________________
भगवती वृत्ति
३५६
श. १: उ.१: सू.३३-३६
बहुत्वार्थत्वाद् ‘अस्ति’विद्यन्ते सन्तीत्यर्थः । अथवाऽस्ति अयं पक्षो यदुत 'एगइयत्ति एकका एके केवनेत्यर्थः जीवाः। आत्मारम्भा अपीत्यादावपिशब्द उत्तरपदापेक्षया समुच्चये, स चात्मारम्भत्वादिधर्माणामेकाश्रयताप्रतिपादनार्थः भिन्नाश्रयताप्रतिपादनार्थो वा ।
एकाश्रयत्वं च कालभेदेनावगन्तव्यं, तथाहि — कदाचिदालारम्भाः कदाचित्परारंभाः कदाचित्तदुभयारंभाः, अत एव नो अनारम्भाः । भिन्नाश्रयत्वं त्वेवम् एके जीवा असंयता इत्यर्थः आत्मारम्भा वा परारम्भा वेत्यादि ।
अथैकस्वभावत्वाज्जीवानां भेदमसंभावयन्नाह
१ । ३४. ' से केणट्टेणं 'ति अथ केन कारणेनेत्यर्थः, 'दुविहा पन्नत्त'त्ति मयाऽन्यैश्च केवलिभिः । अनेन समस्तसर्वविदां मताभेदमाह, मतभेदे तु विरोधिवचनतया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपाभिधायकविरुद्धवचनपुरुषकदम्बकवदिति ।
प्रमत्तसंयतस्य हि शुभोऽशुभश्च योगः स्यात् संयतत्वात्प्रमादपरत्वाच्च इत्यत आह- ' सुभं जोगं पडुचत्ति शुभयोगः - उपयुक्ततया प्रत्युपेक्षणादिकरणम्, अशुभयोगस्तु तदेवानुपयुक्ततया, आहच
" पुढवी आउकाए तेऊवाऊवणस्सइतसाणं । पडिलेहणापमत्तो छण्हंपि विराहओ होइ ।।"
१।३६.
तथा
अतः शुभाशुभ योगावात्मा (ना) रम्भादिकारणमिति ।
'अविरई पडुच 'त्ति, इहायं भावः यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषाम् । न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति । निवृत्तानां तु कथंचिदात्माद्यारम्भकत्वेऽप्यनारम्भकत्वं यदाहच
"जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स ।
साहोइ निजरफला अज्झत्थविसोहिजुत्तस्स ।। "त्ति ।
" सव्यो पमत्तजोगो समणस्स उ होइ आरंभो ।” ति ।
'से तेणट्टेणं' ति अथ तेन कारणेनेत्यर्थः ।
अथात्मारम्भकत्वादित्वमेव नारकादिचतुर्विंशतिदण्डकैर्निरूपयन्नाह—
१ । ३५. ‘नेरइयाण’मित्यादि, व्यक्तं, नवरं, 'मणुस्से' त्यादौ अयमर्थः मनुष्येषु संयतासंयतप्रमत्ताप्रमत्तभेदाः पूर्वोक्ताः सन्ति ततस्ते यथा जीवास्तथाऽध्येतव्याः । किन्तु संसारसमापन्नाः इतरे च ते न वाच्याः भववर्त्तित्वादेव तेषामिति । एतदेवाह 'सिद्धविरहिए' इत्यादि । व्यन्तरादयो यथा नारकास्तथाऽध्येयाः, असंयतत्वसाधर्म्यादिति ।
आत्मारम्भकत्वादिभिर्धर्मैर्जीवा निरूपिताः ते च सलेश्या अलेश्याश्च' भवन्तीति सलेश्यांस्तांस्तैरेव निरूपयन्नाह—
१ । ३८. 'सलेसा जहा ओहिय' त्ति । लेश्या - कृष्णादिद्रव्यसान्निध्यजनितो जीवपरिणामो, यदाह
"कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः ।
स्फटिकस्यैव तत्रायं, लेश्याशब्दः प्रयुज्यते । ।"
तत्र 'सलेश्याः' लेश्यावन्तो जीवाः 'जहा ओहिय'त्ति यथा नारकादिविशेषणवर्जिता जीवा अधीताः, - 'जीवा णं भंते! किं आयारंभा परारंभे' त्यादिना दण्डकेन तथा सलेश्या जीवा अपि वाच्याः । सलेश्यानामसंसारसमापन्नत्वस्यासम्भवेन संसारसमापन्नेत्यादिविशेषणवर्जितानां शेषाणां संयतादिविशेषणानां तेष्वपि युज्यमानत्वात् ।
तत्र चायं पाठक्रमः - 'सलेसा णं भंते ! जीवा किं आयारंभे'त्यादि तदेव सर्वं, नवरं जीवस्थाने सलेश्या इति वाच्यमिति, अयमेको दण्डकः, कृष्णादिलेश्याभेदात्तदन्ये षट्, तदेवमेते सप्त ।
तत्र 'कण्हलेस्से' त्यादि, कृष्णलेश्यस्य नीललेश्यस्य कापोतलेश्यस्य च जीवराशेर्दण्डको यथा औधिकजीवदण्डकस्तथाऽध्येतव्यः-प्रमत्ताप्रमत्तविशेषणवर्जः, कृष्णादिषु हि अप्रशस्तभावलेश्यासु संयतत्वं नास्ति, यचोच्यते - 'पुव्वपडिवण्णओ पुण अन्नयरीए उ लेसाए' त्ति, तद्द्रव्यलेश्यां प्रतीत्येति मन्तव्यं, ततस्तासु प्रमत्ताद्यभावः । तत्र सूत्रोच्चारणमेवम्— 'कण्हलेसाणं भंते! जीवा कि आयारंभा परारंभा तदुभयारंभा अणारंभा ? गोयमा ! आयारंभावि जाव नो अणारंभा । से केणट्टेणं भंते ! एवं बुच्चइ ? गोयमा ! अविरइं पडुच्च । एवं नीलकापोतलेश्यादण्डकावपीति । तथा तेजोलेश्यादेर्जीवराशेर्दण्डकाः यथा औधिका जीवास्तथा वाच्याः ।
नवरं तेषु सिद्धा न वाच्याः, सिद्धानामलेश्यत्वात्, तच्चैवम्- 'तेउलेस्साणं भंते ! जीवा किं आयारंभा ? परारंभा ? तदुभयारंभा ? अणारंभा ? गोयमा ! अत्थेगइया आयारंभावि जाव नो अणारंभा, अत्थेगइया नो आयारंभा जाव अणारंभा से केणद्वेणं भंते ! एवं बुच्चइ ? गोयमा ! दुविहा तेउलेस्सा पन्नत्ता, तंजहा - संजया य असंजया ये 'त्यादि । ।
भवहेतुभूतमारम्भं निरूप्य भवाभावहेतुभूतं ज्ञानादिधर्मकदम्बकं निरूपयन्नाह—
‘इहभविए’इत्यादि व्यक्तं, नवरम् - इह भवे वर्त्तमानजन्मनि यदुवर्त्तते न तु भवान्तरे तदैहभविकं । काकुपाठाच्चेह प्रश्नताऽवसेया, तेन
१. श्चालेश्या क. ग. च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org