________________
श.१: उ.१: सू.११
३५०
भगवती वृत्ति तस्याः क्रियाया वैयर्थमभविष्यत् निष्फलत्वाद् । उत्पाद्योत्पादनार्था हि क्रियाः भवन्ति, यथा च प्रथमे क्रियाक्षणे नासावुत्पन्नस्तथोत्तरेष्वपि क्षणेष्वनुत्पन्न एवासौ प्राप्रोति । को ह्युत्तरक्षणक्रियाणामात्मनि रूपविशेषो ? येन प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते। अतः सर्वदैवानुत्पत्तिप्रसङ्गः, दृष्टा चोत्पत्तिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनाद् । अतः प्रथमतन्तुप्रवेशकाल एव किञ्चिदुत्पन्न पटस्य,यावच्चोत्पन्नं न तदुत्तरक्रिययोत्पाद्यते। यदि पुनरुत्पाद्येत तदा तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात् । यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुक्रमणं युज्येत' नान्यथा, तदेवं यथा पट उत्पद्यमान एवोत्पन्नस्तथैवा- संख्यातसमयपरिमाणत्वादुदयावलिकाया आदिसमयाप्रभृति चलदेव कर्म चलितं, कथं ? यतो यदि हि तत्कर्म चलनाभिमुखीभूतमुदयावलिकाया आदिसमय एव न चलितं स्यात्तदा तस्याद्यस्य चलनसमयस्य वैयर्थ्यं स्यात्, तत्राचलितत्वात् यथा च तस्मिन् समये न चलितं तथा द्वितीयादिसमयेष्वपि न चलेत, को हि तेषामात्मनि रूपविशेषो ? येन प्रथमसमये न चलितमुत्तरेषु चलतीति, अतः सर्वदैवाचलनप्रसङ्गः, अस्ति चान्त्यसमये चलनं, स्थितेः परिमितत्वेन कर्माभावाभ्युपगमाद्, अत आवलिकाकालादिसमय एव किञ्चिच्चलितं, यच्च तस्मिंश्चलितं तत्रोत्तरेषु समयेषु चलति, यदि तु तेष्वपि तदेवाद्यं चलनं भवेत्तदा तस्मिन्नैव चलने सर्वेषामुदयावलिकाचलनसमयानां क्षयः स्यात् । यदि हि तत्समयचलननिरपेक्षाण्यन्यसमयचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा, तदेवं चलदपि तत्कर्म चलितं भवतीति । तथा 'उदीरिजमाणे उदीरिए'त्ति, उदीरणा नाम उदयाप्राप्तं चिरेणाऽऽगामिना कालेन यद्वेदयितव्यंर' कर्मदलिकं तस्य विशिष्यध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं सा चासंख्येयसमयवर्तिनी तया च पुनरुदीरणया उदीरणाप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोक्तपटदृष्टान्तेनोदीरितं
भवतीतष्योदये प्रक्षेपणं साचा पदारणा नाम उदयाप्राप्तं चिर
तथा 'वेइज्जमाणे वेइए'त्ति वेदनं-कर्मणो भोगः, अनुभव इत्यर्थः, तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मणः उदीरणाकरणेन चोदयमुपनीतस्य भवति। तस्य च वेदनाकालस्यासंख्येयसमयत्वादाद्यसमये वेद्यमानमेव वेदितं भवतीति । तथा 'पहिजमाणे पहीणे'त्ति, प्रहाणं तु-जीवप्रदेशैः सह संश्लिष्टस्य कर्मणस्तेभ्यः पतनम्, एतदप्यसंख्येयसमयपरिमाणमेव, तस्य तु प्रहाणस्यादिसमये प्रहीयमाणं कर्म प्रहीणं स्यादिति । तथा 'छिञ्जमाणे छिन्ने'त्ति, छेदनं तु-कर्मणो दीर्घकालानां स्थितीनां ह्रस्वताकरणम् । तच्चापवर्त्तनाभिधानेन करणविशेषेण करोति । तदपि च छेदनमसंख्येयसमयमेव, तस्य त्वादिसमये स्थितितश्छिद्यमानं कर्म छिन्नमिति । तथा 'भिज्जमाणे भिन्ने'त्ति भेदस्तु-कर्मणः शुभस्याशुभस्य वा तीव्ररसस्यापवर्तनाकरणेन मन्दताकरणम् मन्दस्य चोद्वर्तनाकरणेन तीव्रताकरणम् । सोऽपि चासंख्येयसमय एव, ततश्च तदाद्यसमये रसतो भिद्यमानं कर्म भिन्नमिति । तथा 'डज्झमाणे दहे'त्ति दाहस्तु-कर्मदलिकदारूणां ध्यानाग्निना तद्रूपापनयनमकर्मत्वजननमित्यर्थः। यथा हि काष्ठस्याग्निना दग्धस्य काष्ठरूपापनयनं भस्मात्मना च भवनं दाहस्तथा कर्मणोऽपीति । तस्याप्यन्तर्मुहूर्तवर्तित्वेनासंख्येयसमयस्यादिसमये दह्यमानं कर्म दग्धमिति । तथा 'मिजमाणे मडे' म्रियमाणमायुःकर्ममृतमिति व्यपदिश्यते । मरणं ह्यायुःपुद्गलानां क्षयः, तच्चासंख्येयसमयवर्ति भवति। तस्य च जन्मनः प्रथमसमयादारभ्यावीचिकमरणेनानुक्षणं मरणस्य भावान्नियमाणं मृतमिति। तथा 'निजरिजमाणे निजिण्णे'त्ति, निर्जीर्यमाणं-नितरामपुनर्भावेन क्षीयमाणं कर्म निर्जीणं-क्षीणमिति व्यपदिश्यते। निर्जरणस्यासंख्येयसमयभावित्वेन तत्प्रथमसमय एव पटनिष्पत्तिदृष्टान्तेन निर्जीर्णत्वस्योपपद्यमानत्वादिति । पटदृष्यन्तश्च सर्वपदेषु सभावनिको वाच्यः। तदेवमेतान्नव प्रश्नान् गौतमेन भगवता भगवान् महावीरः पृष्टः सन्नुवाच-'हते'त्यादि । अथ कस्माद् भगवन्तं' गौतमः पृच्छति ? विरचितद्वादशाङ्गतया विदितसकलश्रुतविषयत्वेन निखिलसंशयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य, आह च
"संखाईए उ मवे साहइ जं वा परो उ पुच्छेजा।
ण यणं अणाइसेसी वियाणई एस छउमत्यो ।। त्ति, नैवम्, उक्तगुणत्वेऽपि छद्मस्थतयाऽनाभोगसम्भवात्, यदाह
"न हि नामानामोगग्रस्थस्येह कस्यचित्रास्ति ।
यस्माज्जानावरणं ज्ञानावरणप्रकृति कर्म।।'' इति । अथवा जानत एव तस्य प्रश्नः संभवति । स्वकीयबोधसंवादनार्थमज्ञलोकबोधनार्थं शिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थं सूत्ररचनाकल्पसंपादनार्थं वेति। तत्र 'हंता गोयमे'त्ति, हन्तेति कोमलामंत्रणार्थः, दीर्घत्वं च मागधदेशीप्रभवमुभयत्रापि । 'चलमाणे' इत्यादेः प्रत्युच्चारणं तु चलदेव चलितमित्यादीनां स्वानुमतत्वप्रदर्शनार्थम्। वृद्धाः पुनराहु:-'हंता गोयमा' इत्यत्र 'हन्ते'ति एवमेतदिति अभ्युपगमवचनः, यदनुमतं तत्प्रदर्शनार्थं 'चलमाणे' इत्यादि प्रत्युच्चारितमिति । इह च यावत्करणलभ्यानि पदानि सुप्रतीतान्येव । एवमेतानि नव पदानि कर्माधिकृत्य वर्तमानातीतकालसामानाधिकरण्यजिज्ञासया पृथनि निर्णीतानि
अर्थतान्येव चलनादीनि परस्परतः किंतुल्यार्थानि भिन्नार्थानि वेति पृच्छ निर्णयं च दर्शयितुमाह
१. युज्यते घ. २. तरोत्तरेषु समयेषु न चलति क. ३. वेदितव्यं ख. घ.
४. भगवान च. छ. ५. समाना घ. छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org