________________
भगवती वृत्ति
३७१
श.१: उ.३: सू.१३३-१४२ 'नस्थित्तं नत्थित्ते परिणमइ'त्ति नास्तित्वम्-अंगुल्यादेरंगुष्ठादिभावेनासत्त्वं तच्चांगुष्ठादिभाव एव। ततश्चांगुल्यादेास्तित्वमंगुष्ठाद्यस्तित्वरूपमंगुल्यादेन स्तित्वे अंगुष्ठादेः पर्यायान्तरेणास्तित्वरूपे परिणमति, यथा मृदो नास्तित्वं तन्त्वादिरूपं मृनास्तित्वरूपे पटे इति । अथवाऽस्तित्वमिति-धर्मधर्मिणोरभेदात् सद्वस्तु अस्तित्वे-सत्त्वे परिणमति, तत्सदैव भवति, नात्यन्तं विनाशि स्याद्, विनाशस्य पर्यायान्तरगमनमात्ररूपत्वात्, दीपादिविनाशस्यापि तमिस्रादिरूपतया परिणामात् । तथा 'नास्तित्वम्' अत्यन्ताभावरूपं यत् खरविषाणादि तत् 'नास्तित्वे' अत्यन्ताभाव एव वर्तेते, नात्यन्तमसतः सत्त्वमस्ति खरविषाणस्येवेति, उक्तं च
"नासतो जायते मावो, नाभावो जायते सतः।" अथवाऽस्तित्वमिति धर्मभेदात् सद् 'अस्तित्वे' सत्त्वे वर्तते यथा पटः पटत्व एव नास्तित्वं चासत् 'नास्तित्वे' असत्त्वे वर्तते यथा अपटोऽपटत्व एवेति।
अथ परिणामहेतुदर्शनायाह११३४. 'जं ण'मित्यादि 'अस्थित्तं अस्थित्ते परिणमइत्ति पर्यायः पर्यायान्तरतां यातीत्यर्थः । 'नस्थित्तं नत्थित्ते परिणमइत्ति वस्त्वन्तरस्य पर्याय
स्तत्पर्यायान्तरतां यातीत्यर्थः। 'पओगस' त्ति सकारस्यागमिकत्वात् 'प्रयोगेण' जीवव्यापारेण 'वीसस'त्ति यद्यपि लोके विश्रसाशब्दो जरापर्यायतया रूढस्तथाऽपीह स्वभावार्थो दृश्यः, इह प्राकृतत्वात् 'वीससाए'त्ति वाच्ये 'वीससा' इत्युक्तमिति, अत्रोत्तरम्-'पओगसावि तंति प्रयोगेणापि तद्-अस्तित्वादि, यथा कुलालव्यापारमृपिंडो घटतया परिणमति । अंगुलिऋजुता वा वक्रतयेति । 'अपिः' समुच्चये, 'वीससावि तंति, यथा शुभ्राभ्रमशुभ्राभ्रतया । नास्तित्वस्यापि नास्तित्वपरिणामे प्रयोगविश्रसयोरेतान्येवोदाहरणानि । वस्त्वन्तरापेक्षया मृत्पिण्डादेरस्तित्वस्य नास्तित्वात् । सत्सदेव स्यादिति व्याख्यानान्तरेऽप्येतान्येवोदाहरणानि पूर्वोत्तरावस्थयोः सद्पत्वादिति । यदपि अभावोऽभाव एव स्यात्' इति व्याख्यातं, तत्रापि प्रयोगेणापि तथा विस्रसयाऽपि अभावोऽभाव एवं स्यात् न प्रयोगादेः साफल्यमिति व्याख्येयमिति ।
अथोक्तहेत्वोरुभयत्र समतां भगवदभिमततां च दर्शयन्नाह११३५. 'जहा ते इत्यादि 'यथा' प्रयोगविस्रसाभ्यामित्यर्थः 'ते' इति तव मतेन अथवा सामान्येनास्तित्वनास्तित्वपरिणामः प्रयोगविश्रसाजन्य उक्तः ।
सामान्यश्च विधिः क्वचिदतिशयवति वस्तुन्यन्यथाऽपि स्याद् अतिशयवांश्च भगवानिति तमाश्रित्य परिणामान्यथात्वमाशंकमान आह–'जहा ते'इत्यादि, 'ते'इति तव सम्बन्धि अस्तित्वं, शेषं तथैवेति ।
अथोक्तस्वरूपस्यैवार्थस्य सत्यत्वेन प्रज्ञापनीयतां दर्शयितुमाह१।१३६,१३७. से णूण मित्यादि अस्तित्वमस्तित्वे गमनीयं सद्वस्तु सत्त्वेनैव प्रज्ञापनीयमित्यर्थः । 'दो आलावग'त्ति ‘से णूणं भंते ! अस्थित्तं अस्थित्ते
गमणिज्ज'मित्यादि 'पओगसावि तं वीससावि तं' इत्येतदन्त एकः, परिणामभेदाभिधानात् । १११३८. 'जहा ते भंते ! अस्थित्तं अस्थित्ते गमणिज'मित्यादि 'तहा मे अस्थित्तं अस्थित्ते गमणिज्ज'मित्येतदन्तस्तु द्वितीयोऽस्तित्वपरिणामयोः समता
ऽभिधायीति।
एवं वस्तुप्रज्ञापनाविषयां समभावतां भगवतोऽभिधायाथ शिष्यविषयां तां दर्शयत्राह११३६. 'जहा ते'इत्यादि 'यथा' स्वकीयपरकीयताऽनपेक्षतया समत्वेन विहितमितिप्रवृत्या उपकारबुध्या वा 'ते' तव भदन्त ! 'एत्य'ति एतस्मिन
मयि संनिहिते स्वशिष्ये गमनीयं-वस्तु प्रज्ञापनीयं तथा' तेनैव समतालक्षणप्रकारेण उपकारधिया वा । 'इहंति 'इह' अस्मिन् गृहिपाषण्डिकादौ जने गमनीयम् ? वस्तु प्रकाशनीयमिति प्रश्नः । अथवा 'एत्थं ति स्वात्मनि यथा गमनीयं सुखप्रियत्वादि तथा 'इह' परात्मनि, अथवा यथा प्रत्यक्षाधिकरणार्थतया 'एत्थ' मित्येतच्छब्दरूपं गमनीयं तथा 'इह'मित्येतच्छब्दरूपमिति ? समानार्थत्वाद् द्वयोरपीति ।
कांक्षामोहनीयकर्मवेदनं सप्रसंगमुक्तम्, अथ तस्यैव बन्धमभिधातुमाह१११४०.
'जीवाणं भंते ! कंखे'त्यादि। १११४१. 'पमायपच्चय'त्ति 'प्रमादप्रत्ययात्' प्रमत्ततालक्षणाद्धेतोः प्रमादश्च मद्यादिः। अथवा प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणं बन्धहेतुत्रयं गृहीतम्। इष्यते च प्रमादेऽन्तर्भावोऽस्य यदाह
"पमाओ य मुणिंदेहि मणिओ अट्ठभेयओ। अण्णाणं संसओ चेव, मिच्छानाणं तहेव च ॥ रागो दोसो मइब्मंसो, धम्ममि अणायरो।
जोगाणं दुप्पणीहाणं, अट्टहा वज्जियब्बओ ॥" ति।। यथा 'योगनिमित्तं' च योगा:-मनःप्रभृतिव्यापाराः ते निमित्तं हेतुर्यत्र तत्तथा बध्धन्तीति, क्रियाविशेषणं चेदम्, एतेन च योगाख्यश्चतुर्थः कर्मबन्धहेतुरुक्तः, चशब्दः समुच्चये।
अथ प्रमादादेरेव हेतुफलभावं दर्शनायाह'१११४२. 'से ण'मित्यादि 'पमाए किंपवहे'त्ति प्रमादोऽसौ कस्मात् प्रवहति-प्रवर्त्तत इति किं प्रवहः ? पाठान्तरेण किंप्रभवः ? 'जोगप्पवहे 'त्ति
योगो–मनःप्रभृतिव्यापारः तावहत्वं च प्रमादस्य मद्याद्यासेवनस्य मिथ्यात्वादित्रयस्य च मनःप्रभृतिव्यापारसद्भावे भावात्।
१. दर्शयन्नाह-ख. ग. घ. च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,