SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति श.१: उ.१: सू.१५-२३ अथ नैरयिकाऽहाराधिकारात्तद्विषयमेव प्रश्नचतुष्टयमाह१1१६. 'नेरइयाण'मित्यादि, 'पुव्वाहारिय'त्ति ये पूर्वमाहृताः पूर्वकाल एकीकृताः संगृहीताः इतियावत् अभ्यवहता वा 'पोग्गल'त्ति स्कन्धाः 'परिणय' त्ति ते 'परिणताः' पूर्वकाले शरीरेण सह सम्पृक्ताः परिणतिं गता इत्यर्थः । इति प्रथमः प्रश्नः । इह च सर्वत्र प्रश्नत्वं काकुपाठादवगम्यते । तथा 'आहारिय'त्ति पूर्वकाले 'आहताः' संगृहीता--अभ्यवहृता वा, 'आहरिजमाणे'त्ति ये च' वर्तमानकाले 'आह्रियमाणाः' संगृह्यमाणा अभ्यवह्रियमाणा वा पुद्गलाः 'परिणय'त्ति ते परिणता इति द्वितीयः । तथा 'अणाहारिय'त्ति येऽतीतकालेऽनाहृताः 'आहारिजिस्समाणे'त्ति ये चानागते काले आहरिष्यमाणाः पुद्गलास्ते परिणता इति तृतीयः । तथा 'अणाहारिया अणाहारिजिस्समाणा' इत्यादि अतीतानागताहरणक्रियानिषेधाच्चतुर्थः। इह च यद्यपि चत्वार एव प्रश्ना उक्तास्तथाऽप्येते त्रिषष्टिः संभवन्ति, यतः पूर्वाहता आह्रियमाणा आहरिष्यमाणा अनाहता अनाह्रियमाणा अनाहरिष्यमाणाश्चेति षट् पदानीह सूचितानि । तेषु चैकैकपदाश्रयणेन षड्, द्विकयोगे पंचदश, त्रिकयोगे विंशतिः, चतुष्कयोगे पञ्चदश, पञ्चकयोगे षट्, षड्योगे एक इति । अत्रोत्तरमाह-'गोयमे त्यादि व्यक्तं, नवरं ये पूर्वमाहृतास्ते पूर्वकाल एव परिणताः ग्रहणानन्तरमेव परिणामभावात् । ये पुनराहता आह्रियमाणाश्च ते परिणताः, आहतानां परिणामभावादेव, परिणमन्ति च आह्रियमाणानां परिणामभावस्य वर्तमानत्वादिति । वृत्तिकृता तु द्वितीयप्रश्नोत्तरविकल्प एवंविधो दृष्ट:-यदुत आहृता आहरिष्यमाणा पुद्गलाः परिणताः परिणस्यन्ते च । यतोऽयं तेनैवं व्याख्यातः यदुत ये पुनराहता आहरिष्यन्ते पुनस्तेषां केचित् परिणताः परिणताश्च ये संपृक्ताः शरीरेण सह ये तु न तावत् संपृच्यन्ते कालान्तरे तु संपृक्ष्यन्ते ते परिणस्यन्त इति । ये पुनरनाहता आहरिष्यन्ते पुनस्ते नो परिणताः, अनाहतानां संपक्काभावेन परिणामाभावात्, यस्मात्त्वाहरिष्यन्ते ततः परिणस्यन्ते आहतस्यावश्यं परिणामभावादिति । चतुर्थस्त्वतीतभविष्यदाहरणक्रियाया अभावेन परिणामाभावादवसेय इति । एतदनुसारेणैव प्राग्दर्शितविकल्पानामुत्तरसूत्राणि वाच्यानीति। अथ शरीरसंपर्कलक्षणपरिणामात्पुद्गलानां चयादयो भवन्तीति तद्दर्शनार्थं प्रश्नयन्नाह१।१७,१८. 'नेरइयाण'मित्यादि, चयादिसूत्राणिपरिणामसूत्रसमानीतिकृत्वाऽतिदेशतोऽधीतानीति,तथाहि-'जहा परिणया तहा चियावी''त्यादि इह च पुस्तकेषु वाचनाभेदो दृश्यते तत्र न संमोहः कार्यः, सर्वत्राभिधेयस्य तुल्यत्वात्। केवलं परिणतसूत्रानुसारेण प्रश्नसूत्राणि व्याकरणानि च मतिमताऽध्येयानीति। तत्र 'चिताः' शरीरे चयं गताः, उपचिताः पुनर्बहुशः प्रदेशसामीप्येन शरीरे चिता एवेति, उदीरितास्तु स्वभावतोऽनुदितान् पुद्गलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते, उदीरणालक्षणं चेदम् "जं करणेणाकडिय उदए दिजइ उदीरणा एसा ।।" तथा 'वेदिताः' स्वेन रसविपाकेन प्रतिसमयमनुभूयमानाः अपरिसमाप्ताशेषानुभावा इति। तथा निर्जीर्णाः कास्ये नानुसमयमशेषतद्विपाकहानियुक्ता इति। 'गाह'त्ति परिणतादिसूत्राणां संग्रहणाय गाथा भवति, सा चेयम् 'परिणये'त्यादि व्याख्यातार्था । नवरं एकैकस्मिन् पदे परिणतचितोपचितादौ चतुर्विधाः आहृताः, आहृताः आह्रियमाणाश्च, अनाहता आहरिष्यमाणाश्च, अनाहता अनाहरिष्यमाणाश्च, इत्येवं चतूरूपाः पुद्गला भवन्ति, प्रश्ननिर्वचनविषया स्युरिति । पुद्गलाधिकारादेवेमामथदशसूत्रीमाह१११९-२३. 'नेरइयाणं भन्ते ! कतिविहा पोग्गला भिजंती'त्यादि, व्यक्तं,नवरं-'भिजंति'त्ति तीव्रमन्दमध्यतयाऽनुभागभेदेन भेदवन्तो भवन्ति, उद्वर्तन करणापवर्तनकरणाभ्यां मन्दरसास्तीवरसाः तीव्ररसास्तु मन्दरसा भवन्तीत्यर्थः । उत्तरम्-'कम्मदव्ववग्गणमहिगिच्च'त्ति समानजातीयद्रव्याणां राशिव्यवर्गणा, सा चौदारिकादिद्रव्याणामप्यस्तीत्यत आह–कर्मरूपा द्रव्यवर्गणा कर्मद्रव्याणां वा वर्गणा कर्मद्रव्यवर्गणा, तामधिकृत्यतामाश्रित्य, कर्मेद्रव्यवर्गणासत्का इत्यर्थः, कर्मद्रव्याणामेव च मन्देतरानुभावचिन्ताऽस्ति । न द्रव्यान्तराणामितिकृत्वा कर्मद्रव्यवर्गणामधिकृत्येत्युक्तम्, 'अणू चेव बायरा चेव'त्ति चेवशब्दः समुच्चयार्थः । ततश्चाणवश्च बादराश्च, सूक्ष्माश्च स्थूलाश्चेत्यर्थः । सूक्ष्मत्वं स्थूलत्वं चैषां कर्मद्रव्यापेक्षयैवावगन्तव्यं नान्यापेक्षया, यत औदारिकादिद्रव्याणां मध्ये कर्मद्रव्याण्येव सूक्ष्माणीति । एवं चयोपचयोदीरणवेदननिर्जरा" शब्दार्थभेदेन वाच्याः । किन्तु चयसूत्रे उपचयसूत्रे च 'आहारदव्ववग्गणमहिगिच्चे ति यदुक्तं तत्रायमभिप्राय:-शरीरमाश्रित्य चयोपचयौ प्राग् व्याख्यातौ, तौ चाहारद्रव्येभ्यः एव भवतो नान्यतः अत आहारद्रव्यवर्गणामधिकृत्येत्युक्तमिति, उदीरणादयस्तु कर्मद्रव्याणामेव भवन्त्यतस्तत्सूत्रेषूक्तं कर्मद्रव्यवर्गणामधिकृत्येति। १.xख. ग. छ. २. चितावी ख. ग. घ. छ. ३. अहिकिन्च क. ४. चयोपचयोदीरणा ख. ग. छ. ५. वेदनां क. ख. ग. छ. ६. अहिकिच्च क. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003593
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages458
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy