________________
श.१ : उ.३ः सू.१२६-१३३
३७०
भगवती वृत्ति १११२६.एवं 'करेंति' सम्प्रति कुर्वन्ति । १।१२७. एवं 'करिस्संति' अनेन च भविष्यत्कालता करणस्य दर्शितेति ।
कृतस्य च कर्मणश्चयादयो भवन्तीति तान् दर्शयन्नाह१११२८. एवं चिए'इत्यादि व्यक्तं, नवरं चयः-प्रदेशानुभागादेर्वर्द्धनम्, उपचयस्तदेव पौनःपुन्येन । अन्ये त्वाहु:-चयनं-कर्मपुद्गलोपादानमात्रम्, उपचयनं
तु चितस्याबाधाकालं मुक्त्वा वेदनार्थं निषेकः, स चैवम्-प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनम् एव यावदुत्कृष्टायां विशेषहीनम् निषिंचति, उक्तं च
"मोत्तूण सगमबाहं पढमाइ ठिईई बहुतरं दव्वं ।
सेसं विसेसहीणं जावुकोसंति सम्वासि ॥" ति। उदीरणम्-अनुदितस्य करणविशेषादुदयप्रवेशनम् । वेदनम्-अनुभवनम्। निर्जरणं-जीवप्रदेशेभ्यः कर्मप्रदेशानां शातनमिति । इह च सूत्रसंग्रहगाथा भवति, सा च गाहा 'कड-चिए'त्यादि, भावितार्था च। नवरं 'आइतिए'त्ति कृतचितोपचितलक्षणे। 'चउभेय'त्ति सामान्यक्रियाकालत्रयक्रियाभेदात् । 'तियभेय' त्ति सामान्यक्रिया विरहात् । 'पच्छिम'त्ति उदीरितवेदितनिर्जीर्णा मोहपुद्गला इति शेषः । 'तिनि'त्ति त्रयस्त्रिविधा इत्यर्थः। नन्वाधे सूत्रत्रये कृतचितोपचितान्युक्तानि उत्तरेषु कस्मान्नोदीरितवेदितनिर्जीर्णानि ? इति, उच्यते-कृतं चितमुपचितं च कर्म चिरमप्यवतिष्ठत इति करणादीनां त्रिकालक्रियामात्रातिरिक्तं चिरावस्थानलक्षणकृतत्वाद्याश्रित्य कृतादीन्युक्तानि । उदीरणानां तु न चिरावस्थानमस्तीति त्रिकालवर्तिना क्रियामात्रेणैव तान्यभिहितानीति ।
जीवाः कांक्षामोहनीयं कर्म वेदयन्तीत्युक्तम्, अथ तद् वेदनकारणप्रतिपादनाय प्रस्तावयन्नाह१।१२६. 'जीवा णं भंते !'इत्यादि, व्यक्तं, नवरं ननु जीवाः कांक्षामोहनीयं वेदयन्तीति प्राग् निर्णीतं किं पुनः प्रश्नः ? उच्यते-वेदनोपायप्रतिपादनार्धम्, उक्तं च
"पुवमणियंपि पच्छा जं भण्णइ तत्व कारणं अत्यि।
पडिसेहो य अणुना हेउविसेसोवलंभोत्ति॥" १११३०. 'तेहिं तेहिंति तैस्तैर्दर्शनान्तरश्रवणकुतीर्थिकसंसर्गादिभिर्विद्वप्रसिद्धैः । द्विवचनं चेह वीप्सायाम् । कारणै:-शंकादिहेतुभिः, किमित्याह
शंकिताः-जिनोक्तपदार्थान् प्रति सर्वतो देशतो वा संजातसंशयाः, कांक्षिता:-देशतः सर्वतो वा संजातान्यान्यदर्शनग्रहाः, 'वितिगिछिय'त्ति विचिकित्सिताः-संजातफलविषयशंकाः, भेदसमापन्ना इति-किम् इदम् जिनशासनमाहोश्चिदिदम् इत्येवं जिनशासनस्वरूपं प्रति मतेद्वैधीभावं गताः-अनध्यवसायरूपं वा मतिभङ्गं गताः, अथवा यत एव शङ्कितादिवेशेषणा अत एव मतेद्वैधीभावं गताः, 'कलुषसमापन्नाः' नैतदेवमित्येवं मतिविपर्यासं गताः । “एवं खलु' इत्यादि, 'एवम्' इत्युक्तेन प्रकारेण 'खलु'त्ति वाक्यालंकारे निश्चयेऽवधारणे वा ।
एतच्च जीवानां कांक्षामोहनीयवेदनमित्थमेवावसेयं, जिनप्रवेदितत्वात्, तस्य च सत्यत्वादिति तत्सत्यतामेव दर्शयन्नाह1१३१. 'से णण'मित्यादि व्यक्तं, नवरं 'तदेव' न पुरुषान्तरैः प्रवेदितं, रागाद्युपहतत्वेन तवेदितस्यासत्यत्वसंभवात् । 'सत्य' सूनृतं, तच्च व्यवहारतोऽपि
स्यादत आह–'निःशंकम्' अविद्यमानसन्देहमिति।।
अथ जिनप्रवेदितं सत्यमित्यभिप्रायवान् यादृशो भवति तद्दर्शयन्नाह१।१३२. से नूण मित्यादि, व्यक्तं, नवरं 'नून' निश्चितम् ‘एवं मणं धारेमाणे'त्ति 'तदेव सत्यं निःशंकं यज्जिनैः प्रवेदितमित्यनेन प्रकारेण मनो-मानसम्
उत्पन्नं सत् धारयन्-स्थिरीकुर्वन् ‘एवं पकरेमणे'त्ति उक्तरूपेणानुत्पन्नं सत् प्रकुर्वन्–विदधानः ‘एवं चिट्टेमाणे'त्ति उक्तन्यायेन मनश्चेष्टयन् नान्यमतानि सत्यानीत्यादिचिन्तायां व्यापारयन्, चेष्टमानो वा विधेयेषु तपोध्यानादिषु, ‘एवं संवरेमाणे 'त्ति उक्तवदेव मनः संवृण्वन-मतान्तरेभ्यो निवर्तयन् 'प्राणातिपातादीन्' वा प्रत्याचक्षाणो जीव इति गम्यते । 'आणाए'त्ति आज्ञाया:-ज्ञानाधासेवारूपजिनोपदेशस्य 'आराहए'त्ति आराधकः-पालयिता भवतीति।
अथ कस्मात्तदेव सत्यं यजिनैः प्रवेदितम् ? इति, अत्रोच्यते, यथावद्वस्तुपरिणामाभिधानादिति तमेव दर्शयन्नाह१११३३. 'से णूण मित्यादि 'अस्थित्तं अस्थित्ते परिणमइ'त्ति अस्तित्वम्-अमुल्यादेः अमुल्यादिभावेन सत्त्वम्, उक्तञ्च
"सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च ।
अन्यथा सर्वभावानामेकत्वं संप्रसज्यते॥" तच्चेह ऋजुत्वादिपर्यायरूपमवसेयम् । अंगुल्यादिद्रव्यास्तित्वस्य कथञ्चिदृजुत्वादिपर्यायाव्यतिरिक्तत्वात् अस्तित्वे-अगुल्यादेरेवाङ्गल्यादिभावेन सत्त्वे वक्रत्वादिपर्याय इत्यर्थः । 'परिणमति' तथा भवति, इदमुक्तं भवति-द्रव्यस्य प्रकारान्तरेण सत्ता प्रकारान्तरसत्तायां वर्तते यथा मृद्रव्यस्य
पिंडप्रकारेण सत्ता घटप्रकारसत्तायामिति । १. चिट्ठमाण ग. घ.
३. पर्ययतया च. २. सवरमाण ग. घ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org