________________
श.१: उ.१: सू.१५
३५४
भगवती वृत्ति 'जाई भते ! सविसए आहारैति ताई किं आणुपुब्बिं आहारेंति अणाणुपुब्बिं आहारेंति ? गोयमा ! आणुपुब्बिं आहारेति नो अणाणुपुदि आहारेंति,' तत्रानुपूर्व्या यथाऽसन्नं नातिक्रम्य । जाई भंते ! आणुपुब्बिं आहारेंति ताई किं तिदिसिं आहारेंति जाव छद्दिसि आहारेति ? गोयमा ! नियमा छद्दिसिं आहारेति । ' इह नारकाणां लोकमध्यवर्तित्वेन षण्णामप्यू दिदिशामलोकेनानावृतत्वात् षट्सु दिक्ष्वाहारग्रहणमस्ति तत उक्त-नियमात् षड्दिशि। दिक्त्रयादिविकल्पास्तु लोकान्तवर्तिषु पृथिवीकायिकादिषु दिशां त्रयस्य द्वयस्य एकस्याश्च अलोकेनावरणे (सति) भवन्तीति । यद्यपि वर्णतः पञ्चवर्णानीत्याधुक्तं तथापि प्राचुर्येण यद्वर्णगन्धादियुतानि द्रव्याण्याहारयन्ति तानि दर्शयति' 'उस्सन्नं कारणं पडुच्च'त्ति बाहुल्यलक्षणं कारणमाश्रित्य, तत्र च प्रकृत्यशुभानुभाव एव कारणमिति। 'वन्नओ कालनीलाइं गंधओ दुब्बिगंधाई रसओ तित्तकडुयरसाई फासओ कक्खडगुरुयसीयलुक्खाई" एतानि च प्रायो मिथ्यादृष्टय एवाहारयन्ति, न तु भविष्यत्तीर्थकरादय इति । अथ तानि यथास्वरूपाण्येव नारका आहारयन्त्यन्यथा वेत्यस्यामाशंकायामभिधीयते–'तेसि पि पोराणे वनगुणे गंधगुणे रसगुणे फासगुणे विष्परिणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धंसइत्ता' विपरिणामादयो विनाशार्थत्वेनैकार्था एव ध्वनयः। 'अन्ने य अपव्वे वन्नगुणे गंधगुणे रसगुणे फासगुणे उप्पाएता आयसरीरोगाढे पोग्गले सव्वप्पणयाए आहारमाहारेंति' 'सव्वप्पणयाए'त्ति सर्वात्मना सर्वैरात्मप्रदेशैरित्यर्थः । व्याख्यातं सूत्रे संग्रहगाथायाः 'किं वाऽहारेंति'त्ति पदम्। अथ 'सव्वओ वा' इति व्याख्यायते-तत्र 'सर्वतः' सर्वप्रदेशै रयिका आहारयन्तीति । वाऽपीति वचनादभीक्ष्णमाहारयन्तीत्यपि वाच्यं, तच्चैवम्'नेरइयाणं भंते ! सव्वओ आहारेंति सव्वओ परिणामेति सव्वओ ऊससंति सव्वओ नीससंति अभिक्खणं आहारेंति अभिक्खणं परिणामेति अभिक्खणं ऊससंति अभिक्खणं नीससंति आहच्च आहारेंति, आहच्च परिणामेंति आहच्च ऊससंति आहच्च नीससंति ? हंता गोयमा ! नेरइया सव्वओ आहारेति .......।' 'सव्वओ'त्ति सर्वात्मप्रदेशैः 'अभिक्खणं ति अनवरतं पर्याप्तत्वे सति 'आहच्चे'ति कदाचित्-न सर्वदा अपर्याप्तकावस्थायामिति। तथा 'कइभागं'ति आहारतयोपात्तपुद्गलानां कतिथं भागमाहारयन्ति इति वाच्यं, तच्चैवं-'नेरइयाणं भंते ! जे पोग्गले आहारत्ताए गिण्हति ते णं तेसिं पोग्गलाणं सेयालंसि कइभागमाहारेंति ? कइभागं आसाइंति ? गोयमा ! असंखेजइभागं आहारेंति अणंतभागं आसाइंति' 'सेयालंसिंति एष्यत्काले ग्रहणकालोत्तरकालमित्यर्थः । 'असंखेजइभागमाहारेंति' इत्यत्र केचिद् व्याचक्षते-गवादिप्रथमबृहद्ग्रासग्रहण इव काश्चिद् ग्रहीतासंख्येयभागमात्रान् पुद्गलानाहारयन्ति तदन्ये तु पतन्तीति । अन्ये त्वाचक्षते-ऋजुसूत्रनयदर्शनात् स्वशरीरतया परिणतानामसंख्येयभागमाहारयन्ति, ऋजुसूत्रो हि गवादिप्रथमग्रासग्रहणमिव गृहीतानां शरीरत्वेनापरिणतानामाहारतां नेच्छति, शरीरतया परिणतानामपि केषाञ्चिदेव विशिष्टाहारकार्यकारिणां तामभ्युपगच्छति शुद्धनयत्वात्तस्येति । अन्ये पुनरित्थमभिदधति 'असंखेजइभागमाहारेंति'त्ति शरीरतया परिणमंति, शेषास्तु किट्टीभूय मनुष्याभ्यवहताहारवन्मलीभवन्ति, न शरीरत्वेन परिणमन्तीत्यर्थः। 'अणंतभागं आसाइंति'त्ति आहारतया गृहीतानामनन्तभागमास्वादयन्ति तद्रसादीन् रसनादीन्द्रियद्वारेणोपलभन्ते इत्यर्थः।। 'सव्वाणि' व ति दारं, तत्र सर्वाण्येवाहारद्रव्याण्याहारयन्तीति वाच्यं । वाशब्दः समुच्चये, तच्चैवम्-'नेरइया णं भंते ! जे पोग्गले आहारत्ताए परिणमेति ते किं सव्वे आहारेति ? णो सव्वे आहारेति ? गोयमा ! सव्वे अपरिसेसिए आहारेंति।' इह विशिष्टग्रहणगृहीता आहारपरिणामयोग्या एव ग्राह्याः, उज्झितशेषा इत्यर्थः । अन्यथा पूर्वापरसूत्रयोर्विरोधः स्यात्, इष्टा चैवं व्याख्या; यदाह
"जं जह सुत्ते भणियं तहेव बइ तं वियालणा नत्थि ।
किं कालियाणुओगो दियो दिदिष्पहाणेहिं॥" 'कीस व भुजो परिणमंति'त्ति द्वारगाथापदम् तत्र 'कीस'त्ति पदावयवे पदसमुदायोपचारात् कीसत्ताएत्ति दृश्यं, किंस्वतया-किंस्वभावतया कीदृशतया वा केन प्रकारेण किंरूपतयेत्यर्थः । वाशब्दः समुच्चये। 'भुजो'त्ति 'भूयोभूयः' पुनः पुनः परिणमन्ति आहारद्रव्याणीति प्रकृतमित्येतदत्र वाच्यं, तच्चैवं--'नेरइया णं भंते ! जे पोग्गले आहारत्ताए गेण्हंति' ते णं तेसिं पोग्गला कीसत्ताए भुजो भुजो परिणमंति? गोयमा ! सोइंदियत्ताए जाव फासिंदियत्ताए अणिठ्ठत्ताए अकंतत्ताए अप्पियत्ताए अमणुण्णताए अमणामत्ताए अणिच्छियत्ताए अभिज्झियत्ताए अहत्ताए नो उडदत्ताए दुक्खत्ताए नो सुहत्ताए एएसिं भुजो भुजो परिणमंति ।' तत्र ‘अनिष्टतया' सदैव तेषां सामान्येनावल्लभतया, तथा 'अकान्ततया' सदैव तद्भावेनाकमनीयतया, तथा 'अप्रियतया' सर्वेषामेव द्वेष्यतया, तथा 'अमनोज्ञतया' कथयाऽप्यमनोरमतया, तथा 'अमनोऽम्यतया'चिन्तयाऽपि अमनोगम्यतया, तथा 'अनीप्सिततया आप्तुमनिष्टतया। एकार्था वैते शब्दाः । 'अभिज्झियत्ताए"त्ति अभिध्येयतया तृप्तेरनुत्पादकत्वेन पुनरप्यभिलाषनिमित्ततया । अहृद्यत्वेनेत्यन्ये अशुभत्वेनेत्यर्थः । 'अहत्ताए'त्ति गुरुपरिणामतया' नो उद्दत्ताए'त्ति नो लघुपरिणामतयेति सङ्ग्रहगाथार्थः । इदं च सङ्ग्रहणीगाथाविवरणसूत्रं, क्वचित् सूत्रपुस्तक एव दृश्यत इति ।
१ते तद् च. छ. २. ओसन्न क. ३. गरुय क. ग. च. छ.
४. गिण्हंति ग. घ. ५. श्चैते ख. ग. घ. च. ६. अहिझियत्ताए क. छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org