________________
३५८
श.१: उ.१: सू.३२-३३
भगवती वृत्ति एवं 'जाव वणस्सइकाइयाणं" अनेन पृथिवीकायिकसूत्रभिवाप्कायिकादिसूत्राणि समानीत्युक्तं। स्थितौ पुनर्विशेषोऽत एवाह-नवरं 'ठिई वण्णेयव्वा जा जस्स'त्ति तत्र जघन्या सर्वेषामन्तर्मुहूर्त्तकम् उत्कृष्ट त्वां सप्त वर्षसहस्राणि तेजसामहोरात्रत्रयं, वायूनां त्रीणि वर्षसहस्राणि, वनस्पतीनां दशेति, उक्ता चेयं पृथिव्यादिक्रमेण
"बावीसाई सहस्सा सत्त सहस्साई तिनिहोरता।
वाए तिबिसहस्सा दसवाससहस्सिया रुक्खे । ति । 'बेइंदियाणं ठिइ भणिऊण ऊसासो वेमायाए'त्ति वक्तव्य इति शेषः । स्थितिश्च द्वीन्द्रियाणां द्वादश वर्षाणि, द्वीन्द्रियाणामाहारसूत्रे यदुक्तम्-'तस्थ णं जे से आभोगनिव्वत्तिए से णं असंखेज्जसमइए अंतोमुहुत्तिए वेमायाए आहारट्ठे समुप्पजइत्ति। तस्यायमर्थः-असंख्यातसामयिक आहारकालो भवति । स चावसर्पिण्यादिरूपोऽप्यस्तीत्यत उच्यते-आन्तमौहूर्त्तिकः, तत्रापि विमात्रया अन्तर्मुहूर्ते समयासंख्यातत्वस्यासंख्येयभेदत्वादिति । 'बेइंदियाणं' दुविहे आहारे पन्नत्ते, लोमहारे पक्खेवाहारे यत्ति, तत्र लोमाहारः खल्वोघतो वर्षादिषु यः पुद्गलप्रवेशः स सूत्राद् गम्यत इति । प्रक्षेपाहारस्तु कावलिकः तत्र प्रक्षेपाहारे बहवोऽस्पृष्थ एव शरीरादन्तर्बहिश्च विध्वंसन्ते स्थौल्यसौश्याभ्याम्, अत एवाह-'जे पोग्गले पक्खेवाहारत्ताए गिण्हती त्यादि । 'अणेगाइं च णं भागसहस्साईति असंख्येया भागा इत्यर्थः, 'अणासाइजमाणाई'ति रसनेन्द्रियतः । 'अफासाइजमाणाईति स्पर्शनेन्द्रियतः। 'कयरे' इत्यादि यत्पदं तदेव दृश्यं-'कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वत्ति व्यक्तं च 'सव्वत्थोवा पोग्ला अणासाइजमाणे' त्यादि। येऽनास्वाद्यमानाः केवलं रसनेन्द्रियविषयास्ते स्तोकाः, अस्पृश्यमाणामनन्तभागवर्तिन इत्यर्थः । ये त्वस्पृश्यमाणाः केवलं स्पर्शनविषयास्तेऽनन्तगुणा रसनेन्द्रियविषयेभ्यः सकाशादिति । 'तेइंदियचउरिदियाणं नाणत्तं ठिईए'त्ति तच्चेदम्-'जहनेणं अंतोमुहुत्तं उक्कोसेणं तेइंदियाणं एगूणपन्नासं राइंदियाई चउरिदियाणं छम्मासा'। तथाऽऽहारेऽपि नानात्वं, तत्र च 'ते इंदियाणं भंते ! जे पोग्गले आहारत्ताए गेहंति' इत्यत आरभ्य तावत्सूत्रम् वाच्यं यावत् 'अणेगाइं च णं भागसहस्साई अणाघाइज्जमाणाई' इत्यादि। इह च द्वीन्द्रियसूत्रापेक्षयाऽनाघ्रायमाणानीत्यतिरिक्तमतो नानात्वम् । एवमल्पबहुत्वसूत्रे परिणामसूत्रे च । चतुरिन्द्रियसूत्रेषु तु परिणामसूत्रे चक्खिंदियत्ताए घाणिदियत्ताए'इत्यधिकमिति नानात्वमिति । पञ्चेन्द्रियतिर्यकसूत्रे 'ठिई भणिऊणं ति 'जहन्नेण अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई' ति इत्येतद्रूपां स्थिति भणित्वा 'उस्सासो'त्ति उच्छ्वासो विमात्रया वाच्य इति। तथा तिर्यक्रपञ्चेन्द्रियाणामाहारार्थं प्रति यदुक्तं-'उक्कोसेणं छट्ठभत्तस्स'त्ति तद्देवकुरूत्तरकुरुतिर्यक्षु लभ्यते। मनुष्यसूत्रे यदुक्तं-अष्टमभक्तस्येति तद्देवकुर्वादिमिथुनकनरानाश्रित्य समवसेयमिति । 'वाणमंतराण'मित्यादि वाणमन्तराणां स्थितौ नानात्वम्, 'अवसेसंति स्थितेरवशेषमायुष्कवर्जमित्यर्थः, प्रागुक्तमाहारादि वस्तु यथा नागकुमाराणां तथा दृश्यम् । व्यन्तराणां नागकुमाराणां च प्रायः समानधर्मत्वात् । तत्र व्यन्तराणां स्थितिर्जघन्येन दशवर्षसहस्राणि । उत्कर्षेण तु पल्योपममिति । 'जोइसियाणंपी'त्यादि ज्योतिष्काणामपि स्थितेरवशेषं तथैव यथा नागकुमाराणाम् । तत्र ज्योतिष्काणां स्थितेजघन्येन पल्योपमाष्टमभागः उत्कर्षण पल्योपमं वर्षलक्षाधिकमिति। नवरम्, 'उस्सास'त्ति केवलमुच्छ्वासस्तेषां न नागकुमारसमानः किन्तु वक्ष्यमाणः तथा चाह-'जहन्नेणं मुहुत्तपुहुत्तस्से त्यादि, पृथक्त्वं द्विप्रभृतिरानवभ्यः। तत्र यजघन्यं मुहूर्तपृथक्त्वं तद्विवा मुहूर्ताः यच्चोत्कृष्टं तदष्टौ नव वेति। आहारोऽपि विशेषित एव तथा चाह 'आहारो'इत्यादि । 'वेमाणियाणं ठिई भाणियव्वा ओहिय'त्ति औधिकी-सामान्या, सा च पल्योपमादिका त्रयस्त्रिंशत्सागरोपमान्ता तत्र जघन्या सौधर्ममाश्रित्य उत्कृष्टा चानुत्तरविमानानीति। उच्छ्वासप्रमाणं तु जघन्यं जघन्यस्थितिकदेवानाश्रित्य इतरत्तूत्कृष्यस्थितिकानाश्रित्येत्यर्थः। अत्र गाथा
"जस्स जइ सागराई ठिई तस्स तत्तिएहिं पक्खेहिं ।
ऊसासो देवाणं वाससहस्सेहिं आहारो।।" ति । तदेतावता ग्रन्थेनोक्ता चतुर्विंशतिदण्डकवक्तव्यता । इयं च केषुचित् सूत्रपुस्तकेषु ‘एवं ठिई आहारो' इत्यादिनाऽतिदेशवाक्येन दर्शिता सा चेतो विवरणग्रन्थादवसेयेति ।
उक्ता नारकादिधर्मवक्तव्यता । इयं चारम्भपूर्विकेति आरंभनिरूपणायाह११३३. 'जीवा णं किं आयारंभे'त्यादि। आरंभो-जीवोपघातःउपद्रवणमित्यर्थः सामान्येन वाऽऽश्रवद्वारप्रवृत्तिः।
तत्र चात्मानमारभन्ते आत्मना वा स्वयमारभन्त इत्यात्मारम्भाः । तथा परमारभन्ते परेण वाऽऽरम्भयन्तीति परारम्भाः । तदुभयम्-आत्मपररूपं,
तदुभयेन वाऽऽरम्भन्त इति तदुभयारम्भाः । आत्मपरोभयारम्भवर्जितास्त्वनारम्भा इति प्रश्नः । अत्रोत्तरं स्फुटमेव, नवरम्-अस्तिशब्दस्याव्ययत्वेन १. वणप्फई ख. ग. घ.
६. पुहत्तस्य च. छ. २. बेदियाणं ख. ग. घ.
★ अंगसुताणि ग्रन्थे इयं च केषुचित् सूत्रपुस्तकेषु ‘एवं ठिई आहारो' इति ३. गिण्हंति क. छ.
संकेतांकिताः प्रती आश्रित्य संक्षिप्तपाठो गृहीतस्तस्य पादटिप्पणे एषा विस्तृत४. तेदिय ग.
वाचना उद्धृतास्ति। ५. आउणपण्णासं ख. घ. छ एगोण क.
७. चा... ग. घ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org