________________
भगवती वृत्ति
३६५
श.१: उ.२ः सू.८०-१०१ ततस्ते मायिन उच्यन्ते, अथवा मायेहानन्तानुबंधिकषायोपलक्षणम् अतोऽनन्तानुबंधिकषायोदयवन्तोऽत एव मिथ्यादृष्टयो-मिथ्यात्वोदयवृत्तय इति। 'ताणं णियइयाओ' *त्ति तेषां पृथिवीकायिकानां नैयतिक्यो-नियता न तु त्रिप्रभृतयः, पञ्चैवेत्यर्थः। 'से तेणटेणं समकिरियत्ति
निगमनम्। १/८२. 'जाव चउरिदिय'त्ति, इह महाशरीरत्वमितरच्च स्वस्वावगाहनाऽनुसारेणावसयेम् । आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति। ११८३. 'पंचिंदियतिरिक्खजोणिया जहा णेरइय'त्ति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णमाहारयन्ति उच्छ्वसन्ति चेति यदुच्यते तत्संख्यात
वर्षायुषोऽपेक्ष्येत्यवसेयं, तथैव दर्शनात् । नासंख्यातवर्षायुषः तेषां प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात् । अल्पशरीराणां त्वाहारोच्छ्वासयोः कादाचित्कत्वं वचनप्रामाण्यादिति । लोमाहारापेक्षया तु सर्वेषामप्यभीक्ष्णमिति घटत एव । अल्पशरीराणां तु यत्कादाचित्कत्वं तदपर्याप्तत्वे लोमाहारोच्छ्वासयोरभवनेन पर्याप्तकत्वे च तद्भावेनावसेयमिति । तथा कर्मसूत्रे यत्पूर्वोत्पन्नानामल्पकर्मत्वमितरेषां तु महाकर्मत्वं तदायुष्कादितद्भववैद्यकर्मापेक्षयाऽवसेयम् । तथा वर्णलेश्यासूत्रयोर्यत्पूर्वोत्पन्नानां शुभवर्णाद्युक्तं तत्तारुण्यात् पश्चादुत्पन्नानां चाशुद्धवर्णादि बाल्यादवसेयं, लोके तथैव दर्शनादिति।
तथा 'संजयासंजय'त्ति देशविरताः स्थूलात् प्राणातिपातादेर्निवृत्तत्वादितरस्मादनिवृत्तत्वाञ्चेति। ११८६. 'मणुस्सा जहा नेरइयत्ति तथा वाच्या इति गम्यम् । नानात्वं भेदः पुनरयं-'तत्र मणुस्सा णं भंते ! सव्वे समाहारगा ?' इत्यादि प्रश्नः, 'नो
इणढे सम?' इत्याधुत्तरम्। ११६७. 'जाव दुविहा मणुस्सा पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारेंति', एवं 'परिणामेति
ऊससंति नीससंति।' इह स्थाने नारकसूत्रे 'अभिक्खणं आहारेंती'त्यधीतम्, इह तु 'आहच्चे'त्यधीयते, महाशरीरा हि देवकुर्बादिमिथुनकाः, ते च कदाचिदेवाहारयन्ति कावलिकाहारेण, 'अट्ठमभत्तस्स आहारो"त्ति वचनात् । अल्पशरीरास्त्वभीक्ष्णमल्पं च, बालानां तथैव दर्शनात्, संमूर्छिममनुष्याणामल्प
शरीराणामनवरतमाहारसंभवाच्च। ११६१. यच्चेह पूर्वोत्पन्नानां शुद्धवर्णादि तत्तारुण्यात् संमूर्छिमापेक्षया चेति ।' ११६७. 'सरागसंजय'त्ति अक्षीणानुपशान्तकषायाः। 'वीयरागसंजय'त्ति उपशान्तकषायाः क्षीणकषायाश्च । 'अकिरिय'त्ति वीतरागत्वेनारंभादीनाम
भावादक्रियाः। 'एगा मायावत्तिय'त्ति अप्रमत्तसंयतानामेकैव मायाप्रत्यया 'किरिया कजइत्ति क्रियते-भवति कदाचिदुड्डाहरक्षणप्रवृत्तानामक्षीणकषायत्वादिति। 'आरंभिय'त्ति प्रमत्तसंयतानां 'सर्वः प्रमत्तयोग आरंभ' इतिकृत्वाऽऽरम्भिकी स्यात्, अक्षीणकषायत्वाच्च
मायाप्रत्ययेति। १११००. 'वाणमंतरजोइसवेमाणिया जहा असुरकुमार'त्ति, तत्र शरीरस्याल्पत्वमहत्त्वे स्वावगाहनानुसारेणावसेये। तथा वेदनायामसुरकुमाराः 'सन्निभूया
य असन्निभूया य, सन्निभूया महावेयणा असन्निभूया अप्पवेयणा' इत्येवमधीताः । व्यन्तरा अपि तथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेषु असंज्ञिन उत्पद्यन्ते, यतोऽत्रैवोद्देशके वक्ष्यति-'असन्नी णं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसुत्ति, ते चासुरकुमारप्रकरणोक्तयुक्तरल्पवेदना भवन्तीत्यवसेयम् । यत्तु प्रागुक्तं संज्ञिनः सम्यग्दृष्टयोऽसंज्ञिनस्त्वितरे इति तवृद्धव्याख्यानुसारेणैवेति । ज्योतिष्कवैमानिकेषु त्वसंज्ञिनो नोत्पद्यन्तेऽतो वेदनापदे तेष्वधीयते 'दुविहा जोतिसिया-मायिमिच्छदिट्ठी उववन्नगा ये'त्यादि, तत्र मायिमिथ्यादृष्टयोऽल्पवेदना इतरे च महावेदनाः शुभवेदनामाश्रित्येति । एतदेव दर्शयन्नाह-नवरं 'वेयणा' इत्यादि।
अथ चतुर्विंशतिदण्डकमेव लेश्याभेदविशेषणमाहारादिपदैनिरूपयन्' दण्डकसप्तकमाह919०१. 'सलेस्साणं भंते ! नेरइया सव्वे समाहारग'त्ति अनेनाहारशरीरोच्छ्वासकर्मवर्णलेश्यावेदक्रियोपपाताख्यपूर्वोक्तनवपदोपेतनारकादि
चतुर्विंशतिपददण्डको लेश्यापदविशेषितः सूचितः, तदन्ये च कृष्णलेश्यादिविशेषिताः । पूर्वोक्तनवपदोपेता एव यथासंभवं नारकादिपदात्मकाः षड् दण्डकाः सूचिताः। तदेवमेतेषां सप्तानां दण्डकानां सूत्रसंक्षेपार्थ यो यथाऽध्येतव्यस्तं तथा दर्शयन्नाह-'ओहियाण'मित्यादि, तत्र औधिकानां पूर्वोक्तानां निर्विशेषणानां नारकादीनां तथा सलेश्यानामधिकृतानामेव शुक्ललेश्यानां तु सप्तमदण्डकवाच्यानामेषां त्रयाणामेको गमः-सदृशः पाठः, सलेश्यः शुक्ललेश्यश्चेत्येवंविधविशेषणकृत एव तत्र भेदः। औधिकदण्डकसूत्रवदनयोः सूत्रमिति हृदयम् । तथा 'जस्सस्थि' इत्येतस्य वक्ष्यमाणपदस्येह सम्बन्धाद्यस्य शुक्ललेश्याऽस्ति स एव तद्दण्डकेऽध्येतव्यः तेनेह पञ्चेन्द्रियतिर्यञ्चो मनुष्या वैमानिकाश्च वाच्याः, नारकादीनां शुक्ललेश्याया अभावादिति। 'किण्हलेसनीललेसाणंपि एगो गमो' औधिक एवेत्यर्थः । विशेषमाह-'नवरं वेयणा' इत्यादि, कृष्णलेश्यादण्डके नीललेश्यादण्डके च वेदनासूत्रे 'दुविहा णेरइया पन्नत्ता-सन्निभूया य असन्निभूया य'त्ति औधिकदण्डकाधीतं नाध्येतव्यम्, असंज्ञिनां प्रथमपृथिव्यामेवोत्पादात, 'असण्णी खलु पढम मितिवचनात्, प्रथमायां च कृष्णनीललेश्ययोरभावात् । तर्हि किमध्येतव्यमित्याह-'मायिमिच्छदिट्ठिउववन्नगा ये'त्यादि, तत्र
★ अंगसुत्ताणि मध्ये 'णेयतियाओ' त्ति पाठः । १. वेति क.ख.ग.च. छ. २. अल्प ख. छ.
३. लेश्यालेश्या ख.घ. छ. ४. सप्त क. ५. एसो ख. घ. च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org