________________
भगवती वृत्ति
३५७
श.१: उ.१: सू.३२ "हवस्स अणवगल्लस्स निरुवकिस्स जंतुणो। एगे ऊसासनीसासे एस पाणुत्ति युबइ । सत्तपाणि से बोवे, सत्तयोवाणि से लवे ।
लवाणं सत्तहत्तरिए, एस मुहुत्ते विघाहिए॥" इदं जघन्यमुच्छ्वासादिमानं जघन्यस्थितिकानाश्रित्यावगन्तव्यम्, उत्कृष्टं चोत्कृष्थस्थितिकानाश्रित्येति । 'चउत्थभत्तस्स'त्ति चतुर्थभक्तमित्येकोपवासस्य संज्ञा ततस्तस्योपरि, एकत्र दिने भुक्त्वाऽहोरात्रं चातिक्रम्य तृतीये भुजत इति भावः । नागकुमारवक्तव्यतायाम् 'उक्कोसेणं देसूणाई दो पलिओवमाईति यदुक्तं, तदुत्तरश्रेणिमाश्रित्यावसेयं यदाह
"दाहिण दिवट्टपलियं दो देसूणुत्तरिल्लणं।" इति।। 'मुहत्तपुहूत्तस्स"त्ति मुहूर्त उक्तलक्षण एव, पृथक्त्वं तु द्विप्रभृतिरानवभ्यः संख्याविशेषः समये प्रसिध्दः । एवं 'सुवन्नकुमाराणं'त्ति नागकुमाराणामिव सुपर्णकुमारणामपि स्थित्यादिवाच्यम्। इदं च कियडूरं यावद्वाच्यम् ? इत्याह-जाव 'थणियकुमाराणं'त्ति यावद्करणाद् विद्युत्कुमारादिपरिग्रहः । एषां चेहायं क्रमोऽवसेयः
"असुरा नाग सुवत्रा विजू अग्गी य दीव उदही य ।
दिसि वाऊ थणियावि य दसमेया भवणवासीणं ॥" अथ भवनपतिवक्तव्यताऽनन्तरं दण्डकक्रमादेव पृथिव्यादीनां स्थित्यादि निरूपयन्नाह-'पुढवीं'त्यादि व्यक्तमावनस्पतिसूत्रात् । नवरम्-'अंतोमुहुत्त'न्ति मुहूर्त्तस्यान्तरन्तर्मुहूर्तं भिन्नो मुहूर्त इत्यर्थः। 'उक्कोसेणं बावीसं वाससहरसाइंति यदुक्तं तत् खरपृथिवीमाश्रित्यावगन्तव्यं यदाह
"सण्हा य१ सुद्ध१२ वालुय१४ मणोसिआ१६ सक्करा य१८ खरपुटवी२२ ।
एगं बारस योद्दस सोलस अट्ठार बावीसा ।।" इति। 'वेमायाए'त्ति विषमा विविधा वा मात्रा-कालविभागो विमात्रा तया। इदमुक्तं भवति-विषमकाला पृथिवीकायिकानामुच्छ्वासादिक्रिया इयत्कालादिति न निरूपयितुं शक्यते । 'जहा नेरइयाण' मित्यतिदेशात्, 'खेत्तओ असंखेजपएसोगाढाई कालओ अन्नयराठिइयाई' इत्यादि दृश्यम्। 'निव्वाधाएण छद्दिसिं'ति व्याघात आहारस्य लोकान्तनिष्कुटेषु संभवति नान्यत्र, ततो निष्कुटेभ्योऽन्यत्र षट्सु दिक्षु, कथम् ?--चतसृषु पूर्वादिदिक्षु ऊर्ध्वमधश्च पुद्गलग्रहणं करोति, तस्य स्थापना
शामिव सुपएषां चहामीय दीवा
ऊध्र्व अघः
द
'वाधायं पडुच्च'त्ति व्याघातं प्रतीत्य, व्याघातश्च निष्कुटेषु, तत्र च 'सिय तिदिसिं'ति स्यात्-कदाचित् तिसृषु दिक्षु आहारग्रहणं भवति, कथम्? यदा पृथिवीकायिकोऽधस्तने उपरितने वा कोणेऽवस्थितः स्यात्तदाऽधस्तादलोकः पूर्वदक्षिणयोश्चालोक इत्येवं तिसृणामलोके नाऽऽवृतत्वात्तदन्यासु तिसृषु पुद्गलग्रहणम् । एवमुपरितनकोणेऽपि वाच्यम्, यदा पुनरध उपरि चालोको भवति तदा चतसृषु । यदा तु पूर्वादीनां षण्णां दिशामन्यतरस्यामलोको भवति तदा पञ्चस्विति । 'फासओ कक्खडाईति इह कर्कशादयो रूक्षान्ताः स्पर्शा दृश्याः, 'सेसं तहेवं'त्ति शेषं-भणितावशेषं तथैव यथा नारकाणां तथा पृथिवीकायिकानामपि, तच्चेदम्-'जाई भंते ! लुक्खाई आहारेति ताई किं पुट्ठाई अपुट्ठाई ? जइ पुट्ठाई किं ओगाढाई अणोगाढाइं?'इत्यादि । 'नाणत्तंति नानात्वं भेदः पुनः पृथिवीकायिकानां नारकापेक्षयाऽऽहारं प्रतीदं यथा 'कइभाग'मित्यादि तत्र 'फासाइंति'त्ति स्पर्श कुर्वन्ति स्पर्शयन्ति-स्पर्शनेन्द्रियेणाहारपुद्गलानां कतिभागं स्पृशन्तीत्यर्थः अथवा स्पृशेनास्वादयन्ति प्राकृतशैल्या फासायंति, स्पर्शेन वाऽऽददति-गृह्णन्ति उपलभन्त इति फासाइंति । इदमुक्तं भवति-यथा रसनेन्द्रियपर्याप्तिपर्याप्तका रसनेन्द्रियद्वारेणाहारमुपभुजाना आस्वादयन्तीति व्यपदिश्यन्ते एवमेते स्पर्शनेन्द्रियद्वारेणेति। 'सेसं जहा नेरइयाणं'ति तच्चैवम्-'पुढविकाइयाणं भंते ! पुव्वाहारिया पोग्गला परिणया' इत्यादि प्राग्वच्च व्याख्येयमिति ।
३. ग्रह ख. ग. च. छ.
१. इदं च छ. एवं च. २. पुहत्तस्स क.ख. ग. घ. च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org