________________
श. १: उ.१०: सू.४४३-४४७
३६४
विषमस्नेहात्संहन्येते, इदं च परमतानुवृत्त्योक्तम्, अन्यथा रूक्षावपि रूक्षत्ववैषम्ये संहन्येते एव, यदाह" समनियाए बंघो न होइ समलुक्खयाए वि न होइ । मायनिक्खत्तणेण बन्धो उ खंघाणं ॥ "
'खंधेवि य णं से असासए'त्ति उपचयापचयिकत्वात्, अत एवाह - 'सया समियमित्यादि । ।
'पुव्विं भाषा अभास 'त्ति भाष्यत इति भाषा भाषणाच्च पूर्वं न भाष्यते इति न भाषेति 'भासिजमाणी भासा भास 'त्ति शब्दार्थोपपत्तेः 'भासिया अभास 'त्ति शब्दार्थवियोगात् ।
'पुव्विं किरिया अदुक्ख 'त्ति करणात्पूर्वं क्रियैव नास्तीत्यसत्त्वादेव च न दुःखा । सुखापि नासौ, असत्त्वादेव, केवलं परमतानुवृत्त्याऽदुःखेत्युक्तं 'जहा भास 'त्ति वचनात्। ‘कज्ज्रमाणी किरिया दुक्खा' सत्त्वात्, इहापि यत्क्रियमाणा क्रिया दुःखेत्युक्तं तत्परमतानुवृत्त्यैव, अन्यथा सुखा क्रियमाणैव क्रिया, तथा 'किरियासमयवितिक्कंतं च ण'मित्यादि दृश्यमिति ।
'किच्चं दुक्ख’मित्यादि, अनेन च कर्म्मसत्ताऽवेदिता, प्रमाणसिद्धत्वादस्य, तथाहि - इह यदुद्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य दुःखलक्षणं फलमन्यस्येतरत् न तद्विशिष्टहेतुमन्तरेण संभाव्यते, कार्यत्वाद्, घटवत् । यश्चासौ विशिष्थे हेतुः स कर्मेति, आह च—
पुनरप्यन्ययूथिकान्तरमतमुपदर्शयन्नाह—
१। ४४४. ‘अण्णउत्थिया ण 'मित्यादि । तत्र च 'इरियावहियं ति ईर्या — गमनं तद्विषयः पन्था - मार्ग ईर्यापथस्तत्र भवा ऐर्यापथिकी, केवलकाययोगप्रत्ययः कर्मबन्ध इत्यर्थः । 'संप राइयं च त्ति संपरैति - परिभ्रमति प्राणी भवे एभिरिति संपरायाः कषायास्तप्रत्यया या सा साम्परायिकी, कषायहेतुकः कर्मबन्ध इत्यर्थः । ‘परउत्थियवत्तव्वं यव्वं 'ति इह सूत्रेऽन्ययूथिकवक्तव्यं स्वयमुच्चारणीयं ग्रन्थगौरवभयेनालिखितत्वात्तस्य, तच्चेदम्- 'जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ, इरियावहियापकरणयाए संपराइयं पकरेइ, संपराइयपकरणयाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ, तंजहा - इरियावहियं च संपराइयं चे 'ति ।
‘ससमयवत्तव्वयाए णेयव्वं' सूत्रमिति गम्यं, सा चैवम्—
" जो तुल्लसाहणाणं फले विसेसो ण सो विणा हे । कत्तणाओ गोयम ! घडो व्व हेऊ य से कम्मं ॥ " ति ।
१। ४४५. ‘से कहमेयं भंते ! एवं ? गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव संपराइयं च जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि४–एवं खलु एगे जीवे एगेणं समएणं एवं किरियं पकरेइ तंजहा' इत्यादि पूर्वोक्तानुसारेणाध्येयमिति । मिध्यात्वं चास्यैवम्ऐर्यापथिकी क्रियाऽकषायोदयप्रभवा इतरा तु कषायप्रभवेति कथमेकस्यैकदा तयोः संभवः ? विरोधादिति ।
अनन्तरं क्रियोक्ता, क्रियावतां चोत्पादो भवतीत्युत्पादविरहप्ररूपणायाह---
साचेयम्
१ । ४४६. 'निरयगई 'त्यादि ।
१ । ४४७. 'वक्कंतीपयं 'ति व्युत्क्रान्तिः -- जीवानामुत्पादस्तदर्थं पदं - प्रकरणं व्युत्क्रान्तिपदं तच्च प्रज्ञापनायां षष्ठं, तच्चार्थलेशत एवं द्रष्टव्यं - पञ्चेन्द्रियतिर्यग्गतौ मनुष्यगतौ देवगतौ चोत्कर्षतो द्वादशमुहूर्त्ताः जघन्यतस्त्वेकसयम उत्पादविरह इति, तथा—
तिर्यग्गतौ च विरहकालो यथा
Jain Education International
" चउवीसई मुहुत्ता १ सत्त अहोरत २ तह य पण्णरस३ । मासो य ४ दो य ५ चउरो ६ छम्मासा ७ विरहकालो उ ॥
भगवती वृत्ति
उकोसो रयणासु सब्बासु जहण्णओ भवे समओ । एमेव व उब्वट्टण संखा पुण सुरवरा तुल्ला ॥
"
" एगो य दो य तिण्णि य संखमसंखा व एगसमएणं । उववजंतेवइया उब्बतावि एमेव ॥"
“ मिन्त्रमुहुत्तो विगलिंदियाण संमुच्छिमाण व तहेव । बारस मुहुत्त गमे उक्कोस जहन्नओ समओ | "
एकेन्द्रियाणां तु विरह एव नास्ति, मनुष्यगतौ तु
"बारस मुहुत्त गब्मे मुहुत्तं संमुच्छिमे चउव्वीसं । उक्कोस विरहकालो दोसुवि य जहन्नओ समओ ॥ "
For Private & Personal Use Only
www.jainelibrary.org