________________
श.१: उ.२. सू.१०१-१०७
३६६
भगवती वृत्ति मायिनो मिथ्यादृष्टयश्च महावेदना भवन्ति, यतः प्रकर्षपर्यन्तवर्तिनी स्थितिमशुभां ते निवर्तयन्ति, प्रकृष्चयां च तस्यां महती वेदना संभवति, इतरेषां तु विपरीतेति। तथा मनुष्यपदे क्रियासूत्रे यद्यप्यौघिकदण्डके 'तिविहा मणुस्सा पन्नत्ता, तंजहा-संजया, असंजया, संजयासंजया, तत्थ णं जे ते संजया ते दुविहा पण्णत्ता, तंजहा—सरागसंजया य वीयरागसंजया य, तत्थ णं जे ते सरागसंजया ते दुविहा पन्नत्ता, तंजहा-पमत्तसंजया य अप्पमत्तसंजया य' त्ति पठितं, तथाऽपि कृष्णनीललेश्यादण्डकयोध्येतव्यं, कृष्णनीललेश्योदये संयमस्य निषिद्धत्वात् । यच्चोच्यते 'पुव्वपडिवन्नओ पुण अन्नयरीए उ लेस्साए' त्ति तत्कृष्णादिद्रव्यरूपां द्रव्यलेश्यामंगीकृत्य न तु कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्याम्, एतच्च प्रागुक्तमिति । एतदेव दर्शयन्नाह-'मणुस्से'त्यादि। तथा कापोतलेश्यादण्डकोऽपि नीलादिलेश्यादण्डकवदध्येतव्यो, नवरं नारकपदे वेदनासूत्रे नारका औधिकदण्डकवदेव वाच्याः, ते चैवम्'नेरइया दुविहा पन्नत्ता, तंजहा–सन्निभूया य असन्निभूया यत्ति असंज्ञिनां प्रथमपृथिव्युत्पादेन कापोतलेश्यासम्भवादत आह–'काउलेस्साणवी'त्यादि। तथा तेजोलेश्या पद्मलेश्या च यस्य जीवविशेषस्यास्ति तमाश्रित्य ययौघिको दण्डकस्तथा तयोर्दण्डको भणितव्यौ, तदस्तिता चैवं-नारकाणां विकलेन्द्रियाणां तेजोवायूनां चाधास्तिस्र एव। भवनपतिपृथिव्यम्बुवनस्पतिव्यन्तराणामाद्याश्चतस्रः। पञ्चेन्द्रियतिर्यग्मनुष्याणां षड्। ज्योतिषां तेजोलेश्या । वैमानिकानां तिस्रः प्रशस्ता इति । आह च
"किण्हानीलाकाऊतेउलेसा य मवणवंतरिया। जोइससोहम्मीसाणे तेउलेसा मुणेयव्या ।। "कप्पे सणंकुमारे माहिदे चेव बंमलोगे य। एएसु पम्हलेसा तेण परं सुझलेस्सा उ॥ "तथा पुढवीआउवणस्सइबायरपत्तेय लेस चत्तारि।
गमयतिरियनरेसु छल्लेसा तिनि सेसाणं॥" केवलमौघिकदण्डके क्रियासूत्रे मनुष्याः सरागवीतरागविशेषणा अधीताः इह तु तथा न वाच्याः, तेजःपद्मलेश्ययोर्वीतरागत्वासम्भवात, शुक्ललेश्यायामेव तत्संभवात् । प्रमत्ताप्रमत्तास्तूच्यन्त इति, एतदेव दर्शयन्नाह तेउलेसा पम्हलेसेत्यादि। 'गाह'त्ति उद्देशकादितः सूत्रार्थसंग्रहगाथा गतार्थाऽपि सुखबोधार्थमुच्यते-दुःखमायुश्चोदीर्णं, वेदयतीत्येकत्वबहुत्वाभ्यां दण्डकचतुष्टयतामुक्तम् । तथा 'आहारे'त्ति 'नेरइया किं समाहारा' ?इत्यादि । तथा 'किं समकम्मा' ? तथा 'किं समवन्ना' ? तथा 'किं समलेसा' ? तथा 'किं समवेयणा'? तथा 'किं समकिरिया' ? तथा 'किं समाउया समोववन्नग'त्ति गाथार्थः ।
प्राक् सलेश्या नारका इत्युक्तमथलेश्या निरूपयन्नाह१.१०२. 'कइ णमित्यादि तत्रात्मनि कर्मपुद्गलानां लेशनात्-संश्लेषणाल्लेश्या, योगपरिणामश्चैताः योगनिरोधे लेश्यानामभावात् । योगश्च शरीर
नामकर्मपरिणतिविशेषः। 'लेस्साणं बीओ उद्देसओ'त्ति प्रज्ञापनायां लेश्यापदस्य चतुरुद्देशकस्येह द्वितीयोद्देशको लेश्यास्वरूपावगमाय भणितव्यः । प्रथम इति क्वचिद् दृश्यते सोऽपपाठ इति। अथ कियडूरं यावदित्याह-'जाव इट्टी' ऋद्धिवक्तव्यतां यावत्, स चायं संक्षेपत:-'कइ णं भंते ! लेस्साओ पन्नत्ताओ ? गोयमा ! छल्लेसाओ पन्नत्ताओ, तंजहा-कण्हलेसा'६, एवं सर्वत्र प्रश्न उत्तरं च वाच्यम् । 'नेरइयाणं तिन्नि कण्हलेस्सा३ तिरिक्खजोणियाणं एगिदियाणं४ पुढविआउवणस्सईणं४, तेउवाउबेइंदियतेइंदियचउरिंदियाणं३,पंचिंदियतिरिक्खजोणियाणं६ 'इत्यादि बहु वाच्यं यावत् ‘एएसि णं भंते ! जीवाणं कण्हलेस्साणं जाव सुक्कलेस्साणं कयरे कयरेहितो अप्पिड्डिया वा महिड्डिया वा? गोयमा ! कण्हलेसेहितो नीललेसा महिड्डिया, नीललेसेहिंतो कावोयलेसे त्यादि।
अथ पशवः पशुत्वमश्नुवते इत्यादिवचनविप्रलम्भाद् यो मन्यतेऽनादावपि भवे एकधैव जीवस्यावस्थानमिति तद्बोधनार्थं प्रश्नयन्नाह१११०३. 'जीवस्स ण'मित्यादि, व्यक्तं, नवरं किंविधस्य जीवस्य ? इत्याह-'आदिष्टस्य' अमुष्य नारकादेरित्येवं विशेषितस्य 'तीतद्धाए'त्ति अनादा
वतीते काले 'कतिविधः उपाधिभेदात्कतिभेदः संसारस्य-भवाद्भवान्तरसंचरणलक्षणस्य संस्थानम्-अवस्थितिक्रिया, तस्य काल:-अवसरः
संसारसंस्थानकालः। अमुष्य जीवस्यातीतकाले कस्यां कस्यां गताववस्थानमासीत् ? इत्यर्थः, अत्रोत्तरं-चतुर्विध उपाधिभेदादिति भावः । १1१०४. तत्र नारकभवानुगसंसारावस्थानकालस्त्रिधा-शून्यकालोऽशून्यकालो मिश्रकालश्चेति । १।१०५. तिरश्चां शून्यकालो नास्तीति तेषां द्विविधः । १1१०६,१०७. मनुष्यदेवानां त्रिविधोऽप्यस्ति, आह च
"सुबासुबो मीसो तिविहो संसारचिटणाकालो।
तिरियाण सुनवजो सेसाणं होइ तिविहोवि॥" तत्राशून्यकालस्तावदुच्यते-अशून्यकालस्वरूपपरिज्ञाने हि सति इतरौ सुज्ञानौ भविष्यत इति। तत्र वर्तमानकाले सप्तसु पृथिवीषु ये नारका वर्त्तन्ते तेषां मध्याद्यावन्न कश्चिदुद्वर्तते न चान्य उत्पद्यते तावन्मात्रा एव ते आसते स कालस्तान्नारकानङ्गीकृत्याशून्य इति भण्यते, आह
च
१. अप्पड्डिया महिहिया वा क. ग. च. छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org