________________
श.१: उ.१: सू.२४-३२
३५६
भगवती वृत्ति १॥२४. 'ओयडेसुत्ति अपवर्तितवन्तः इहापवर्त्तनं कर्मणां स्थित्यादेरध्यवसायविशेषेण हीनताकरणं, अपवर्तनस्य चोपलक्षणत्वादुवर्तनमपीह दृश्य,
तच्च स्थित्यादेर्वृद्धिकरणस्वरूपं । 'संकामिंसुत्ति संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणं, तथा चाह
"मूलप्रकृत्यभित्राः संक्रमयति गुणतः उत्तराः प्रकृतीः।
नन्वात्माऽमूर्तत्वादध्यवसायप्रयोगेण ॥" अपरस्त्वाह
"मोत्तूण आउयं खलु देसणमोहं चरित्तमोहं च ।
सेसाणं पगईणं उत्तरविहिसंकमो मणिओ॥" एतदेव निदर्शाते यथा कस्यचित्सवेद्यमनुभवतोऽशुभकर्मपरिणतिरेवंविधा जाता येन तदेव सद्वेद्यमसद्वेद्यतया संक्रामतीति, एवमन्यत्रापि योज्यमिति। 'निधत्तिंसुत्ति निधत्तान् कृतवन्तः । इह च विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निधत्तमुच्यते । उद्वर्तनापवर्तनव्यतिरिक्तकरणानामविषयत्वेन कर्मणोऽवस्थानमिति । 'निकाएंसुत्ति निकाचितवन्तः, नितरां बद्धवन्तः इत्यर्थः । निकाचनं च तेषामेव पुद्गलानां परस्परविश्लिष्टानामेकीकरणमन्योऽन्यावगाहिता अग्निप्रतप्तप्रतिहन्यमानशूचीकलापस्येव सकलकरणानामविषयतया कर्मणो व्यवस्थापनमितियावत् । 'भिजंती'त्यादिपदानां संग्रहणी यथा 'भेइय' इत्यादिगाथा गतार्था, नवरं-अपवर्तनसंक्रमनिधत्तनिकाचनपदेषु त्रिविधः कालो निर्देष्टव्यः, अतीतवर्तमानानागतकालनिर्देशेन तानि वाच्यानीत्यर्थः । इह चापवर्त्तनादीनामिव भेदादीनामपि त्रिकालता युक्ता, न्यायस्य समानत्वात्, केवलमविवक्षणान्न तन्निर्देशः सूत्रे कृत इति ।
अथ पुद्गलाधिकारादिदं सूत्रचतुष्टयमाह११२५-२७. 'नेरइयाण मित्यादि, व्यक्तं, नवरं 'तेयाकम्मत्ताए'त्ति तेजःशरीरकार्मणशरीरतया तद्रूपतयेत्यर्थः । 'अतीतकालसमए'त्ति कालस्वरूपः समयो
न तु समाचाररूपः । कालोऽपि समयरूपो न तु वर्णादिस्वरूप इति परस्परेण विशेषणात् कालसमयः । अतीतः कालसमयः अतीतकालस्य चोत्सर्पिण्यादेः समय:-परमनिकृष्टोंऽशोऽतीतकालसमयस्तत्र 'पडुप्पन्न'त्ति प्रत्युत्पन्नो-वर्तमानः, नोऽतीतकालेत्यादौ अतीतानागतकालविषयग्रहणप्रतिषेधो विषयातीतत्वात् । विषयातीतत्वं च तयोविनष्टानुत्पन्नत्वेनासत्त्वादिति । प्रत्युत्पन्नत्वेऽप्यभिमुखान् गृह्णाति नान्यान्, 'गहणसमयपुरक्खडे'त्ति ग्रहणसमयः पुरस्कृतो-वर्तमानसमयस्य पुरोवर्ती येषां ते ग्रहणसमयपुरस्कृताः प्राकृतत्वादेवं निर्देशः अन्यथा पुरस्कृतग्रहणसमया इति स्याद् ग्रहीष्यमाणा इत्यर्थः । उदीरणा च पूर्वकालगृहीतानामेव भवति, ग्रहणपूर्वकत्वादुदीरणायका । अत उक्त-अतीतकालसमयगृहीतानुदीरयन्तीति । गृह्यमाणानां ग्रहीष्यमाणानां चागृहीतत्वादुदीरणाऽभावस्तत उक्तं-'नो पडुप्पन्ने'त्यादि । वेदनानिर्जरासूत्रयोरप्येषेवोपपत्तिरिति ।
अथ कर्माधिकारादेवेयमष्टसूत्री११२९-३२. 'नेरइयाण'मित्यादिळक्ता च नवरं 'जीवाओ किं चलिय'ति जीवप्रदेशेभ्यश्चलितं तेष्वनवस्थानशीलं तदितरत्त्वचलितं तदेव बधाति, यदाह
"कृत्रैर्देशैः स्वकदेशस्वं रागादिपरिणतो योग्यम्।
बध्नाति योगहेतोः कर्म नेहाक्त इव च मलम् ।।" इति एवमुदीरणावेदनाऽपवर्तनासंक्रमणनिधत्तनिकाचनानि भाव्यानि। निर्जरा तु पुद्गलानां निरनुभावीकृतानामात्मप्रदेशेभ्यः सातनम्। सा च नियमाञ्चलितस्य कर्मणो नाचलितस्येति, इह संग्रहणीगाथा-'बंधोदये' त्यादि वितार्था केवलमुदयशब्देनोदीरणा गृहीतेति । उक्ता नारकवक्तव्यता। अथ चतुर्विंशतिदण्डकक्रमागतामसुरकुमारवक्तव्यतामाह'असुरकुमाराण'मित्यादि, तत्रासुरकुमारवक्तव्यता नारकवक्तव्यतावन्नेया यतः 'ठिइऊसासाहारे' इत्यादिगाथोक्तानि सूत्राणि ४० 'परिणयचिए' इत्यादिगाथागृहीतानि६ 'भेइयचिए' इत्यादिगाथागृहीतानि१ - 'बंधोदये'त्यादिगाथागृहीतानि, तदेवं द्विसप्ततिः सूत्राणि नारकप्रकरणोक्तानि त्रयोविंशतावसुरादिप्रकरणेषु समानि। नवरं विशेषोऽयम्-'उक्कोसेणं साइरेगं सागरोवम'मिति यदुक्तं तद्बलिसज्ञमसुरकुमारराजमाश्रित्योक्तं यदाह-चमरबलि सारमहियंति, 'सत्तण्हं थोवाणं ति सप्तानां स्तोकानामुपरीति गम्यते, स्तोकलक्षणं चैवमाचक्षते
१. उवदिसु ख. ग. घ. छ. ओवटेंसु च २. निर्दिस्यते क. ग. घ. ३. निकाइंसु क. ख. ग. घ. च. छ. अंगसुत्ताणि अधिकृत्य एष पाठः स्वीकृतः ।
४. चैषां क. ★ सूत्रचतुष्टयमिति उल्लिखितं वृत्तौ परं अंगसुत्ताणि पुस्तके एवं वेदेति निजरेंतीति द्वयोरेकसूत्रता कृता इति तत्र सूत्रत्रयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org