________________
भगवती वृत्ति
३६६
श.१: उ.२,३ः सू.११३-१२३ कौतुकं सौभाग्याद्यर्थं स्नपनकं भूतिकर्म-ज्वरितादिभूतिदानं प्रश्नाप्रश्नं च स्वप्नविद्यादि | 'सलिंगीणं' ति रजोहरणादिसाधुलिंगवतां किंविधानामित्याह-'दंसणवावन्नगाणं'ति दर्शनं सम्यक्त्वं व्यापन्नं-भ्रष्टं येषां ते तथा तेषां निहवानामित्यर्थः।। 'देवलोएसु उववज्जमाणाणं'ति, अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्त इति प्रतिपादितं, 'विराहियसंजमाणं जहन्नेणं भवणवईसु उक्कोसेणं सोहम्मे कप्पे'त्ति, इह कश्चिदाह-विराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं, तत्कथं घटते ? द्रौपद्याः सुकुमालिकाभवे विराधितसंयमाया ईशाने उत्पादश्रवणात् इति। अत्रोच्यते-तस्याः संयमविराधना उत्तरगुणविषया बकुशत्वमात्रकारिणी न मूलगुणविराधनेति। सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायां स्यात् । यदि पुनर्विराधनामात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुत्तरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्तिः स्यात् ? कथंचिद्विराधकत्वात्तेषामिति । 'असन्त्रीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु'त्ति इह यद्यपि 'चमरबलि सारमहिय'मित्यादिवचनादसुरादयो महर्द्धिकाः 'पलिओवममुक्कोसं वंतरियाणं'ति वचनाच्च व्यन्तरा अल्पर्धिकास्तथाऽप्यत एव वचनादवसीयते सन्ति व्यन्तरेभ्यः सकाशादल्पर्द्धयो भवनपतयः केचनेति ।
असञी देवेषूत्पद्यत इत्युक्तं स च आयुषा इति तदायुर्निरूपयन्नाह११११४. 'कइविहे ण'मित्यादि व्यक्तं, नवरं 'असन्निआउए'त्ति असंज्ञी सन् यत्परभवयोग्यमायुर्बभाति तदसंड्यायुः 'नेरइयअसन्निआउए'त्ति नैरयिकप्रायोग्य
मसंइयायुरयिकासंघ्यायुः एवमन्यान्यपि।
एतच्चासंघ्यायुः सम्बन्धमात्रेणापि भवति यथा भिक्षोः पात्रम्, अतस्तत्कृतत्वलक्षणसंबन्धविशेषनिरूपणायाह१1११५. 'असन्नी'त्यादि व्यक्तं, नवरं 'पकरेइत्ति बभाति, 'दसवाससहस्साईति रत्नप्रभाप्रथमप्रतरमाश्रित्य' 'उक्कोसेणं पलिओवमस्स असंखेजइभागं'ति
रत्नप्रभाचतुर्थप्रतरे मध्यमस्थितिकं नारकमाश्रित्येति । कथम् ? यतः प्रथमप्रस्तटे दशवर्षाणां सहस्राणि जघन्या स्थिति उत्कृष्ट नवतिः सहस्राणि । द्वितीये तु दश लक्षाणि जघन्या, इतरा तु नवतिर्लक्षाणि । एषैव तृतीये जघन्या, इतरा तु पूर्वकोटी। एषैव चतुर्थे जघन्या, इतरा तु सागरोपमस्य दशभागः । एवं चात्र पल्योपमासंख्येयभागो मध्यमा स्थितिर्भवति। तिर्यक्सूत्रे यदुक्तं 'पलिओवमस्स असंखेजइभागं'ति तन्मिथुनकतिरश्चोऽधिकृत्येति । 'मणुस्साउए वि एवं चेव'त्ति जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पल्योपमासंख्येयभाग इत्यर्थः । तत्र चासंख्येयभागो मिथुनकनरानाश्रित्य । 'देवा जहा नेरइयत्ति देवा इति असंज्ञिविषयं देवायुरुपचारात्तथा
वाच्यं 'जहा नेरइय'त्ति यथाऽसंज्ञिविषयं नरकायुः तच्च प्रतीतमेव । नवरं भवनपतिव्यन्तरानाश्रित्य तदवसेयमिति । १।११६. एयस्स णं भंते ! इत्यादिना यदसङ्ग्यायुषोऽल्पबहुत्वमुक्तं तदस्य ह्रस्वीदीर्घत्वमाश्रित्येति ।
।। प्रथमशतके द्वितीय उद्देशकः ।।
तृतीय उद्देशकः
द्वितीयोद्देशकान्तिमसूत्रेष्वायुर्विशेषो निरूपितः। स च मोहदोषे सति भवतीत्यतो मोहनीयविशेषं निरूपयन्नादौ च संग्रहगाथायां यदुक्तं 'कंख
पओसे'त्ति तद्दर्शयन्नाह११११८. 'जीवाण'मित्यादि व्यक्तं, नवरं जीवानां सम्बन्धि यत् 'कखामोहणिज्जेत्ति मोहयतीति मोहनीयं कर्म तच्च चारित्रमोहनीयमपि भवतीति
विशिष्यते–कांक्षा-अन्यान्यदर्शनग्रहः, उपलक्षणत्वाच्चास्य शंकादिपरिग्रहः । ततः कांक्षाया मोहनीयं कांक्षामोहनीयं मिथ्यात्वमो हनीयमित्यर्थ :। 'कडे'ति कृतं क्रियानिष्पाद्यमिति प्रश्नः । उत्तरं तु 'हंता कडे'त्ति अकृतस्य कर्मत्वानुपपत्तेः। इह च वस्तुनः करणे चतुर्भंगी दृष्टा, यथा देशेन हस्तादिना वस्तुनो देशस्याच्छादनं करोति, अथवा हस्तादिदेशेनैव समस्तस्य वस्तुनः, अथवा
सर्वात्मना वस्तुदेशस्य, अथवा सर्वात्मना सर्वस्य वस्तुनः इत्येतां कांक्षामोहनीयकरणं प्रतिप्रश्नयन्नाह१।११६. 'से'त्ति तस्य कर्मणः भदन्त ! 'किम् इति प्रश्ने 'देशेन' जीवस्यांशेन 'देशः' कांक्षामोहनीयस्य कर्मणोंऽशः कृतः ? इत्येको भंगः, अथ 'देशेन'
जीवांशेनैव सर्वं कांक्षामोहनीयं कृतं ? इति द्वितीयः, उत 'सर्वेण' सर्वात्मना देशः कांक्षामोहनीयस्य कृतः ? इति तृतीयः, उताहो ! 'सर्वेण' सर्वात्मना सर्वं कृतम् ? इति चतुर्थः । अत्रोत्तरं-'सव्वेणं सव्वे कडे'त्ति जीवस्वाभाव्यात् सर्वस्वप्रदेशावगाढतदेकसमयबन्धनीयकर्मपुद्गलबंधने सर्वजीवप्रदेशानां व्यापार इत्यत उच्यते-सर्वात्मना 'सर्वं तदेककालकरणीयं कांक्षामोहनीयं कर्म 'कृतं' कर्मतया बद्धं, अत एव च भंगत्रयप्रतिषेध इति, अत एवोक्तम्
"एगपएसोगाढं सवपएसेहिं कम्मुणो जोग्गं। बंधइ बहुत्तहेर्ड"ति, 'एगपएसोगाढं'ति जीवापेक्षया कर्मद्रव्यापेक्षया च ये एके प्रदेशास्तेष्ववगाढम् । सर्वजीवप्रदेशव्यापारत्वाच्च तदेकसमयबन्धनार्ह सर्वमिति गम्यम् । अथवा सर्वं यत्किंचित् कांक्षामोहनीयं तत्सर्वात्मना कृतं न देशेनेति ।
जीवानामिति सामान्योक्तौ विशेषो नावगम्यत इति विशेषावगमाय नारकादिदण्डकेन प्रश्नयन्नाह१११२०. नेरइयाण'मित्यादि भावितार्थमेव।
क्रियानिष्पाद्यं कर्मोक्तं, तक्रिया च त्रिकालविषयाऽतस्तां दर्शयन्नाह१११२३. 'जीवाण'मित्यादि व्यक्तं, नवरं 'करिसुत्ति अतीतकाले कृतवन्तः, उत्तरं तु हन्त ! अकार्षुः । तदकरणेऽनादिसंसाराभावप्रसंगात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org