________________
३६१
भगवती वृत्ति
श.१: उ.१: सू.४५-५० 'अणाइय'ति अविद्यमानादिकम्, अज्ञातिकं वा-अविद्यमानस्वजनम् ऋणं-वाऽतीतम् ऋणजन्यदुःस्थताऽतिक्रान्तं दुःस्थतानिमित्ततयेति ऋणातीतम्, अणं वाऽणकं-पापमतिशयेनेतं गतमणातीतम् । 'अणवयग्गं'ति, 'अवयग्गं'ति देशीवचनोऽन्तवाचकस्ततस्तन्निषेधाद् अणवयग्गम्, अनन्तमित्यर्थः। अथवाऽवनतम्-आसन्नमग्रम्-अन्तो यस्य तत्तथा तन्निषेधाद् अनवनताग्रम्। एतदेव वर्णनाशादवनताग्रमिति। अथवा ऽनवगतम् –अपरिच्छिन्नमग्रं-परिमाणं यस्य तत्तथा । अत एव 'दीहमद्धंति 'दीर्घाद्धं' दीर्घकालं, 'दीर्घाध्वं वा' दीर्घमार्गं । 'चाउरंत'न्ति चतुरन्तं देवादिगतिभेदात्, पूर्वादिदिग्भेदाच्च चतुर्विभागं तदेव स्वार्थिकाण्प्रत्ययोपादानाचातुरन्तं । 'संसारकतारंति भवारण्यम् 'अणुपरियट्टइ'त्ति पुनः पुनभ्रंमतीति । असंवृतस्य तावदिदं फलं, संवृतस्य तु यत्स्यात्तदाह'संवुड़े ण मित्यादि, व्यक्तं, नवरं संवृतः अनगारः प्रमत्ताप्रमत्तसंयतादि, स च चरमशरीरः स्यादचरमशरीरो वा, तत्र यश्चरमशरीरस्तदपेक्षयेदं सूत्रं, यस्त्वचरमशरीरस्तदपेक्षया परम्परया सूत्रार्थोऽवसेयः । ननु पारम्पर्येणासंवृतस्यापि सूत्रोक्तार्थस्यावश्यम्भावो, यतः शुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी । तदेवं संवृतासंवृतयोः फलतो भेदाभाव एवेति? अत्रोच्यते सत्यं, किन्तु यत्संवृतस्य पारम्पर्य तदुत्कर्षतः सप्ताष्टभवप्रमाणं । यतो वक्ष्यति-'जहन्नियं चरित्ताराहणं आराहित्ता सत्तट्ठभवग्गहणेहि सिज्झइति । यच्चासंवृतस्य पारम्पर्य तदुत्कर्षतोऽपार्द्धपुद्गलपरावर्त्तमानमपि स्याद्, विराधनाफलत्वात्तस्येति । 'वीइवयइत्ति व्यतिव्रजति व्यतिक्रामतीत्यर्थः । अनगारः संवृतत्वात्सिध्यतीत्युक्तं, यस्तु तदन्यः स विशिष्टगुणविकलः सन् किं देवः स्यान्न वा ? इति प्रश्नयन्नाह'जीवे ण'मित्यादि, व्यक्तम्, नवरम् 'असंजए'त्ति असाधुः संयमरहितो वा । 'अविरए'त्ति प्राणातिपातादिविरतिरहितः विशेषेण वा तपसि रतो यो न भवति सोऽविरतः । 'अप्पडिहए'त्यादि, प्रतिहतं निराकृतमतीतकालकृतं निन्दादिकरणेन प्रत्याख्यातं च वर्जितमनागतकालविषयं पापकर्म-प्राणातिपातादि येन स प्रतिहतप्रत्याख्यातपापकर्मा तनिषेधादप्रतिहतप्रत्याख्यातपापकर्मा, अनेनातीतानागतपापकर्मानिषेध उक्तः । असंयतोऽविरतश्चेत्यनेन वर्तमानपापासंवरणमभिहितम् । अथवा 'न' नैव 'प्रतिहतं' तपोविधानेन मरणकालाद् आरात्क्षपितं प्रत्याख्यातं च मरणकालेऽप्याश्रवनिरोधेन पापकर्म येन स तथा । अथवा 'न' नैव प्रतिहतं सम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वविरत्यङ्गीकरणतः पापकर्म-ज्ञानावरणाद्यशुभं कर्म येन स तथा।
'इओ'त्ति इतः प्रज्ञापकप्रत्यक्षात्तिर्यग्भवान्मनुष्यभवाद्वा च्युतो-मृतः ‘पेच्च' त्ति जन्मान्तरे देवः स्यात् ? इति प्रश्नः । ११४६. 'जे इमे जीवे'त्ति ये इमे प्रत्यक्षासन्नाः पंचेन्द्रियतिर्यञ्चो मनुष्या वा 'गामे' त्यादि ग्रामादिष्वधिकरणभूतेषु । तत्र ग्रामो-जनपदप्रायजनाश्रितः
स्थानविशेषः, आकरो-लोहाद्युत्पत्तिस्थानम्, नकर-कररहितं, निगमो-वणिगजनप्रधानं स्थानं, राजधानी-यत्र राजा स्वयं वसति, खेटधूलिप्राकारं, कर्बट-कुनगरं, मडम्बं–सर्वतो दूरवर्ति सन्निवेशान्तरं, द्रोणमुखं-जलपथस्थलपथोपेतं, पत्तनं-विविधदेशागतपण्यस्थानं , तच्च द्विधा जलपत्तनं स्थलपत्तनं चेति रलभूमिरित्यन्ये, आश्रमं–तापसादिस्थानं, सन्निवेशो–घोषादिः, एषां द्वन्द्वस्ततस्तेषु। अथवा ग्रामादयो ये सन्निवेशास्ते तथा तेषु। 'अकामतण्हाए'त्ति अकामानां-निर्जराद्यनभिलाषिणां सतां तृष्णा-तृड् अकामतृष्णा तया, एवमकामक्षुधा । 'अकामबंभचेरवासेणं'ति अकामानां-निर्जराधनभिलाषिणां सताम् अकामो वा-निरभिप्रायो ब्रह्मचर्येण-स्यादिपरिभोगाभावमात्रलक्षणेन वासो-रात्रौ शयनमकामब्रह्मचर्यवासोऽतस्तेन । 'अकामअण्हाणगसेयजल्लमलपंकपरिदाहेणं'ति अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन, तत्र स्वेदः-प्रस्वेदः याति च लगति चेति, जल्लो-रजोमात्रं, मलः-कठिनीभूतं रज एव, पो-मल एव स्वेदेनार्दीभूत इति । 'अप्पतरो वा भुजतरो वा काल'ति प्राकृतत्वेन विभक्तिविपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत्, वाशब्दौ देवत्वं प्रत्यल्पेतरकालयोः समताऽभिधानार्थों, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामनिर्जरावतामविशिष्टं तस्याद् इतरेषां तु विशिष्टमिति, 'अप्पाणं परिकिलेसंति'त्ति विबाधयन्ति । 'कालमासे त्ति कालो-मरणं, तस्य मास:-प्रक्रमादवसरः कालमासस्तत्र ‘कालं किच्च'त्ति मृत्वा 'वाणमंतरेसु'त्ति वनान्तरेषु-वनविशेषेषु भवा वर्णागमकरणाद वानमन्तराः, अन्ये त्याहू: वनेषु भवा वानास्ते च ते व्यन्तराञ्चेति वानव्यन्तरारतेषामेते वानमन्तरा वानव्यन्तरा वाऽतस्तेष
'देवलोकेषु' देवाश्रयेषु 'देवत्ताए उववत्तारो भवंति'त्ति ये इमे इत्यत्र यच्छब्दोपादानात्ते देवतयोपपत्तारो भवन्तीति द्रष्टव्यम्। 1५०. 'तेसिं'ति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति ‘से जहानामए' 'से' त्ति अथ यथा येन प्रकारेण नामेति संभावने वाक्यालंकारे
वा 'ए' इत्यामन्त्रणार्थोऽलंकारार्थ एव वा 'इहं' ति इह मयलोके 'असोगवणे इव'त्ति अशोकवनम्, इतिशब्द उपप्रदर्शने, अनुस्वारलोपः संधिश्च प्राकृतत्वात् । 'वा' इति विकल्पार्थः । अथवा 'असोगवणे' इत्यत्र प्रथमैकवचनकृत एकारः। शब्दस्तु वाक्चालङ्कारे । अशोकादयस्तु प्रसिद्धा एव । नवरं 'सत्तवन्न'त्ति सप्तपर्णः सप्तच्छद इत्यर्थः। 'कुसुमिय'त्ति संजातकुसुमं 'माइयंत्ति मयूरितं संजातपुष्पविशेषमित्यधः, 'लवइय'त्ति लवकितं संजातपल्लवलवमंकुरवदित्यर्थः, 'थवइय'त्ति स्तबकितं संजातपुष्पस्तबकमित्यर्थः 'गुलुइय' त्ति संजातगुल्मक, गुल्मं च लतासमूहः 'गुच्छ्यि 'त्ति संजातगुच्छं, गुच्छश्च पत्रसमूहः, यद्यपि च स्तवकगुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलिय'त्ति यमलतया रामश्रेणितया तत्तरूणां व्यवस्थितत्वात् संजातयमलत्वेन यमलितं, 'जुवलिय'त्ति युगलतया तत्तरूणां संजातत्वेन युगलितं, 'विणमिय'त्ति विशेषेण पुष्पफलभरेण नमितमितिकृत्वा विनिमितं, 'पणमिय' त्ति तेनैव नमयितुमारब्धत्वात् प्रणमितं प्रशब्दस्यादिकार्थत्वादिति,
१.x क.ख. छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org