SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति श.१: उ.२ः सू.६१-७३ ते च नारका उपपातादिसवेद्यानुभवादन्यत्रासद्वद्योदयवर्तित्वेनैकान्तेन यथा महाशरीरा' दुःखितास्तीव्राहाराभिलाषाश्च भवन्तीति । 'बहुतराए पोग्गले परिणामेति'त्ति आहारपुद्गलानुसारित्वात्परिणामस्य बहुतरानित्युक्तं, परिणामश्चापृष्टोऽप्याहारकार्यमितिकृत्वोक्तः । तथा 'बहुतराए पोग्गले उस्ससंति'त्ति उच्छ्वासतया गृह्णन्ति, 'निस्ससंति'त्ति निःश्वासतया विमुञ्चन्ति, महाशरीरत्वादेव । दृश्यते हि बृहच्छरीरस्तज्जातीयेतरापेक्षया बहूच्छ्वासनिःश्वास इति । दुःखितोऽपि तथैव, दुःखिताश्च नारका इति बहुतरांस्तानुच्छ्वसन्तीति। तथाऽऽहारस्यैव कालकृतं वैषम्यमाह–'अभिक्खणं आहारेंति'त्ति अभीक्ष्ण-पौनःपुन्येन यो यतो महाशरीरः स तदपेक्षया शीघ्रशीघ्रतराहारग्रहण इत्यर्थः। 'अभिक्खणं ऊससंति अभिक्खणं नीससंति' एते हि महाशरीरत्वेन दुःखिततरत्वात् 'अभीक्ष्णम्' अनवरतमुच्छ्वासादि कुर्वन्तीति। तथा 'जेते'इत्यादि ये ते, इह ये इत्येतावतैवार्थसिद्धौ यत्ते इत्युच्यते तद्भाषामात्रमेवेति । 'अप्पसरीरा अप्पतराए पोग्गले आहारेति'त्ति ये यतोऽल्पशरीरास्ते तदाहरणीयपुद्गलापेक्षयाल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीरत्वादेव । 'आहच्च आहारेंति'त्ति कदाचिदाहारयन्ति कदाचिन्नाहारयन्ति, महाशरीराहारग्रहणान्तरालापेक्षया, बहुतरकालान्तरालतयेत्यर्थः । 'आहच्च ऊससंति नीससंति 'त्ति एते ह्यल्पशरीरत्वेनैव महाशरीरापेक्षयाऽल्पतरदुःखत्वात् आहत्य कदाचित् सान्तरमित्यर्थः उच्छ्वासादि कुर्वन्ति, यच्च नारकाः सन्ततमेवोच्छ्वासादि कुर्वन्तीति प्रागुक्तं तन्महाशरीरापेक्षयेत्यवगन्तव्यमिति । अथवाऽपर्याप्तकालेऽल्पशरीराः सन्तो लोमाहारापेक्षया नाहारयन्ति उच्छ्वासाऽपर्याप्तकत्वेन नोच्छ्वसन्ति, अन्यदा त्वाहारयन्ति उच्छ्वसन्ति चेत्यत आहत्याहारयन्ति आहत्योच्छ्वसन्तीत्युक्तं। ‘से तेणटेणं गोयमा ! एवं वुच्चइ-नेरइया सव्वे नो समाहारे'त्यादि निगमनमिति । समकर्मसूत्रे११६३. 'पुचोदवनगा य पच्छोववनगा यत्ति पूर्वोत्पन्नाः प्रथमतरमुत्पन्नास्तदन्ये तु पश्चादुत्पन्नाः, तत्र पूर्वोत्पन्नानामायुषस्तदन्यकर्मणां च बहुतरवेदना दल्पकर्मत्वं, पश्चादुत्पन्नानां च नारकाणामायुष्कादीनामल्पतराणां वेदितत्वात् महाकर्मत्वम् । एतच्च सूत्रं समानस्थितिका ये नारकास्तानङ्गीकृत्य प्रणीतम् । अन्यथा हि रत्नप्रभायामुत्कृष्टस्थितेनरिकस्य बहुन्यायुषि क्षयमिते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहस्रस्थिते नारकोऽन्यः कश्चिदुत्पन्न इति कृत्वा प्रागुत्पन्नं पल्योपमायुष्कं नारकमपेक्ष्य किं वक्तुं शक्यं महाकर्मेति ? १९६४. एवं वर्णेसूत्रे पूर्वोत्पन्नस्याल्पं कर्म ततस्तस्य विशुद्धो वर्णः, पश्चादुत्पन्नस्य च बहुकर्मत्वादविशुद्धतरो वर्ण इति । ११६८. एवं लेश्यासूत्रेऽपि इह च लेश्याशब्देन भावलेश्या ग्राह्याः बाह्यद्रव्यलेश्या तु वर्णद्वारेणैवोक्तेति । १।६८,६६. 'समवेयणत्ति समवेदनाः समानपीडाः 'सन्निभूय'त्ति संज्ञा-सम्यग्दर्शनं तद्वन्तः संज्ञिनः संज्ञिनो भूता:-संज्ञित्वं गताः संज्ञिभूताः । अथवाऽसंज्ञिनः संझिनो भूताः संज्ञिभूताः च्चिप्रत्यययोगात्, मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इति यावत् । तेषां च पूर्वकृतकमविपाकमनुस्मरतामहो महदुःखसंकटमिदमकस्मादस्माकमापतितं, न कृतो भगवदर्हाणीतः सकलदुःखक्षयकरो विषयविषमविषपरिभोगविप्रलब्धचेतोभिधर्म इत्यतो महदुःखं मानसमुपजायतेऽतो महावेदनास्ते। असंज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमित्येवमजानन्तोऽनुपतप्तमानसा अल्पवेदनाः स्युरित्येके। अन्येत्वाहुः-संज्ञिन:संज्ञिपंचेन्द्रियाः सन्तो भूता-नारकत्वंगताः संज्ञिभूताः ते महावेदनाः। तीव्राशुभाध्यवसायेनाशुभतरकर्मबंधनेन महानरकेषूत्पादात् । असंज्ञिभूतास्त्वनुभूतपूर्वासंज्ञिभवाः ते चासंज्ञित्वादेवात्यन्ताशुभाध्यवसायाभावाद्रत्नप्रभायामनतितीव्रवेदननरकेषूत्पादादल्पवेदनाः। अथवा संज्ञिभूताः पर्याप्तकीभूताः असंज्ञिनस्तु अपर्याप्तकाः ते च क्रमेण महावेदना इतरे च भवन्तीति प्रतीयत एवेति । ११७० 'समकिरिय'त्ति समा:-तुल्याः क्रिया:-कर्मबंधनिबन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः।। ११७१. आरंभिय'त्ति आरंभ:-पृथिव्याधुपमर्दः, स प्रयोजनं–कारणं यस्याः साऽऽरम्भिकी। 'पारिग्गहिय'त्ति परिग्रहो-धर्मोपकरणवर्जवस्तुस्वी कारो धर्मोपकरणमूर्छा च, स प्रयोजनं यस्याः सा पारिग्रहिकी। 'मायावत्तिय'त्ति माया-अनार्जवं उपलक्षणत्वाक्रोधादिरपि च, सा प्रत्ययः --कारणं यस्याः सा मायाप्रत्यया । 'अप्पच्चक्खाणकिरिय'त्ति अप्रत्याख्यानेन निवृत्त्यभावेन क्रिया-कर्मबन्धादिकरणमप्रत्याख्यानक्रियेति । 'पंच किरियाओ कजंति'त्ति क्रियन्ते, कर्मकर्तरिप्रयोगोऽयं, तेन भवन्तीत्यर्थः । 'मिच्छादसणवत्तिय'त्ति मिथ्यादर्शनं प्रत्ययो हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया। ननु मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतवः इति प्रसिद्धिः, इह तु आरम्भादयस्तेऽभिहिता इति कथं न विरोधः ? उच्यते आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहो, योगानां तद्पत्वात् । शेषपदैस्तु शेषबन्धहेतुपरिग्रहः प्रतीयत एवेति। तत्र सम्यग्दृष्टीनां चतस्र एव, मिथ्यात्वाभावात् । शेषाणां तु पञ्चापि, सम्यग्मिध्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति । ११७२,७३. 'सव्वे समाउया' इत्यादेः प्रश्नस्य निर्वचनचतुर्भङ्गया भावना क्रियते निबद्धदशवर्षसहस्रप्रमाणायुषो युगपच्चोत्पन्ना इति प्रथमभंगः।। तेष्वेव दशवर्षसहस्रस्थितिषु नरकेष्वेके प्रथमतरमुत्पन्ना अपरे तु पश्चादिति द्वितीयः । १. महाशरीर ख. घ. च. छ. २. प्रथमतरसमुत्पन्ना ख. ग. घ. छ. ३. क्षयमुपगते ग. ४. महदुःखं ख. ग. ५. कर्मनिवन्धनभूता क. ख. घ. ६. इत्यादि क. ख. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003593
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages458
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy