________________
श. १: उ.२ः सू.११२-११३
३६८
समट्ठे' इत्यादि, नवरं ‘मणस्सेसु अंतं करेज्जा' मनुष्येषु वर्त्तमानो नारको मनुष्यीभूत इत्यर्थः । कर्मलेशादन्तक्रियाया अभावे केचिज्जीवा देवेषूत्पद्यन्तेऽतस्तद् विशेषाभिधानायाह-
१ । ११३. ‘अह भंते !’इत्यादि व्यक्तं, नवरम् 'अथेति परिप्रश्नार्थः । 'असंजयभवियदव्वदेवाणं ति इह प्रज्ञापनाटीका लिख्यते-असंयताः चरणपरिणामशून्याः, भव्याः – देवत्वयोग्या अत एव द्रव्यदेवाः समासश्चैवं असंयताश्च ते भव्यद्रव्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः । तत्रैतेऽसंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्
" अणुव्वयमहव्वएहि य बालतवोऽकामनिजराए । देवाउयं निबंध सम्मद्दिट्ठी य जो जीवो ॥"
एतच्चायुक्तं, यतोऽमीषामुत्कृष्टत उपरिमग्रैवेयकेषूपपात उक्तः । सम्यग्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते देशविरतश्रावकाणामच्युतादूर्ध्वमगमनात् नाप्येते निह्नवाः, तेषामिव भेदेनाभिधानात् । तस्मान्मिथ्यादृष्टय एव अभव्या भव्या वा असंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिंगधारिणो गृह्यन्ते । ते ह्यखिलकेवलक्रियाप्रभावत एवोपरिमग्रैवेयकेषूत्पद्यत इति । असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात् ।
ननु कथं तेऽभव्या भव्या वा श्रमणगुणधारिणो भवन्ति ? इति अत्रोच्यते - तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्त्ति - प्रभूत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानान् साधून् समवलोक्य तदर्थं प्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते । ततश्च ते यथोक्तक्रियाकारिण इति ।
तथा 'अविराहियसंजमाणं त्ति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्चलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद् वा स्वल्पमायादिदोर्ध्वेभवेऽप्यनाचरितचरणोपघातानामित्यर्थः । तथा 'विराहियसंजमाणं'ति उक्तविपरीतानाम् । 'अविहियसंजमासंजमाणं ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्रावकाणां, 'विराहियसंजमासंजमाणं'ति उक्तव्यतिरेकाणां । 'असन्नीणं'ति मनोलब्धिरहितानामकामनिर्जरावतां, तथा 'तावसाणं ति पतितपत्राद्युपभोगवतां बालतपस्विनां तथा 'कन्दप्पियाणं' ति कन्दर्पः – परिहासः स येषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा व्यवहारतश्चरणवन्त एव कन्दर्पकौकुच्यादिकारकाः, तथाहि-
" कहकहकहस्स हसनं कंदप्पो अणिहुया व उल्लावा । कंदष्पकहाकहणं कंदप्पुवएसं संसा य ।। भुमनयणवयणदसणच्छदेहिं करपायकन्नमाईहिं । तं तं करेइ जह जह हसइ परो अत्तणा अहसं । वाया कुकुइओ पुण तं जंप जेण हस्सए अन्नो । नाणाविहजीवरुए कुब्बइ मुहतूरए चैव ॥ इत्यादि । जो संजओवि एयासु अप्पसत्यासु भावणं कुणइ । सो तब्बिहेसु गच्छइ सुरेसु भइओ चरणहीणो ॥ " त्ति ।
अतस्तेषां कन्दर्पिकाणाम् । 'चरगपरिव्वायगाणं 'ति चरकपरिव्राजका - धाटिभैक्ष्योपजीविनस्त्रिदण्डिनः अथवा चरकाः - कच्छोटकादयः परिव्राजकास्तु—–कपिलमुनिसूनवोऽतस्तेषां । 'किव्विसियाणं' ति किल्बिषं पापं तदस्ति येषां ते किल्बिषिकाः, ते च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनः यथोक्तम्
१. एव च ख. ग. घ.
२. व्यतिरेकिणाम् क. च.
३. मुहत्तरए क. ख. ग. घ. च.
Jain Education International
“णाणस्स केवलीणं धम्मायरियस्स संघसाहूणं । माई अवनवाई किव्विसियं भावणं कुणइ ॥ "
अतस्तेषाम् । तथा 'तेरिच्छियाणं ति तिरश्चां गवाश्वादीनां देशविरतिभाजाम्। 'आजीवियाणं' ति पाषण्डिविशेषाणां नाग्न्यधारिणां गोशालकशिष्याणामित्यन्ये । आजीवन्ति वा येऽविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्तित्वेनाजीविका अतस्तेषां । तथा 'आभिओगियाणं' ति अभियोजनं विद्यामन्त्रादिभिः परेषां वशीकरणाद्यभियोगः स च द्विधा, यदाह
"दुविहो खलु अभिओगो दव्वे भावे य होइ नायव्वो ।
होति जोगा विज्जा मंता य भावंमि ॥” इति
सोऽस्ति येषां तेन वा चरन्ति तेऽभियोगिका आभियोगिका वा । ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, यदाह
"कोउवभूईकम्मे पसिणापसिणे निमित्तमाजीवी ।
इरिससायगरुओ अहिओगं भावणं कुणइ ||" इति ।
भगवती वृत्ति
४. कच्छोटिका च.
५. सव्वसाहूणं क. ख. ग. च.
For Private & Personal Use Only
www.jainelibrary.org