________________
भगवती वृत्ति
३५१
श. १: उ.१: सू.१२
१।१२. एए णं भंते ! इत्यादि व्यक्तं, नवरम् 'एगट्ट 'त्ति 'एकार्थानि ' अनन्यविषयाणि एकप्रयोजनानि वा । 'नाणाघोसो' त्ति इह घोषाः – उदात्तादयः । 'नाणावंजण 'त्ति इह व्यञ्जनानि - अक्षराणि । 'उदाहु'त्ति उताहो निपातो विकल्पार्थः । 'नाणट्ट 'त्ति भिन्नाभिधेयानि । इह च चतुर्भङ्गी पदेषु दृष्टा,
तत्र
कानिचिदेकार्थानि एकव्यञ्जनानि यथा क्षीरं क्षीरमित्यादीनि तथाऽन्यानि एकार्थानि नानाव्यञ्जनानि यथा क्षीरं पय इत्यादीनि, तथाऽन्यान्यनेकार्थान्येकव्यञ्जनानि यथाऽर्कगव्यमाहिषाणि क्षीराणि तथाऽन्यानि नानार्थानि नानाव्यञ्जनानि यथा घटपटलकुटादीनि ।
तदेवं चतुर्भङ्गीसंभवेऽपि द्वितीयचतुर्थभङ्गकौ' प्रश्नसूत्रे गृहीतौ परिदृश्यमाननानाव्यञ्जनता तदन्ययोरसम्भवात् । निर्वचनसूत्रे तु चलनादीनि चत्वारि पदान्याश्रित्य द्वितीयः, छिद्यमानादीनि तु पञ्च पदान्याश्रित्य चतुर्थ इति ।
ननु चलनादीनामर्थानां व्यक्तभेदत्वात् कथमाद्यानि चत्वारि पदान्येकार्थानि ? इत्याशंक्याह – 'उप्पन्नपक्खस्स 'त्ति उत्पन्नमुत्पादो, भावे क्लीबे क्तप्रत्ययविधानात्, तस्य पक्षः - परिग्रहोऽङ्गीकारः 'पक्ष परिग्रहे' इति धातुपाठादिति उत्पन्नपक्षः । इह च षष्ट्यास्तृतीयार्थत्वाद् उत्पन्नपक्षेणउत्पादाङ्गीकारेण उत्पादाख्यं पर्यायं परिगृह्य एकार्थान्येतान्युच्यन्ते ।
अथवा ‘उत्पन्नपक्षस्य’ उत्पादाख्यवस्तुविकल्पस्याभिधायकानीति शेषः सर्वेषामेषामुत्पादमाश्रित्यैकार्थकारित्वादेकान्तर्मुहूर्त्तमध्यभावित्वेन तुल्यकालत्वाच्चैकार्थिकत्वमिति भावः । स पुनरुत्पादाख्यः पर्यायो विशिष्टः केवलोत्पादः एव । यतः कर्मचिन्तायां कर्मणः प्रहाणेः फलद्वयं केवलज्ञानमोक्षप्राप्ती । तत्रैतानि पदानि केवलोत्पादविषयत्वादेकार्थान्युक्तानि । यस्मात् केवलज्ञानपर्यायो जीवेन न कदाचिदपि प्राप्तपूर्वः यस्माच्च प्रधानस्ततस्तदर्ध एव पुरुषप्रयासः, तस्मात् स एव केवलज्ञानोत्पत्तिपर्यायोऽभ्युपगतः ।
एषां च पदानामेकार्थानामपि सतामयमर्थः सामर्थ्यप्रापितक्रमः, यदुत - पूर्वं तच्चलति — उदेतीत्यर्थः, उदितं च वेद्यते अनूभूयत इत्यर्थः । तच्च द्विधा-स्थितिक्षयादुदयप्राप्तं उदीरणया चोदयमुपनीतं, ततश्चानुभवानन्तरं तत् प्रहीयते, दत्तफलत्वाजीवादपयातीत्यर्थः । एतच्च टीकाकारमतेन व्याख्यातम् ।
अन्ये तु व्याख्यान्ति-स्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वादेकार्थिकान्येतानि केवलोत्पादपक्षस्य च साधकानीति ।
चत्वारि चलनादीनि पदान्येकार्थकानीत्युक्ते शेषाण्यनेकार्थकानीति सामर्थ्यादवगतमपि सुखावबोधाय साक्षात्प्रतिपादयितुमाह- 'छिमाणे ' इत्यादि व्यक्तं, नवरं 'णाणट्ट 'त्ति नानार्थानि, नानार्थत्वं त्वेवं छिद्यमानं छिन्नमित्येतत्पदं स्थितिबन्धाश्रयं यतः सयोगिकेवली अन्तकाले योगनिरोधं कर्तुकामो वेदनीयनामगोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितिकानां सर्वापवर्त्तनयाऽऽन्तमौहूर्त्तिकं स्थितिपरिमाणं करोति ।
तथा ‘भिद्यमानं भिन्न’मित्येतत्पदमनुभागबन्धाश्रयं तत्र च यस्मिन् काले स्थितिघातं करोति तस्मिन्नेव काले रसघातमपि करोति । केवलं रसधातः स्थितिखण्डकेभ्यः क्रमप्रवृत्तेभ्योऽनन्तगुणाभ्यधिकः । अतोऽनेन रसघातकरणेन पूर्वस्माद्भिन्नार्थं पदं भवति ।
तथा ‘दह्यमानं दग्ध’मित्येतत्पदं प्रदेशबन्धाश्रयं, प्रदेशबन्धस्त्वनन्तानन्तप्रदेशानां स्कन्धानां कर्म्मत्वापादनं । तस्य च प्रदेशबन्ध कर्म्मण; सत्कानां पञ्चह्रस्वाक्षरोच्चारणकालपरिमाणयाऽसंख्यातसमयया गुणश्रेणीरचनया पूर्वरचितानां शैलेश्यवस्थाभाविसमुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारभ्य यावदन्त्यसमयस्तावव्यतिसमयं क्रमेणासंख्येयगुणवृद्धानां कर्मपुद्गलानां दहनं - दाहः । अनेन च दहनार्थेनेदं पूर्वस्मात्पदाद्भिन्नार्थं पदं भवति । दाहश्चान्यत्रान्यथा रूढोऽपीह मोक्षचिन्ताऽधिकारान्मोक्षसाधन उक्तलक्षणकर्मविषय एव ग्राह्य इति ।
तथा म्रियमाणं मृतमित्येतत्पदमायुः कर्म्मविषयम् । यतः आयुष्कपुद्गलानां प्रतिसमयं क्षयो मरणम्, अनेन च मरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थं पदं भवति। तथा 'म्रियमाणं मृत मित्यनेनायुः कर्मैवोक्तं यतः कर्मैव तिष्ठज्जीवतीत्युच्यते, कर्मैव च जीवादपगच्छत् म्रियत इत्युच्यते । तच्च मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगन्तव्यम् । यतः संसारवर्त्तीनि मरणानि अनेकशोऽनुभूतानि दुःखरूपाणि चेति, किं तैः ? इह पुनः पदेऽपुनर्भवमरणमन्त्यं सर्वकर्म्मक्षयसहचरितमपवर्गहेतुभूतमिति विवक्षितमिति ।
तथा 'निर्जीर्यमाणं निर्जीर्ण' मित्येतत्पदं सर्वकर्माभावविषयं यतः सर्वकर्मनिर्जरणं न कदाचिदप्यनुभूतपूर्वं जीवेनेति, अतोऽनेन सर्वकर्माभावरूपनिर्जरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थं पदं भवति ।
अथैतानि पदानि विशेषतो नानार्थान्यपि सन्ति सामान्यतः कस्य पक्षस्याभिधायकतया प्रवृत्तानीत्यस्यामाशङ्कायामाह 'विगयपक्खस्स 'त्ति विगतं विगमो - वस्तुनोऽवस्थान्तरापेक्षया विनाशः, स एव पक्षी - वस्तुधर्मः तस्य वा पक्षः परिग्रहो विगतपक्षस्तस्य विगतपक्षस्य वाचकानीति शेषः, विगतत्व' त्विहाशेषकर्म्माभावोऽभिमतो, जीवेन तस्याप्राप्तपूर्वतयाऽत्यन्तमुपादेयत्वात् तदर्थत्वाच्च पुरुषप्रयासस्येति । एतानि चैवं विगमार्थानि ' भवन्ति । छिद्यमानपदे हि स्थितिखण्डनं विगम उक्तः, भिद्यमानपदे त्वनुभावभेदो विगमः, दह्यमानपदे त्वकर्मताभवनं विगमः, म्रियमाणप पुनरायुःकर्माभावो विगमः, निर्जीर्यमाणपदे त्वशेषकर्माभावो विगमः उक्तः । तदेवमेतानि विगतपक्षस्य प्रतिपादकानीत्युच्यन्ते ।
एवं च यत्पञ्चमाङ्गादिसूत्रोपन्यासे प्रेरितं यदुत - केनाभिप्रायेणेदं सूत्रमुपन्यस्तमिति, तत् केवलज्ञानोत्पादसर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतमिति । एतत्सूत्रसंवादिसिद्धसेनाचार्योऽप्याह-
१. चतुर्थी ख ग घ च छ .
२. x घ. च
३. x ख. ग. घ.
Jain Education International
"उपजमाणकालं उप्पण्णं विगययं विगच्छंतं ।
दवियं पण्णवयंतो तिकालविसयं विसेसेइ ||" इति
४. विगतं ग. घ. च. छ.
५. विगतार्थानि ग.
For Private & Personal Use Only
www.jainelibrary.org