________________
तु-कनकस्य न लोहा लवस्तस्य यो निकषः काय च निन्द्यवर्णोऽपि स्थानिय यः पुलको दुतवासादयः पुलकः-सारो वर्णातिशयातका रेखालक्षणः तथा पम्हात पारा, कणयपुलयनियसपम्हगोरे' का
मणि संतादहनसमर्थतया प्राकृतपुंसान: । अयं च विशी यः स तथा खा तस्य यसपाणि केशरापनियस
श.१: उ.१: सू.६-१०
३४८
भगवती वृत्ति अन्ये त्वाः-विस्तारोत्सेधयोः समत्वात् समचतुरस्रं तच्च तत् संस्थानं च-आकारः समचतुरस्रसंस्थानं तेन संस्थितो-व्यवस्थितो यः स तथा। अयं च हीनसंहननोऽपि स्यादित्यत आह-'वजरिसभनारायसंघयणे" त्ति, इह संहननम्-अस्थिसञ्चयविशेषः । वज्रादीनां लक्षणमिदम्
''रिसहो य होइ पट्टो, वजं पुण कीलियं वियाणाहि ।
उमओ मक्कडबंधो नारायं तं वियाणाहि ।' ति। तत्र वज्रं च तत् कीलिकाकीलितकाष्ठसंपुटोपमसामर्थ्ययुक्तत्वात् । ऋषभश्च लोहादिमयपट्टबद्धकाष्ठसंपुटोपमसामर्थ्यान्वितत्वाद् । वज्रर्षभः स चासौ नाराचं च उभयतो मर्कटबन्धनिबद्धकाष्ठसंपुटोपमसामोपेतत्वाद् । वज्रर्षभनाराचं (तच) तत् संहननम् ---अस्थिसञ्चयविशेषोऽत्युत्तमसामर्थ्ययोगाद्यस्यासौ वज्रर्षभनाराचसंहननः। अन्ये तु कीलिकादिमत्त्वमस्नामेव वर्णयन्ति । अयं च निन्द्यवर्णोऽपि स्यादित्यत आह–'कणयपुलयनिघसपम्हगोरे' कनकस्य–सुवर्णस्य 'पुलगंति यः पुलको-लवस्तस्य यो निकष:-कषपट्टके रेखालक्षण: तथा 'पम्ह'त्ति पद्मपक्ष्माणि केशराणि तद्वगौरो यः स तथा । वृद्धव्याख्या तु-कनकस्य न लोहादेर्यः पुलक:-सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्म-बहलत्वं तद्वद्नौरो यः स तथा। अथवा-कनकस्य यः पुलको द्रुतत्वे सति बिन्दुस्तस्य निकषो-वर्णतः सदृशो यः स तथा, 'पम्ह'त्ति पञ तस्य चेह प्रस्तावात्केशराणि गृह्यन्ते ततः पद्मवद्गौरो यः स तथा | ततः पदद्वयस्य कर्मधारयः । अयं च विशिष्टचरणरहितोऽपि स्यादित्यत आह–'उग्गतवे'ति उग्रम् अप्रधृष्यं तपः-अनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतपुंसा न शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः । 'दित्ततवे'त्ति, दीप्तं-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा । 'तत्ततवे'त्ति तप्तं तपो येनासौ तप्ततपाः, एवं हि तेन तत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापितो यतोऽन्यस्यास्पृश्यमिव जातमिति । 'महातवे'त्ति आशंसादोषरहितत्वाप्रशस्ततपाः। 'ओराले'त्ति भीम उग्रादिविशेषणविशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः। अन्ये वाहुः-'ओराले' त्ति उदार:-प्रधानः । 'घोरे त्ति घोरः अतिनिर्पणः, परीषहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः। अन्ये त्वात्मनिरपेक्ष घोरमाहुः । 'घोरगणे 'त्ति, घोराअन्यैर्दुरनुचरा गुणा--मूलगुणादयो यस्य स तथा। 'घोरतवस्सि'त्ति घोरैस्तपोभिस्तपस्वीत्यर्थः। 'घोरबंभचेरवासित्ति घोर-दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यद्ब्रहाचर्य तत्र वस्तुं शीलं यस्य स तथा। 'उच्छूढसरीरे'त्ति उच्छूढम्-उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात् स तथा। 'संखित्तविउलतेयलेसे'त्ति संक्षिप्ता-शरीरान्तर्लीनत्वेन ह्रस्वतां गता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा । मूलटीकाकृता तु 'उच्छूटसरीरसंखित्तविउलतेयलेसे'त्ति कर्मधारयं कृत्वा व्याख्यातमिति। 'चउद्दसपुब्धि'त्ति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वादसौ चतुर्दशपुर्वी । अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह–'चउणाणोवगए'त्ति, केवलज्ञानवर्जज्ञानचतुष्कसमन्वित इत्यर्थः । उक्तविशेषणद्वययुक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदां षट्स्थानकपतितत्वेन श्रवणादित्यत आह–'सव्वक्खरसन्निवाइ'त्ति, सर्वे च तेऽक्षरसन्निपाताश्च तत्संयोगाः सर्वेषां वाऽक्षराणां सन्निपाताः सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयतया सन्ति स सर्वाक्षरसन्निपाती। श्रव्याणि वाश्रवणसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं शीलमस्येति श्रव्याक्षरसंनिवादी। स चैवंगुणविशिष्टये भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च ‘समणस्स भगवओ महावीरस्स अदूरसामंते विहरतीति योगः' तत्र दूरं च-विप्रकृष्टं सामन्तं च-संनिकृष्टं तनिषेधाददूरसामन्तं तत्र, नातिदूरे नातिनिकट इत्यर्थः। किंविधः संस्तत्र विहरतीत्याह-'उद्दजाणु'त्ति ऊर्ध्वं जानुनी यस्यासावूदुर्ध्वजानुः शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाच्चोत्कुटुकासन इत्यर्थः । 'अहोसिरे'त्ति अधोमुखः नोज़ तिर्यग्वा विक्षिप्तदृष्टिः, किन्तु नियतभूभागनियमितदृष्टिरिति भावः। 'झाणकोट्टोवगए'त्ति यानं-धर्म्य शुक्लं वा तदेव कोष्ठ:-कुशूलो ध्यानकोष्ठस्तमुपगतः-तत्र प्रविष्टो ध्यानकोठोपगतः, तथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं स भगवान् ध्यानतोऽविप्रकीर्णेन्द्रियान्तः करणवृत्तिरिति । 'संजमेणं'ति संवरेण । 'तवस'त्ति अनशनादिना, चशब्दः समुच्चयार्थो लुप्तोऽत्र द्रष्टव्यः । संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्रधानत्वं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन । भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च
सकलकर्मक्षयलक्षणो मोक्ष इति, 'अप्पाणं भावमाणे विहरइत्ति, आत्मनं वासयंस्तिष्ठतीत्यर्थः । १।१०. 'तते णं से'त्ति.
'ततः' ध्यानकोष्ठोपगतविहरणानन्तरं णमिति वाक्यालङ्कारार्थः ‘से' इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्योक्तस्य विशेषावधारणार्थमाह-'भगवं गोयमे'त्ति किमित्याह-'जायसः' इत्यादि, जातश्रद्धादिविशेषणः सन् उत्तिष्ठतीति योगः । तत्र जाता-प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासौ जातश्रद्धः। तथा जातः संशयो यस्य स जातसंशयः, संशयस्तु अनवधारितार्थं ज्ञानं, स चैवं तस्य भगवतो जातः-भगवता हि महावीरेण 'चलमाणे चलिए' इत्यादौ सूत्रे चलन्नर्थश्चलितो निर्दिष्टः, तत्र च य एव चलन् स एव चलितः इत्युक्तः, ततश्चैकार्थविषयावेतौ निर्देशौ, चलनिति च वर्तमानकालविषयः चलित इति चातीतकालविषयः, अतोऽत्र संशयः कथं नाम य एवार्थो वर्तमानः स एवातीतो भवति ?, विरुद्धत्वादनयोः कालयोरिति । तथा 'जायकोउहल्ले'त्ति, जातं कुतूहलं यस्य स जातकुतूहलो, जातौत्सुक्य इत्यर्थः, कथमेतान् पदार्थान् भगवान् प्रज्ञापयिष्यीतीति । तथा 'उप्पन्नसड्ढे'त्ति उत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्य स उत्पन्नश्रद्धः । अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते ? प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात् । न ह्यनुत्पन्ना श्रद्धा प्रवर्तत इति । अत्रोच्यते, हेतुत्वप्रदर्शनार्थं, तथाहि कथं प्रवृत्तश्रद्ध उच्यते ? यत उत्पन्नश्रद्ध इति । हेतुत्वप्रदर्शनं चोचितमेव, वाक्यालङ्कारत्वात्तस्य, यथाहुः
१. रिसह क. च. छ. २. विशेषादुत्तम घ. छ. ३. निहस क. ४. ऽद्भूतत्वे क. घ. च. ५. अत ख. ग.
६. उराले ख. ग. घ. ७.x घ. च. ८.धर्म क. ग. घ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org