________________
भगवती वृत्ति
श. १: उ.१,२: सू.५०-६१
३६२
तथा 'सुविभक्ताः अतिविभक्ताः सुनिष्पन्नतया पिण्ड्यो लुम्ब्यो मञ्जर्यश्च प्रतीतास्ता एवावतंसका - शेखरकास्तान् धारयति यत्तत्सुविभक्तपिण्डीमञ्जर्यवतंसकधरं ततः कुसुमितादीनां कर्मधारय इति ।
'सिरीए 'त्ति श्रिया -- वनलक्ष्म्या 'उवसोभेमाणे उवसोभेमाणे 'त्ति इह द्विर्वचनमाभीक्ष्ण्ये भृशत्वे इत्यर्थः ।
'आइन्न' त्ति क्वचित्प्रदेशे देवानां देवीनां च वृन्दैरात्मीयात्मीयावाऽऽ समर्यादानुल्लंघनेन व्याप्ताः आङ् शब्दोऽत्र मर्यादावृत्तिः । तथा कचित्तु 'विइइन्न'त्ति तैरेव वृन्दैर्निजावाससीमोल्लंघनेन व्याप्ताः विशब्दो विशेषवाची । 'उवत्थड 'त्ति उपस्तीर्णाः उपशब्दः सामीप्यार्थः स्तृञ् च आच्छादनार्थस्ततश्चोत्पतद्भिर्निपतद्भिश्चानवरतक्रीडासक्तैरुपर्युपरि च्छादिताः । 'संघड' त्ति संस्तीर्णाः संशब्दः परस्परसंश्लेषार्थः ततश्च क्वचित्तैरेवाक्रीडमानैरन्योऽन्यस्पर्द्धया समन्ततश्चरद्भिराच्छादिता इति । 'फुड' त्ति 'स्पृष्टाः' आसनशयनरमणपरिभोगद्वारेण परिभुक्ताः स्फुटा वा प्रकाशा व्यन्तरसुरनिकरकिरणविसरनिराकृतान्धकारतया । 'अवगाढगाढ'त्ति गाढंघबाढमवगाढास्तैरेव सकलक्रीडास्थान परिभोगनिहितमनोभिरधोऽपि व्याप्ताः । गाढावगाढा इति वाच्ये प्राकृतत्वादवगाढगाढाः ।
इह च देवत्वयोग्यस्य जीवस्याभिधानेन तदयोग्यः सामर्थ्यादवसीयत एवेति । 'अत्थेगइए नो देवे सिया' इत्येतस्यादावुक्तस्य पक्षस्य निर्वचनं कृतं द्रष्टव्यमिति ।
अथोद्देशकनिगमनार्थमाह
१।५१. ‘सेवं भंते सेवं भंते त्ति यन्मया पृष्टं तत् भगवद्भिः प्रतिपादितं तत एवमित्थमेव भदन्त ! नान्यथा, अनेन भगवदुवचने बहुमानं दर्शयति । द्विर्वचनं चेह भक्तिसंभ्रमकृतमिति । एवं कृत्वा भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति चेति ।
॥ प्रथमशते प्रथमोद्देशक विवरणं समाप्तमिति ॥ द्वितीय उद्देशकः
व्याख्यातः प्रथमोद्देशकः । अथ द्वितीय आरभ्यते अस्य चैवं' सम्बन्धः - प्रथमोद्देशके चलनादिधर्मकं कर्म्म कथितं तदेवेह निरूप्यते । तथोद्देशकार्थसंग्रहिण्यां 'दुक्खेत्ति यदुक्तं तदिहोच्यते, तत्प्रस्तावनार्थं च पूर्वोक्तमेव ग्रन्थं स्मरयन्नाह -
१। ५२. 'रायगिहे ' इत्यादि पूर्ववत् ।
१ । ५३. 'जीवे ण'मित्यादि तत्र 'सयंकडं दुक्खं 'ति यत्परकृतं तन्न वेदयतीति प्रतीतमेवातः स्वयंकृतमिति पृच्छति स्म । 'दुक्ख' ति सांसारिकं सुखमपि वस्तुतो दुःखमिति दुःखहेतुत्वात् दुःखं कर्म वेदयतीति काकुपाठात् प्रश्नः । निर्वचनं तु यदुदीर्णं तद् वेदयति । अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति, तस्मादुदीर्णं वेदयति नानुदीर्णम् । न च बन्धानन्तरमेवोदेति अतोऽवश्यं वेद्यमप्येकं वेदयत्येकं न वेदयति इत्येवं व्यपदिश्यते । अवश्यं वेद्यमेव च कर्म 'कडाण कम्माण ण मोक्खो अत्थि' इति वचनादिति ।
१।५५. 'एवं जाव वेमाणिए' इत्यनेन चतुर्विंशतिदण्डकः सूचितः स चैवम्- 'नेरइए णं भंते ! सयंकड' मित्यादि ।
एवमेकत्वेन दण्डकः, तथाबहुत्वेनान्यः स चैवम्मू
१५६. 'जीवा णं भंते ! सयंकडं दुक्खं वेदेंती त्यादि तथा 'नेरइयाणं भंते! सयंकडं दुक्ख मित्यादि नन्वेकत्वे योऽर्थो बहुत्वेऽपि स एवेति किं बहुत्वप्रश्ने न ? इति अत्रोच्यते क्वचिद्वस्तुनि एकत्वबहुत्वयोरर्थविशेषो दृष्टथे तथा सम्यक्त्वादेः एकं जीवमाश्रित्य षट्षष्टिसागरोपमाणि साधिकानि स्थितिकाल उक्तो, नानाजीवानाश्रित्य पुनः सर्वाद्धा इति । एवमत्रापि संभवेदिति शंकायां बहुत्वप्रश्नो न दुष्टः अत्यन्ताऽव्युत्पन्नमतिशिष्यव्युत्पादनार्थत्वाद्द्वेति ।
अथायुः प्रधानत्वान्नारकादिव्यपदेशस्यायुराश्रित्य दण्डकद्वयम्
१ । ५६. 'जीवे ण 'मित्यादि एतस्य चेयं वृद्धोक्तभावना - यदा सप्तमक्षितावायुर्बद्धं पुनश्च कालान्तरे परिणामविशेषात्तृतीयधरणीप्रायोग्यं निर्वर्त्तितं वासुदेवेनेव तत्तादृशमंगीकृत्योच्यते- पूर्वबद्धं कश्चिन्न वेदयति अनुदीर्णत्वात्तस्य । यदा पुनर्यत्रैव बद्धं तत्रैवोत्पद्यते तदा वेदयतीत्युच्यते तथैव तस्योदितत्वादिति ।
१. चायं ग.
अथ चतुर्विंशतिदण्डकमाहारादिभिर्निरूपयन्नाह
'नेरइए' इत्यादि, व्यक्तं, नवरं ।
१ । ६०.
१ । ६१. ' महासरीरा य अप्पसरीरा येत्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकम् । तत्र जघन्यम् - अल्पत्वमंगलासंख्येयभागमात्रत्वम् उत्कृष्टं तु महत्त्वं पञ्चधनुःशतमानत्वम् । एतच्च भवधारणीयशरीरापेक्षया । उत्तरवैक्रियापेक्षया तु जघन्यमंगलमसंख्यातभागमात्रत्वम्, इतरतु धनुः सहस्रमानत्वमिति । एतेन च किं समशरीरा इत्यत्र प्रश्ने उत्तरमुक्तम् । शरीरविषमताऽभिधाने सत्याहारोच्छ्वासयोर्वेषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रश्नस्य द्वितीयस्थानोक्तस्यापि प्रथमं निर्वचनमुक्तम् ।
अथाहारोच्छ्वासप्रश्नयोर्निर्वचनमाह - ' तत्थ णमित्यादि ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलान् आहारयन्ति महाशरीरत्वादेव । दृश्यते हि लोके बृहच्छरीरो बह्वाशी स्वल्पशरीरश्चाल्पभोजी, हस्तिशशकवत् । बाहुल्यापेक्षं चेदमुच्यते, अन्यथा बृहच्छरीरोऽपि कश्चिदल्पमश्नाति अल्पशरीरोऽपि कश्चिद् भूरि भुंक्ते, तथाविधमनुष्यवत् । न पुनरेवमिह बाहुल्यपक्षस्यैवाश्रयणात् ।
२. स्मरन्नाह क.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org