SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श.१: उ.१: सू.१२-१५ ३५२ भगवती वृत्ति 'उत्पद्यमानकाल'मित्यनेनाद्यसमवादारभ्योत्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद्वर्त्तमानभविष्यत्कालविषयं द्रव्यमुक्तम्। उत्पन्नमित्यनेन त्यतीतकालविषयम् । एवं विगतं विगच्छदित्यनेनापीति। ततश्चोत्पद्यमानादि प्रज्ञापयन् भगवान्' द्रव्यं विशेषयति, कथं ? त्रिकालविषयं यथा भवतीति संवादगाथार्थः। अन्ये तु कर्मेतिपदस्य सूत्रेऽनभिधानाच्चलनादिपदानि सामान्येन व्याख्यान्ति, न कम्मपिक्षयैव, तथाहि-'चलमाणे चलिए'त्ति इह चलनम्अस्थिरत्वपर्यायेण वस्तुन उत्पादः । 'वेइज्जमाणे वेइए'त्ति 'व्येजमान कम्पमानं, 'व्येजितं' कम्पितम्, 'एज़ कम्पने' इति वचनात् । व्येजनमपि तद्रूपापेक्षयोत्पाद एव । 'उदीरिजमाणे उदीरिए'त्ति इहोदीरणं स्थिरस्य सतः प्रेरणं, तदपि चलनमेव । 'पहिजमाणे पहीणे' त्ति 'प्रहीयमाण' प्रभ्रश्यत् परिपतदित्यर्थः 'प्रहीणं' प्रभ्रष्टं परिपतितमित्यर्थः, इहापि प्रहाणं१ चलनमेव, चलनादीनां चैकार्थत्वं सर्वेषां गत्यर्थत्वात्। 'उप्पन्नपक्खस्स'त्ति चलत्वादिना पर्यायेणोत्पन्नत्वलक्षणपक्षस्याभिधायकान्येतानीति । तथा छेदभेददाहमरणनिर्जरणान्यकर्थािन्यपि व्याख्येवानि, तद्व्याख्यानं च प्रतीतमेव भिन्नार्थता पुनरेषामेवं-कुठारादिना लतादिविषयश्छेदः, तोमरादिना शरीरादिविषयो भेदः, अग्निना दादिविषयो दाहः, मरणं तु प्राणत्यागः, निर्जरा तु अतिपुराणीभवनमिति। 'विगयपक्खस्स'त्ति भिन्नार्थान्यपि सामान्यतो विनाशाभिधायकान्येतानीत्यर्थः । न च वक्तव्यं-किमेतैश्चलनादिभिरिह निरूपितैः ? अतत्त्वरूपत्वादेषाम् । अतत्त्वरूपत्वस्यासिद्धत्वात्, तदसिद्धिश्च निश्चयनयमतेन वस्तुस्वरूपस्य प्रज्ञापयितुमारब्धत्वात् तथाहि-व्यवहारनयश्चलितमेव चलितमिति मन्यते, निश्चयनयः चलदपि चलितमिति । अत्र च बहुवक्तव्यं तच्च विशेषावश्यकादिहैवाभिधास्वमानजमालिचरिताद्वाऽव सेयमिति।' इहाद्ये प्रश्नोत्तरसूत्रद्वये मोक्षतत्त्वं चिन्तितम् । मोक्षः पुनर्जीवस्य । जीवाश्च नारकादयश्चतुर्विंशतिविधाः, यदाह "नेरइया असुराई पुढवाई बेदियादओ चेव। पंचिंदियतिरियनरा वंतर जोइसिय वेमाणी ।।" तत्र नारकांस्तावत् स्थित्यादिभिश्चिन्तयन्नाह१।१३. 'नेरइयाण'मित्यादि, निर्गतम् अयम्-इष्टफलम् कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिका नारकास्तेषां नैरयिकाण "भंते!'त्ति भदन्त! केवइयकालं ति 'कियांश्चासौ कालश्चेति कियत्कालस्तं कियत्कालं यावत् 'ठिती' त्तिआयुःकर्मवशान्नरकेऽवस्थानं 'पन्नत्त'त्ति 'प्रज्ञप्ता'प्ररूपिता भगवद्भिरन्यतीर्थकरैश्चेति प्रश्नः। 'गोयमे'त्यादि निवर्चनं व्यक्तमेव, नवरं 'दस वाससहस्साईति प्रधमपृथिवीप्रधमप्रस्तटापेक्षया' तेत्तीसं सागरोवमाईति सप्तमपृथिव्यपेक्षयेति । मध्यमा तु जघन्यापेक्षया समयाद्यधिका सामर्थ्यगम्येति । अनन्तरं नारकाणां स्थितिरुक्ता। ते चोच्छ्वासादिमन्तः इत्युच्छ्वासादिनिरूपणायाह१।१४. 'नेरइयाण'मित्यादि, व्यक्तं, नवरं 'केवइकालस्स'त्ति प्राकृतशैल्या कियत्कालात् कियता कालेनेत्यर्थः । 'आणमंति'त्ति आनन्ति 'अन प्राणने' इति धातुपाठात् मकारस्यागमिकत्वात् । 'पाणमंति'त्ति प्राणति । वाशब्दौ समुच्चयार्थी एतदेव 'द्वयं क्रमेणार्थतः स्पष्टयन्नाह-ऊससंति वा णीससंति वत्ति यदेवोक्तमानन्ति तदेवोक्तमुच्छ्वसन्तीति, तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निःश्वसन्तीति, अथवा आनमन्ति प्राणमन्तीति ‘णमु प्रह्वत्वे' इत्यस्यानेकार्थत्वेन श्वसनार्थत्वात्। अन्येत्वाह:-'आनन्ति वा प्राणन्ति वा' इत्यनेनाध्यात्मक्रिया परिगृह्यते, 'उच्छ्वसन्ति वा निःश्वसन्ति वा' 'इत्यनेन च बाह्येति । 'जहा ऊसासपए' त्ति एतस्य प्रश्नस्य निर्वचनं यथा उच्छ्वासपदे प्रज्ञापनायाः सप्तमपदे । तथा वाच्यं तच्चेदम्-'गोयमा ! सययं संतयामेव आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा' इति, तत्र सततम् अनवरतम्, अतिदुःखिता हि ते, अतिदुःखव्याप्तस्य च निरन्तरमेवोच्छ्वासनिःश्वासौ दृश्येते, सततत्वं च प्रायोवृत्त्याऽपि स्यादित्यत आह-संतयामेव'त्ति सन्ततमेव नैकसमयेऽपि तद्विरहोऽस्तीति भावः । दीर्घत्वं चेह प्राकृतत्वात् । आनमन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थम् । गुरुभिराद्रियमाणवचना हि शिष्याः संतोषवन्तो भवन्ति । तथा च पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चादेयवचना भवन्ति । तथा च भव्योपकारस्तीर्थाभिवृद्धिश्चेति । अथ तेषामेवाहारं प्रश्नयन्नाह१११५. 'णेरइयाण'मित्यादि, व्यक्तं, नवरम् ‘आहारढि'त्ति आहारमर्थयन्ते-प्रार्थयन्त इत्येवंशीलाः। अर्थो वा-प्रयोजनमेषामस्तीत्यर्थिनः ‘आहारेण भोजनेनार्थिन" 'आहारस्य-भोजनस्य वाऽर्थिन" आहारार्थिनः । 'जहा पन्नवणाए'त्ति 'आहारट्टी' इत्येतत्पदप्रभृति यथा प्रज्ञापनायाश्चतुर्थोपाङस्य 'पढमए'त्ति आद्ये 'आहारउद्देसए'त्ति आहारपदस्याष्टाविंशतितमस्योद्देशकः पदशब्दलोपाच्चाहारोद्देशकः तत्र भणितं 'तथा भाणिय'ति तेन प्रकारेण वाच्यमिति। तत्र च नारकाहारवक्तव्यतायां बहूनि द्वाराणि भवन्ति, तत्संग्रहार्थं पूर्वोक्तस्थित्युच्छ्वासलक्षणद्वारद्वयदर्शनपूर्विकां गाथामाह १. स भगवान् क.ख. २. प्रहीणं ख. ग. च. ३. निश्चयस्तु क. ख. ग. च. छ. ४. चरिताच्चा क. ग. घ. ५. विदियादाओ ग. ६. तह य. ख. ग. च. ७. कवइकाल क. ग. च. ८. नीससंति ख. ग. च. ६.दुःखव्याप्तस्य ख. ग. घ. च. छ. १०.xख. ग. छ. ११.४ च. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003593
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages458
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy