________________
भगवती वृत्ति
३६७
श.१ : उ.२: सू.१०७-११२ "आइइसमइयाणं नेरइयाणं न जाव एकोवि ।
उबट्टइ अनो वा उववजइ सो असुनो उ।" मिश्रकालस्तु तेषामेव नारकाणां मध्यादेकादय उद्वृत्ताः यावदेकोऽपि शेषस्तावन्मिश्रकालः। शून्यकालस्तु यदा त एवादिष्टसामयिका नारका सामस्त्येनोवृत्ता भवन्ति नैकोऽपि तेषां शेषोऽस्ति स शून्यकाल इति, आह च
"उवढे एकामिवि ता मीसो घरइ जाव एकोवि ।
निल्लेविएहि सम्बेहिं वट्टमाणेहिं सुनो उ॥" इदं च मिश्रनारकसंसारावस्थानकालचिन्तासूत्रं न तमेव वार्त्तमानिकनारकभवमंगीकृत्य प्रवृत्तम्, अपि तु वार्त्तमानिकनारकजीवानां गत्यन्तरगमने तत्रैवोत्पत्तिमाश्रित्य । यदि पुनस्तमेव नारकभवमंगीकृत्येदं सूत्रं स्यात्तदाऽशून्यकालापेक्षया मिश्रकालस्यानन्तगुणता सूत्रोक्ता न स्यात्, आह च
"एवं पुण ते जीवे पहुच सुत्तं न तन्मवं चेव ।
जइ होज तन्मवं तो अनन्तकालो ण संभवइ ॥" कस्मात् ? इति चेद् उच्यते, ये वार्त्तमानिका नारकास्ते स्वायुष्ककालस्यान्ते उद्वर्तन्ते, असंख्यातमेव च तदायुः अत उत्कर्षतो द्वादशमौहूतिकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणत्वाभावप्रसंगादिति, आह च
"किं कारणमाइवा नेरइया जे इमम्मि समयम्मि ।
ते ठिइकालस्संते जम्हा सव्वे खविजंति ॥" इति । १११०५. 'सव्वत्थोवे असुन्नकाले ति नारकाणामुत्पादोद्वर्त्तनाविरहकालस्योत्कर्षतोऽपि द्वादशमुहूर्तप्रमाणत्वात्, 'मीसकाले अणंतगुणे' त्ति मिश्राख्यो
विवक्षितनारकजीवनिर्लेपनाकालोऽशून्यकालापेक्षयाऽनन्तगुणो भवति। यतोऽसौ नारकेतरेष्वागमनगमनकालः। स च त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्ननन्तगुणो भवति, वसवनस्पत्यादिगमनागमनानामनन्तत्वात् । स च नारकनिर्लेपनाकालो वनस्पतिकायस्थितेरनन्तभागे वर्तत इति, उक्तं च
"चोवो असुजकालो सो उकोसेण बारसमुहत्तो। तत्तो य अणंतगुणो मीसो निल्लेवणाकालो।। आगमणगमणकालो तसाइतरुमीसिओ अणंतगुणो।
अह निल्लेवणकालो अणंतभागे वणदाए॥" ति । 'सुन्नकाले अणंतगुणे'त्ति सर्वेषां विवक्षितनारकजीवानां प्रायो वनस्पतिष्वनन्तानन्तकालमवस्थानात्। एतदेव' वनस्पतिष्वनन्तानन्तकालावस्थानं जीवानां नारकभवान्तरकाल उत्कृष्टो देशितः समय इति । उक्तं चद्य
"सुनो य अणंतगुणो सो पुण पायं वणस्सइगयाणं ।
एवं चेव य नारयमवंतरं देसियं जेई॥" ति। १1१०६. 'तिरिक्खजोणियाणं सब्वत्थोवे असुन्नकाले'त्ति, स चान्तर्मुहूर्त्तमात्रः, अयं च यद्यपि सामान्येन तिरश्चामुक्तस्तथाऽपि विकलेन्द्रियसंमर्छिमानामेवावसेयः, तेषामेवान्तर्मुहूर्त्तमानस्य विरहकालस्योक्तत्वात्, यदाह
"भिजमुहत्तो विगलिदिएसु सम्मुच्छिमेसुवि स एव ।" एकेन्द्रियाणां तूवर्तनोपपातविरहाभावेनाशून्यकालाभाव एव, आह च
"एगो असंखभागो बट्टइ उब्बट्टणोववामि ।
एगनिगोए निबं एवं सेसेसु वि स एव ॥" 'पृथिव्यादिषु पुनः अणुसमयमसंखेज'त्ति वचनाद् विरहाभाव इति । 'मिस्सकाले अणंतगुणे'त्ति नारकवत् ।
शून्यकालस्तु तिरश्चां नास्त्येव, यतो वार्त्तमानिकसाधारणवनस्पतीनां तत उद्वृत्तानां स्थानमन्यन्नास्ति। १।११०. 'मणुस्सदेवाणं जहा नेरइयाणं'ति अशून्यकालस्यापि द्वादशमुहूर्तप्रमाणत्वात्, अत्र गाथा
__ "एवं नरामराणवि तिरियाणं नवरि नत्यि सुनद्धा।
जं निम्गयाण तेसि भायणमचं तओ नत्वि||" इति । १११११. 'एयस्से'त्यादि, व्यक्तं । किं संसार एवावस्थानं जीवस्य स्यादुत मोक्षेऽपि ? इति शंकायां पृच्छामाह११११२. 'जीवे ण'मित्यादि, व्यक्तं, नवरं 'अंतकिरियं' त्ति अन्त्या च सा पर्यन्तवर्तिनी क्रिया चान्त्यक्रिया, अन्तस्य वा कर्मान्तस्य क्रिया अन्तक्रिया तां
कृत्स्नकर्मक्षयलक्षणां मोक्षप्राप्तिमित्यर्थः । 'अंतकिरियापयं नेयव्वं'ति तच्च प्रज्ञापनायां विंशतितमं, तच्चैवम्-'जीवे णं भंते ! अंतकिरियं करेजा ? गोयमा ! अत्थेगइए करेजा, अत्थेगइए
णो करेजा, एवं नेरइए जाव वेमाणिए' भव्यः कुन्नितर इत्यर्थः । 'नेरइए णं भंते ! नेरइएसु वट्टमाणे अंत केरज्जा ? गोयमा ! नो इणढे १. तदेव ख. ग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org