________________
श. २: उ.१: सू. ३६-४५
१।४०.
१।४१.
१ । ४४.
भगवती वृत्ति
३६०
किमैहभविकं ज्ञानमुत 'परभविए 'त्ति (ग्रन्थाग्रम् १०००) परभवे - वर्तमानानन्तरभाविन्यनुगामितया यदुवर्त्तते तत्पारभविकम् । आहोश्चित् 'तदुभयभविए'त्ति तदुभयरूपयोः इहपरलक्षणयोर्भवयोर्यदनुगामितया वर्त्तते तत्तदुभयभविकम् । इदं चैवं न पारभविकाद्भिद्यत इति परतरभवेऽपि यदनुयाति तद्ग्राह्यम्, इहभवव्यतिरिक्तत्वेन परतरभवस्यापि परभवत्वात् । ह्रस्वतानिर्देशश्चेह सर्वत्र प्राकृतत्वादिति प्रश्नः निर्वचनमपि सुगमं । नवरम् 'इहभविए 'त्ति ऐहभविकं यदिहाधीतं नानन्तरभवेऽनुयाति, पारभविकं यदनन्तरभवेऽनुयाति, तदुभयभविकं तु यदिहाधीतं परभवे परतरभवे चानुवर्त्तत इति ।
१।४५.
१ । ४२, ४३. ' एवं तवे संजमेत्ति प्रश्ननिर्वचनाभ्यां चारित्रवत्तपःसंयमौ वाच्यौ, चारित्ररूपत्वात्तयोरिति ।
'दंसणंपि एवमेव'त्ति, दर्शनमिह सम्यक्त्वमवसेयं, मोक्षमार्गाधिकारात् यदाह – “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । " यत्र तु ज्ञानदर्शनयोरेव ग्रहणं स्यात्तत्र दर्शनं सामान्यावबोधरूपमवसेयमिति । 'एवमेवे 'ति ज्ञानवत् प्रश्ननिर्वचनाभ्यां समवसेयम्।
Jain Education International
चारित्रसूत्रे निर्वचने विशेषः, तथाहि - चारित्रमैहभविकमेव । न हि चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्री भवति, यावज्जीवताऽवधिकत्वात्तस्य । किञ्च चारित्रिणः संसारे सर्वविरतस्य देशविरतस्य च देवेष्वेवोत्पादात् तत्र च विरतेरत्यन्तमभावात् मोक्षगतावपि चारित्रसंभवाभावात् । चारित्रं हि कर्मक्षपणायानुष्ठीयते मोक्षे च तस्याकिञ्चित्करत्वात् यावज्जीवमिति प्रतिज्ञासमाप्तेः तदन्यस्याश्चाग्रहणाद्, अनुष्ठानरूपत्वात् चारित्रस्य शरीराभावे च तदयोगात्, अत एवोच्यते ' सिद्धे नोचरित्ती नोअचरित्ती' 'नोअचरित्ती 'ति चाविरतेरभावादिति । अनन्तरं चारित्रमुक्तं, तच्च द्विधा तपः संयमभेदादिति, तयोर्निरूपणायातिदेशमाह
ननु सत्यपि ज्ञानादेर्मोक्षहेतुत्वे दर्शने एव यतितव्यं, तस्यैव मोक्षहेतुत्वात् यदाह-
"भट्टेण चरित्ताओ सुट्टुवरं दंसणं गहेयव्वं ।
सिज्यंति चरणरहिया दंसणरहिया न सिज्यंति । ।"
इति यो मन्यते तं शिक्षयितुं प्रश्नयन्नाह
'असंवुडे ण'मित्यादि, व्यक्तं, नवरम् 'असंवुडे णं'ति 'असंवृतः' अनिरुद्धाश्रवद्वारः 'अणगारे 'त्ति अविद्यमानगृहः, साधुरित्यर्थः । 'सिज्झइति ‘सिध्यति’ अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति । 'बुज्झइ 'त्ति स एव यदा समुप्पन्नकेवलज्ञानतया स्वपरपर्यायोपेतान्निखिलान् जीवादिपदार्थान् जानाति तदा बुध्यत इति व्यपदिश्यते । 'मुच्चइ' त्ति स एव संजात केवलबोधो भवोपग्राहिकम्र्म्मभिः प्रतिसमयं विमुच्यमानो मुच्यत इत्युच्यते । 'परिनिव्वाइ त्ति स एव तेषां कर्मपुद्गलानामनुसमयं यथा यथा क्षयमाप्नोति तथा तथा शीतीभवन् परिनिर्वातीति प्रोच्यते । 'सव्वदुक्खाणमंत करेइति स एव चरमभवायुषोऽन्तिमसमये क्षपिताशेषकर्माशः सर्वदुःखानामन्तं करोतीति भण्यते इति प्रश्नः । उत्तरं तु कण्ठयं, नवरं 'नो इणट्टे समट्टे'त्ति 'नो' नैव 'इणट्टे'त्ति 'अयम्' अनन्तरोक्तत्वेन प्रत्यक्षः 'अर्थ:' भाव: 'समर्थ:' बलवान्, वक्ष्यमाणदूषणमुद्गरप्रहारजर्जरितत्वात् ।
‘आउयवज्जाओ'त्ति यस्मादेकत्र भवग्रहणे सकृदेवान्तर्मुहूर्त्तमात्रकाले एवायुषो बन्धस्तत उक्तमायुर्वज इति । 'सिटिलबंधणवद्धाओ 'ति श्लथबन्धनं—स्पृष्टता वा बद्धता वा निधत्तता वा, तेन बद्धाः - आत्मप्रदेशेषु संबन्धिताः पूर्वावस्थायामशुभतरपरिणामस्य कथञ्चिदभावादिति शिथिलबन्धनबद्धाः, एताश्च शुभा एव द्रष्टव्याः । असंवृतभावस्य निन्दाप्रस्तावात्, ताः किमित्याह 'धणियबंधणबद्धाओ पकरेति त्ति गाढतरबन्धना बद्धावस्था वा निधत्तावस्था वा निकाचिता वा 'प्रकरोति' । प्रशब्दस्यादिकर्मार्थत्वात्कर्त्तुमारभते, असंवृतत्वस्याशुभयोगरूपत्वेन गाढतरप्रकृतिबन्धहेतुत्वात्, आह च
" जोगा पयडिपएसं 'ति ।
पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति ।
T
तथा ह्रस्वकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति । तत्र स्थितिः - उपात्तस्य कर्म्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः । असंवृतत्वस्य कषायरूपत्वेन स्थितिबन्धहेतुत्वात्, आह च
"टिइमभागं कसायओ कुणइ "त्ति ।
तथा 'मंदाणुभावे'त्यादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावाः - परिपेलवरसाः सतीः गाढरसाः प्रकरोति । असंवृतत्वस्य कषायरूपत्वादेव अनुभागबन्धस्य च कषायप्रत्ययत्वादिति ।
'अप्पपएसे 'त्यादि, अल्पं - स्तोकं प्रदेशाग्रं - कर्मदलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाग्राः प्रकरोति । प्रदेशबन्धस्यापि योगप्रत्ययत्वाद्, असंवृतत्वस्य च योगरूपत्वादिति ।
'आउयं चे'त्यादि, आयुः पुनः कर्म्म स्यात् - कदाचिद्बध्नाति स्यात् न बध्नाति । यस्मात्रिभागाद्यवशेषायुषः परभवायुः प्रकुर्व्वन्ति, तेन या भागादिस्तदा बध्नाति, अन्यदा न बध्नातीति ।
तथा ‘असाए’त्यादि असातवेदनीयं च - दुःखवेदनीयं कर्म पुनः 'भूयो भूयः' पुनः पुनः 'उपचिनोति' उपचितं करोति । ननु कर्मसप्तकान्तवर्त्तित्वादसातावेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्ग्रहणेन ? अत्रोच्यते-अंसंवृतोऽत्यन्तदुःखितो भवतीति प्रतिपादनेन भयजननादसंवृतत्वपरिहारार्थमिदमित्यदुष्टमिति ।
३. नोचरिती नोअचरित्ती क. घ.
२. मन्येत ख. ग. छ.
३. प्रमाणं ख. घ.
४. अन्यदा तु ख.
For Private & Personal Use Only
www.jainelibrary.org