________________
भगवती वृत्ति
" प्रवृत्तदीपामप्रवृत्तभास्करां प्रकाशचन्द्रां बुबुधे विभावरीम् । "
इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाऽप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति । 'उप्पन्नसंसए उप्पन्नको उहल्ले 'त्ति प्राग्वत्, तथा 'संजायसड्डे' इत्यादि पदष्टुं प्राग्वत्, नवरमिह संशब्दः प्रकर्षादिवचनो, यथा
" संजातकामो बलभिद्विभूत्यां मानात् प्रजाभिः प्रतिमाननाच्च । "
३४६
( संजातकाम :-) ऐन्द्रैश्वर्ये प्रकर्षेण जातेच्छः कार्त्तवीर्य इति ।
अन्ये तु 'जायसढे' इत्यादि विशेषणद्वादशकमेवं व्याख्यान्ति - जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः किमिति जातश्रद्धः ? इत्यत आहयस्माज्जातसंशयः, इदं वस्त्वेवं स्यादेवं वेति, अथ जातसंशयोऽपि कथमित्यत आह- यस्माज्जातकुतूहलः कथं नामास्यार्थमवभोत्स्ये ? इत्यभिप्रायवानिति, एतच्च विशेषणत्रयमवग्रहापेक्षया द्रष्टव्यम् । एवमुत्पन्नसंजातसमुत्पन्न श्रद्धत्वादय ईहापायधारणाभेदेन वाच्याः ।
अन्ये त्वाहुः—जातश्रद्धत्वाद्यपेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षवृत्तिप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः । न चैवं पुनरुक्तं दोषाय, यदाह
श. १: उ.१: सू.१०-११
“वक्ता हर्षमयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकृद्ब्रूते तत्पुनरुक्तं न दोषाय ॥” इति
'उट्ठाए उई 'त्ति उत्थानमुत्था - ऊर्ध्वं वर्त्तनं, तया उत्थया 'उत्तिष्ठति' ऊर्ध्वो भवति । 'उत्तिष्ठति' इत्युक्ते क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमुत्तिष्ठते इति ततस्तद्व्यवच्छेदायोक्तमुत्थयेति । 'उट्ठाए उट्ठित्त ' त्ति उपागच्छतीत्युत्तरक्रियाऽपेक्षया उत्थानक्रियायाः पूर्वकालताऽभिधानाय उत्थयोत्थायेति कृत्वाप्रत्ययेन निर्द्दिशतीति ।
'जेणेवे' त्यादि, इह प्राकृतप्रयोगादव्ययत्वाद्वा येनेति यस्मिन्नेव दिग्भागे श्रमणो भगवान् महावीरो वर्त्तते 'तेणेव' त्ति तस्मिन्नेव दिग्भागे उपागच्छति, तत्कालापेक्षया वर्त्तमानत्वादागमनक्रियाया वर्त्तमानविभक्त्या निर्देशः कृतः, उपागतवानित्यर्थः । उपागम्य च श्रमणं भगवन्तं महावीरं कर्मतापन्न 'तिक्खुत्तो' त्ति त्रीन् वारान् त्रिकृत्वः 'आयाहिणपयाहिणं करेइत्ति आदक्षिणाद्-दक्षिणहस्तादारभ्य प्रदक्षिणः परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणोऽतस्तं करोतीति, 'वंदइ'त्ति 'वन्दते' वाचा स्तौति 'नमंसइ' ति 'नमस्यति' कायेन प्रणमति 'नच्चासन्ने 'त्ति, 'न' नैव 'अत्यासन्नः ' अतिनिकटः, अवग्रहपरिहारात्, नात्यासन्ने वा स्थाने वर्त्तमान इति गम्यं, 'णाइदूरे त्ति 'न' नैवं 'अतिदूर:' अतिविप्रकृष्टः, अनौचित्यपरिहारात्, नातिदूरे वा स्थाने, 'सुस्सूसमाणे 'त्ति भगवद्वचनानि श्रोतुमिच्छन्, 'अभिमुहे त्ति, अभि- भगवन्तं लक्ष्यीकृत्य मुखमस्येत्यभिमुखः, तथा 'विणएणं 'ति विनयेन हेतुना 'पंजलिउडे' त्ति प्रकृष्टः - प्रधानो ललाटतटघटितत्वेनाञ्जलिः - हस्तन्यासविशेषः कृतो विहितो येन सोऽग्न्याहितादिदर्शनात् प्राज्ञ्जलिकृतः 'पज्जुवासमाणे 'त्ति 'पर्युपासीनः' सेवमानः । अनेन च विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, आह च
''णिद्दाविगहापरिवज्जिएहि गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपब्बं उवउत्तेहिं सुणेयव्वं ॥ " ति
‘एवं वयासि’त्ति ‘एवं' वक्ष्यमाणप्रकारं वस्तु 'अवादीत्' उक्तवान्
9199. 'से' इति तद् यदुक्तं पूज्यैः 'चलच्चलित' मित्यादि, 'णूणं' ति एवमर्थे, तत्र तत्रास्यैवं व्याख्यातत्वात् ।
अथवा 'से' इतिशब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्त्तते । अथशब्दस्तु वाक्योपन्यासार्थः परिप्रश्नार्थो वा यदाह - " अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु'' 'नून' मिति निश्चितं । 'भंते 'ति गुरोरामन्त्रणं, ततश्च हे भदन्त ! कल्याणरूप ! सुखरूप ! इति वा 'भदि कल्याणे सुखे च' इति वचनात्। प्राकृतशैल्या वा भवस्य - - संसारस्य भयस्य वा भीतेरन्तहेतुत्वाद्भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! हे भयान्त ! वा । भान् वा ज्ञानादिभिर्दीप्यमान ! 'भा दीप्तौ' इति वचनात् भ्राजमान ! वा दीप्यमान ! 'भ्राजू ! दीप्तौ' इति वचनात् । अयं च आदित आरभ्य ‘भंते 'त्ति पर्यन्तो ग्रन्थो भगवता सुधर्म्मस्वामिना पञ्चमाङ्गस्य प्रथमशतस्य प्रथमोद्देशकस्य सम्बन्धार्थमभिहितः । अथानेन सम्बन्धेनायातस्य पञ्चमाङ्गप्रथमशतप्रथमोद्देशकस्येदमादिसूत्रम् - 'चलमाणे चलिए' इत्यादि ।
१. उट्ठेइ क. ख. ग. च.
२. पंजलियडेहिं ख. च. पंजलिवडेहिं ग.
अथ केनाभिप्रायेण भगवता सुधर्म्मस्वामिना पञ्चमाङ्गप्रथमशतप्रथमोद्देशकस्यार्थानुकधनं कुर्वतैवमर्थवाचकं सूत्रमुपन्यस्तं नान्यानीति ? अत्रोच्यते - इह चतुर्षु पुरुषार्थेषु मोक्षाख्यः पुरुषार्थो मुख्यः सर्वातिशायित्वात् । तस्य च मोक्षस्य साध्यस्य साधनानां च सम्यग्दर्शनादीनां साधनत्वेनाव्यभिचारिणामुभयनियमस्य शासनाच्छास्त्रं सद्भिरिष्यते । उभयनियमस्त्वेवं सम्यग्दर्शनादीनि मोक्षस्यैव साध्यस्य साधनानि नान्यस्यार्थस्य, मोक्षश्च तेषामेव साधनानां साध्यो नान्येषामिति, स च मोक्षो विपक्षक्षयात्, तद्विपक्षश्च बन्धः, स च मुख्यः कर्मभिरात्मनः सम्बन्धः, तेषां तु कर्मणां प्रक्षयेऽयमनुक्रम उक्तः 'चलमाणे' इत्यादि ।
Jain Education International
तत्र 'चलमाणे 'त्ति चलत्-स्थितिक्षयादुदयमागच्छद् विपाकाभिमुखीभवद्यत्कर्मेति प्रकरणगम्यं तच्चलितम् - उदितमिति व्यपदिश्यते । चलनकालो हि उदयावलिका, तस्य च कालस्यासंख्येयसमयत्वादादिमध्यान्तयोगित्वं कर्मपुलानामप्यनन्ताः स्कन्धा अनन्तप्रदेशाः ततश्च ते क्रमेण प्रतिसमयमेव चलन्ति, तत्र योऽसावाद्यश्चलनसमयस्तस्मिंश्चलदेव तच्चलितमुच्यते । कथं पुनस्तद्वर्त्तमानं सदतीतं भवतीति ? अत्रोच्यते--यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भवतीति उत्पद्यमानत्वं च तस्य प्रथमतन्तुप्रवेशकालादारभ्य पट उत्पद्यते इत्येवं व्यपदेशदर्शनात् प्रसिद्धमेव। उत्पन्नत्वं तूपपत्त्या प्रसाध्यते, तथाहि--उत्पत्तिक्रियाकाल एव प्रथमतंतुप्रवेशेऽसावुत्पन्नः, यदि पुनर्नोत्पन्नोऽभविष्यत्तदा
३. पंचमांगस्य ख. ग.
For Private & Personal Use Only
www.jainelibrary.org