________________
भगवती वृत्ति
१।१५१. ‘से णूण’मित्यादि, उपशमनं मोहनीयस्यैव, यदाह—
३७३
"मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं ।
उदयक्खयपरिणामा अदुहवि होति कम्माणं ।।"
उपशमश्चोदीर्णस्य क्षयः अनुदीर्णस्य च विपाकतः प्रदेशतश्चाननुभवनं सर्वथैव विष्कम्भितोदयत्वमित्यर्थः । अयं चानादिमिथ्यादृष्टेरौपशमिकसम्यक्त्वलाभे उपशमश्रेणिगतस्य चेति ।
१ । १५२. ‘अणुदिन्नं उवसामेति त्ति उदीर्णस्य त्ववश्यं वेदनादुपशमनाभाव इति । उदीर्णं सवेद्यते इति वेदनसूत्रं, तत्र
१ । १५६. ‘उदिन्नं वेएइ'त्ति अनुदीर्णस्य वेदनाभावात्, अथानुदीर्णमपि वेदयति तर्हि उदीर्णानुदीर्णयोः को विशेषः स्यात् ? इति ।
वेदितं सन्निर्जीर्यत इति निर्जरासूत्रं, तत्र
१ । १ ६०. ‘उदयाणंतरपच्छाकड' ति उदयेनानन्तरसमये यत्पश्चात्कृतम् - अतीततां गमितं तत्तथा तत् 'निर्जरयति' प्रदेशेभ्यः शातयति, नान्यद्, अननुभूतरसत्वादिति । उदीरणोपशमवेदननिर्जरणसूत्रोक्तार्थसंग्रहगाथा
श.१: उ.३ः सू.१५१-१७०
"तइएण उदीरेति उवसामेति य पुणोवि बीएणं ।
वेति निजरंति य पढमचउत्येहिं सब्वेऽवि || "
अथ कांक्षामोहनीयवेदनादिकं निर्जरान्तं सूत्रप्रपञ्चं नारकादिचतुर्विंशतिदण्डकैर्नियोजयन्नाह"
१ । १६३. 'नेरइयाण'मित्यादि इह च 'जहा ओहिया जीवा' इत्यादिना 'हंता वेयंती, कहन्नं भंते! नेरइयाणं कंखामोहणिज्जं कम्मं वेयंति ? गोयमा ! तेहिं तेहिं कारणेहिं' इत्यादिसूत्रं निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं, तेषु च यत्र यत्र जीवपदं प्रागधीतं तत्र तत्र नारकादिपदमध्येयमिति ।
पञ्चेन्द्रियाणामेव शङ्कितत्वादयः कांक्षामोहनीयवेदनप्रकारा घटन्ते नैकेन्द्रियादीनाम्, अतस्तेषां विशेषेण तवेदनप्रकारदर्शनायाह'
१ । १६४. 'पुढविक्काइयाण'मित्यादि, व्यक्तं, नवरम्
१ । १६५. 'एवं तक्का इ व 'त्ति एवं वक्ष्यमाणोल्लेखेन तर्कों-विमर्शः स्त्रीलिंगनिर्देशश्च प्राकृतत्वात् । 'सन्ना इ व 'त्ति संज्ञा - अर्थावग्रहरूपं ज्ञानं । 'पण्णा इ' व त्ति प्रज्ञा – अशेषविशेषविषयं ज्ञानमेवम् । 'मणे इवत्ति मनः स्मृत्यादिविशेषमतिभेदरूपं 'वइ इ वत्ति वागू - वचनं 'सेसं तं चैव 'त्ति शेषं तदेव यद् औधिकप्रकरणेऽधीतं तच्चेदम्- 'हंता गोयमा ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं । से णूणं भंते ! एवं मणं धारेमाणे ' इत्यादि तावद् वाच्यं यावद् 'सेणूणं भंते ! अप्पणा चेव निज्जरेइ अप्पणा चैव गरहइ' इत्यादेः सूत्रस्य 'पुरिसक्कारपरक्कमेइ वत्ति पदम् ।
१ । १६७. एवं जाव चउरिंदिय त्ति पृथिवीकायप्रकरणवदप्कायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि । तिर्यक्पञ्चेन्द्रि वैमानिकप्रकरणान्तानि औधिकजीवप्रकरणवत्तदभिलापेनाध्येयानीति, अत एवाह
१. निर्जीर्यति क. ख.
२. दण्डके क. ख. च. छ.
१।१६८. 'पंचेंदिए' त्यादि ।
भवतु नाम शेषजीवानां कांक्षामोहनीयवेदनं निर्ग्रन्थानां पुनस्तन्न संभवति, जिनागमावदातबुद्धित्वात्तेषामिति प्रश्नयन्नाह—
१ । १६६. ‘अत्थि ण’मित्यादि काक्वाऽध्येयम् 'अस्ति' विद्यतेऽयं पक्षः - यदुत 'श्रमणाः ' व्रतिनः, अपिशब्दः श्रमणानां कांक्षामोहनीयस्यावेदनसंभावनार्थः । ते च शाक्यादयोऽपि भवन्तीत्याह- 'निर्ग्रन्थाः ' सबाह्याभ्यन्तरग्रन्थान्निर्गताः साधव इत्यर्थः ।
Jain Education International
१ । १७०. 'णाणंतरेहिं 'ति एकस्माज्ज्ञानादन्यानि ज्ञानानि ज्ञानान्तराणि तैर्ज्ञानविशेषैर्ज्ञानविशेषेषु वा शंकिता इत्यादिभिः सम्बन्धः, एवं सर्वत्र । तेषु चैवं शंकादयः स्युः– यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन संख्यातीतरूपाण्यवधिज्ञानानि संति तत् किमपरेण मनःपर्यायज्ञानेन ? तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वात्, उच्यते चागमे मनः पर्यायज्ञानमिति किमत्र तत्त्वमिति ज्ञानतः शंका । इह समाधिः -- यद्यपि मनोविषयमप्यवधिज्ञानमस्ति तथाऽपि न मनःपर्यायज्ञानमवधावन्तर्भवति । भिन्नस्वभावत्वात्, तथाहि - मनः पर्यायज्ञानं मनोमात्रद्रव्यग्राहकमेवादर्शनपूर्वकं च । अवधिज्ञानं तु किञ्चिन्मनोव्यतिरक्तद्रव्यग्राहकं किंचिच्चोभयग्राहकं दर्शनपूर्वकं च न तु केवलमनोद्रव्यग्राहकं इत्यादि बहुवक्तव्यमतोऽवधिज्ञानातिरिक्तं भवति मनःपर्यायज्ञानमिति ।
तथा २. दर्शनं—सामान्यबोधः तत्र यदि नामेन्द्रियानिन्द्रियनिमित्तः सामान्यार्थविषयो बोधो दर्शनं तदा किमेकश्चक्षुर्दर्शनमन्यस्त्वचक्षुर्दर्शनम् ? अथेन्द्रियानिन्द्रियभेदात् भेदस्तदाचक्षुष इव श्रोत्रादीनामपि दर्शनभावात् । षडिन्द्रियनोइन्द्रियजानि दर्शनानि स्युर्न द्वे एवेति । अत्र समाधिः -सामान्यविशेषात्मकत्वादु वस्तुनः क्वचिद्विशेषतस्तन्निर्देशः क्वचिच्च सामान्यतः । तत्र चक्षुर्दर्शनमिति विशेषतः अचक्षुर्दर्शनमिति च सामान्यतः। यच्च प्रकारान्तरेणापि निर्देशस्य संभवे चक्षुर्दर्शनमचक्षुर्दर्शनं चेत्युक्तं तदिन्द्रियाणामप्राप्तकारित्वप्राप्तकारित्वविभागात् । मनसस्त्वप्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात्तद्दर्शनस्याचक्षुर्दर्शनशब्देन ग्रहणमिति ।
अथवा दर्शनं – सम्यक्त्वम्, तत्र च शंका
"मिच्छत्तं जमुनिं तं खीणं अणुदीयं च उवसंतं । "
३. दर्शयन्नाह ग.
For Private & Personal Use Only
www.jainelibrary.org