________________
भगवती वृत्ति
श. १: उ.३: सू.१४३-१५०
१ । १४३. ‘वीरियप्पवहे’त्ति वीर्यं नाम वीर्यान्तरायकर्मक्षयक्षयोपशमसमुत्थो जीवपरिणामविशेषः ।
१ । १४४. 'सरीरप्पवहे 'त्ति वीर्यं द्विधा - सकरणमकरणं च तत्रालेश्यस्य केवलिनः कृत्स्नयोर्ज्ञेयदृश्ययोः केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसा - वपरिस्पन्दोऽप्रतिघो जीवपरिणामविशेषस्तदकरणं, तदिह नाधिक्रियते । यस्तु मनोवाक्कायकरणसाधनः सलेश्यजीवकर्तृको जीवप्रदेशपरिस्पन्दात्मको व्यापारोऽसौ सकरणं वीर्यं तच्च शरीरप्रवहम्। शरीरं विना तदभावादिति ।
१।१४५. 'जीवप्पवहे'त्ति इह यद्यपि शरीरस्य कर्मापि कारणं न केवलं एव जीवस्तथाऽपि कर्मणो जीवकृतत्वेन जीवप्राधान्यात् जीवप्रवहं शरीरमित्युक्तम् । अथ प्रसंगतो गोशालकमतं निषेधयन्नाह
१ । १४६. ‘एवं सइ'त्ति, 'एवम्' उक्तन्यायेन जीवस्य कांक्षामोहनीयकर्मबंधकत्वे सति 'अस्ति' विद्यते न तु नास्ति । यथा गोशालकमते नास्ति जीवानामुत्थानादि, पुरुषार्थासाधकत्वात्, नियतित एव पुरुषार्थसिद्धेः, यदाह
" प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः,
सोऽवश्यं भवति नृणां शुभोऽशुभो वा ।
भूतानां महति कृतेऽपि हि प्रयत्ने,
नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥” इति ।
३७२
एवं हि अप्रामाणिकाया नियतेरभ्युपगमः कृतो भवति, अध्यक्षसिद्धपुरुषकारापलापश्च स्यादिति ।
'उट्ठाणे इ वत्ति उत्थानमिति वेति वाच्ये प्राकृतत्वात्सन्धिलोपाभ्यामेवं निर्देशः । तत्र 'उत्थानं' ऊर्ध्वभवनम् 'इतिः 'उपप्रदर्शने, वाशब्दो विकल्पे समुच्चये वा । 'कम्मे इ वत्ति कर्म - उत्क्षेपणापक्षेपणादि। 'बले इ व 'त्ति बलं - शारीरः प्राणः । ' वीरिए इ वत्ति वीर्यं - जीवोत्साहः । 'पुरिसक्कारपरक्कमे इ वत्ति पुरुषकारश्च पौरुषाभिमानः, पराक्रमश्च स एव साधिताभिमतप्रयोजनः पुरुषकारपराक्रमः । अथवा पुरुषकार : - पुरुषक्रिया सा च प्रायः स्त्रीक्रियातः प्रकर्षवती भवतीति तत्स्वभावत्वादिति विशेषेण तद्ग्रहणं, पराक्रमस्तु शत्रुनिराकरणमिति । कांक्षामोहनीयस्य वेदनं बन्धश्च सहेतुक उक्तः । अथ तस्यैवोदीरणामन्यच्च तद्गतमेव दर्शयन्नाह—
१ । १४७. 'से नूण'मित्यादि 'अप्पणा चेव'त्ति 'आत्मनैव' स्वयमेव जीवः, अनेन कर्मणो बन्धादिषु मुख्यवृत्त्या आत्मनः एवाधिकारः उक्तो, नापरस्य, आह
च
" अणुमेत्तोवि न कस्सइ, बंघो परवत्युपच्चया भणिओ ।" त्ति ।
'उदीरेइ' त्ति उदीरयति - करणविशेषेणाकृष्य भविष्यत्कालवेद्यं कर्म क्षपणायोदयावलिकायां प्रवेशयति । तथा 'गरहइ' त्ति आत्मनैव गर्हते निन्दति अतीतकालकृतं कर्म स्वरूपतः, तत्कारणगर्हणद्वारेण वा जातिविशेषबोधः सन् । तथा 'संवरइ' त्ति संवृणोति न करोति वर्त्तमानकालिकं कर्मस्वरूपतः तहेतुसंवरणद्वारेण वेति । गर्हादौ च यद्यपि गुर्वादीनामपिसहकारित्वमस्ति तथाऽपि न तेषां प्राधान्यं जीववीर्यस्यैव तत्र कारणत्वात् । गुर्वादीनां च वीर्योल्लासनमात्र एव हेतुत्वादिति ।
अथोदीरणमेवाश्रित्याह'
१ । १४८. 'जं तं भंते ! 'इत्यादि व्यक्तं, नवरं अधोदीरयतीत्यादि पदत्रयोद्देशेऽपि' कस्मात् 'तं किं उदिनं उदीरेइ' इत्यादिना आद्यपदस्यैव निर्देशः कृतः ? उच्यते-उदीर्णादिके कर्मविशेषणचतुष्टये उदीरणामेवाश्रित्य विशेषणस्य सद्भावाद् इतरयोस्तु तदभावाद्। एवं तर्हि उद्देशसूत्रे गर्हते संवृणोतीत्येतत् पद्वयं कस्मादुपात्तम् ? उत्तरत्रानिर्देक्ष्यमाणत्वात्तस्येति, उच्यते - कर्मण उदीरणायां गर्हासंवरणे प्रायः उपायौ इत्यभिधानार्थम्, एवमुत्तरत्रापि वाच्यमिति ।
प्रश्नार्थश्चेहोत्तरव्याख्यानाद्बोद्धव्यः, तत्र 'नो उदिन्नं उदीरेइ' त्ति उदीर्णत्वादेव उदीर्णस्याप्युदीरणे उदीरणाऽविरामप्रसंगात् । 'नो अणुदिनं उदीरेइ 'त्ति इहानुदीर्ण- चिरेण भविष्यदुदीरणम् अभविष्यदुदीरणं च तन्नोदीरयति तद्विषयोदीरणायाः सम्प्रत्यनागतकाले चाभावात् । 'अणुदिनं उदीरणाभवियं कम् उदीरे 'त्ति अनुदीर्णं स्वरूपेण किन्त्वनन्तरसमय एव यदुदीरणाभविकं तदुदीरयति, विशिष्टयोग्यताप्राप्तत्वात् ।
तत्र भविष्यतीति भवा सैव भविका उदीरणा भविका यस्येति प्राकृतत्वाद् उदीरणाभविकम्, अन्यथा भविकोदीरणमिति स्यात्, उदीरणाया' वा भव्यम् - योग्यमुदीरणाभव्यमिति । 'नो उदयाणंतरपच्छाकड' न्ति उदयेनान्तरसमये पश्चात्कृतम् अतीततां नीतं यत्तत्तथा तदपि नोदीरयति', तस्यातीतत्वात् अतीतस्य चासत्त्वाद् असतश्चानुदीरणीयत्वादिति ।
इह च यद्यप्युदीरणादिषु कालस्वभावादीनां कारणत्वमस्ति तथाऽपि प्राधान्येन पुरुषवीर्यस्यैव कारणत्वमुपदर्शयन्नाह
१ । १४६. 'जं त 'मित्यादि व्यक्तं, नवरं उत्थानादिनोदीरयतीत्युक्तं, तत्र च यदापन्नं तदाह
१ । १५०. ‘एवं सइ'त्ति 'एवम्' उत्थानादिसाध्ये उदीरणे सतीत्यर्थः, शेषं तथैव ।
कांक्षामोहनीयस्योदीरणोक्ता, अथ तस्यैवोपशमनमाह
१. उदीरणा क. च. छ.
२. उद्देशके ख. ग. घ. छ.
Jain Education International
३. उदीरणायां क.
४. नो उदीरयति क. ख. छ.
For Private & Personal Use Only
www.jainelibrary.org