जीवस्वरूपत्वात् । तथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगी, न चैकतरोपयोगे इतरक्षयोपशमाभावः । तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वादतः किं तत्त्वमिति ? इह च समाधिः
यदेव मतमागमानुपाति तदेव सत्यमिति मन्तव्यमितरत्पुनरुपेक्षणीयम्। अथ चाबहुश्रुतेन नैतदवसातुं शक्यते तदैवं भावनीयम्-आचार्याणां सम्प्रदायादिदोषादयं मतभेदः । जिनानां तु मतमेकमेवाविरुद्धं च, रागादिविरहितत्वात् । आह च
"अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा ।
जियरागदोसमोहा य णण्णहावाइणो तेण॥" ति। तथा १०. भंगाः-व्यादिसंयोगभंगकाः। तत्र च द्रव्यतो नाम एका हिंसा न भावत इत्यादि चतुर्भग्युक्ता च तत्र प्रथमोऽपि भंगो युज्यते, यतः किल द्रव्यतो हिंसा-ईसिमित्या गच्छतः पिपीलिकादिव्यापादनं, न चेयं हिंसा, तल्लक्षणायोगात्, तथाहि
"जो उ पमत्तो पुरिसो तस्स उ जोगं पडुन रे सत्ता।
वावजंती नियमा तेसि सो हिंसओ होइ॥" ति। उक्ता चेयमतः शंका, न चेयं युक्ता । एतद्गाथोक्तहिंसालक्षणस्य द्रव्यभावहिंसाश्रयत्वात्, द्रव्यहिंसायास्तु मरणमात्रतया रुढत्वादिति । तथा ११. नया-द्रव्यास्तिकादयः । तत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु, पर्यायास्तिकनयमतेन कथं तदेवानित्यं ? विरुद्धत्वात्, इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org