________________
श. १: उ. २: सू.७३-८०
१।७४.
१।७५. १।७६.
अन्यैर्विषममायुर्निबद्धं कैश्चिद्दशवर्षसहस्रस्थितिषु कैश्चिच्च पञ्चदशवर्षसहस्रस्थितिषु, उत्पत्तिः पुनर्युगपदिति तृतीयः । केचित्सागरोपमस्थितयः केचित्तु दशवर्षसहस्रस्थितयः इत्येवं विषमायुषो विषममेव चोत्पन्ना इति चतुर्थः । इह संग्रहगाथा -
३६४
"आहाराईसु समा कम्मे वज्ञे तहेव लेसाए । वियणाए किरियाए आउय उववत्तिचउमंगी ॥ "
असुरकुमारा णं भंते ! इत्यादिनाऽ सुरकुमारप्रकरणमाहारादिपदनवकोपेतं सूचितं । तच नारकप्रकरणवन्नेयम्, एतदेवाह - 'जहा नेरइया'इत्यादि । तत्राहारकसूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिख्यते-असुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोगुला संख्येयभागमानत्वं महाशरीरत्वं तूत्कर्षतः सप्तहस्तप्रमाणत्वं । उत्तरवैक्रियापेक्षया त्वल्पशरीरत्वं जघन्यतोऽङ्गुलसंख्येयभागमानत्वं महाशरीरत्वं तूत्कर्षतो योजनलक्षमानमिति । तत्रैते महाशरीरा बहुतरान् पुद्गलानाहारयन्ति, मनोभक्षणलक्षणाहारापेक्षया । देवानां ह्यसौ स्यात् प्रधानश्च, प्रधानापेक्षया च शास्त्रे निर्देशो वस्तूनां विधीयते । ततोऽल्पशरीरग्राह्याहारपुद्गलापेक्षया बहुतरांस्ते तानाहारयन्तीत्यादि प्राग्वत् ।
अभीक्ष्णमाहारयन्ति अभीक्ष्णमुच्छ्वसन्ति च इत्यत्र ये चतुर्थादिरुपर्याहारयन्ति स्तोकसप्तकादेश्चोपर्युच्छ्वसन्ति तानाश्रित्याभीक्ष्णमित्युच्यते । ' उत्कर्षतो ये सातिरेकवर्षसहस्रस्योपरि आहारयन्ति सातिरेकपक्षस्य चोपर्युच्छ्वसन्ति तानंगीकृत्य एतेषामल्पकालीनाहारोच्छ्वासत्वेन पुनः पुनराहारयन्तीत्यादिव्यपदेशविषयत्वादिति । तथाऽल्पशरीरा अल्पतरान् पुद्गलानाहारयन्ति उच्छ्वसन्ति च अल्पशरीरत्वादेव, यत्पुनस्तेषां कादाचित्कत्वमाहारोच्छ्वासयोस्तन्महाशरीराहारोच्छ्वासान्तरालापेक्षया बहुतमान्तरालत्वात् । तत्र हि अन्तराले ते नाहारादि कुर्वन्ति तदन्यत्र कुर्वन्तीत्येवं विवक्षणादिति । महाशरीराणामप्याहारोच्छ्वासयोरन्तरालमस्ति किन्तु तदल्पमित्यविवक्षणादेवाभीक्ष्णमित्युक्तम् ।
Jain Education International
सिद्धं च महाशरीराणां तेषामाहारोच्छ्वासयोरल्पान्तरत्वम्, अल्पशरीराणां तु महान्तरत्वं । यथा सौधर्मदेवानां सप्तहस्तमानतया महाशरीराणां तयोरन्तरं क्रमेण वर्षसहस्रद्वयं पक्षद्वयं च । अनुत्तरसुराणां च हस्तमानतया अल्पशरीराणां त्रयस्त्रिंशद्वर्षसहस्राणि त्रयस्त्रिंशदेव च पक्षा इति । एषां च महाशरीराणामभीक्ष्णाहारोच्छ्वासाभिधानेनाल्पस्थितिकत्वमवसीयते । इतरेषां तु विपर्ययो वैमानिकवदेवेति । अथवा लोमाहारापेक्षयाऽभीक्ष्णं - अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायां उच्छ्वासस्तु यथोक्तमानेनापि भवन् परिपूरणभवापेक्षया पुनः पुनरित्युच्यते। अपर्याप्तकावस्थायां त्वल्पशरीरा लोमाहारतो नाहारयन्ति, ओजाहारत एवाहरणात् इति कदाचित्ते आहारयन्तीत्युच्यते । उच्छूवासापर्याप्तकावस्थायां च नोच्छ्वसन्त्यन्यदा तूच्छ्वसन्तीत्युच्यते आहत्योच्छ्वसन्तीति ।
'कम्मवन्नलेस्साओ परिवन्नेयव्वाओ त्ति कर्म्मादीनि नारकापेक्षया विपर्ययेण वाच्यानि, तथाहि नारका ये पूर्वोत्पन्नास्तेऽल्पकर्मकशुद्धतरवर्णशुभतरलेश्या उक्ताः असुरास्तु ये पूर्वोत्पन्नास्ते महाकर्माणोऽशुद्धवर्णा अशुभतरलेश्याश्चेति कथम् ? ये हि पूर्वोत्पन्ना असुरास्तेऽतिकन्दर्पदर्पाध्मातचित्तत्वान्नारकाननेकप्रकारया यातनया यातयन्तः प्रभूतमशुभं कर्म संचिन्वन्तीत्यतोऽभिधीयन्ते ते महाकर्माणः । अथवा ये बद्धायुषस्ते तिर्यगादिप्रायोग्यकर्म्मप्रकृतिबन्धनान्महाकर्माणः तथाऽशुद्धवर्णा अशुभलेश्याश्च ते । पूर्वोत्पन्नानां हि क्षीणत्वात् शुभकर्मणः शुभो वर्णो लेश्या च हसतीति । पश्चादुत्पन्नास्त्वबद्धायुषोऽल्पकर्माणो बहुतरकर्मणामबंधनादशुभकर्म्मणामक्षीणत्वाच्च शुभवर्णादयः स्युरिति ।
भगवती वृत्ति
वेदना-सूत्रं च' यद्यपि नारकाणामिवासुरकुमाराणामपि तथाऽपि तद्भावनायां विशेषः, स चायम् - ये संज्ञिभूतास्ते महावेदनाः, चारित्रविराधनाजन्यचित्तसन्तापात्। अथवा संज्ञिभूता संज्ञिपूर्वभवाः पर्याप्ता वा ते शुभवेदनामाश्रित्य महावेदना इतरे त्वल्पवेदना इति । एवं नागकुमारादयोऽपि औचित्येन वाच्याः ।
१। ७७-८०. 'वेदनाक्रिययोस्तु नानात्वमत एवाह - 'पुढविकाइयाणं भंते ! सव्वे समवेदणे त्यादि ।
'पुढविक्काइया णं भंते ! आहारकम्मवन्नलेस्सा जहा नेरइयाणं 'ति चत्वार्यपि सूत्राणि नारकसूत्राणीव पृथिवीकायिकाभिलापेनाधीयन्त इत्यर्थः । केवलमाहारसूत्रे भावनैवं—पृथिवीकायिकानामंगुलासंख्येयभागमात्रशरीरत्वेऽप्यल्पशरीरत्वम् । इतरच्च इत आगमवचनादवसेयम्- ' पुढविकाइयस्स ओगाहणट्टयाए चउट्ठाणवडिए' त्ति, ते च महाशरीरा लोमाहारतो बहुतरान् पुद्गलानाहारयन्तीति, उच्छ्वसन्ति च अभीक्ष्णं महाशरीरत्वादेव । अल्पशरीराणामल्पाहारोच्छ्वासत्वमल्पशरीरत्वादेव । कादाचित्कत्वं च तयोः पर्याप्तकेतरावस्थापेक्षमवसेयम् । तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नानां पृथिवीकायिकानां कर्मवर्णलेश्याविभागो नारकैः सम एव ।
१. मिदमुच्यते ख. ग. घ. २. पर्याप्ता ख.
‘असन्नि’त्ति मिध्यादृष्टयोऽमनस्का वा 'असन्निभूय'त्ति असंज्ञिभूता असंज्ञिनां या जायते तामित्यर्थः । एतदेव व्यनक्ति- 'अणिदाए 'त्ति अनिर्द्धारया वेदनां वेदयन्ति । वेदनामनुभवन्तोऽपि न पूर्वोपात्ताशुभकर्मपरिणतिरियमिति मिध्यादृष्टित्वादवगच्छन्ति । विमनस्कत्वाद्वा मत्तमूर्च्छितादिवदिति भावना ।
'माईमिच्छादिट्ठि' त्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह
“उम्मम्गदेसओ मग्गणासओ गूढहियय माइल्लो । सदसीलो य ससल्लो तिरियाउं बंघए जीवो ।। "त्ति ।
३. x क. छ.
For Private & Personal Use Only
www.jainelibrary.org