________________
भगवती वृत्ति
३४७
श.१: उ.१: सू.७-६ भवति यत्र तत्स्थानं क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रं वा । जीवस्वरूपविशेषणानि तु लोकाग्रस्याऽऽधेयधर्माणामाधारेऽध्यारोपादवसेयानि । तदेवंभूतं स्थानं 'संपाविउकामे' ति यातुमनाः, न तु तव्याप्तः तप्राप्तस्याकरणत्वेन विवक्षितार्धानां प्ररूपणाऽसम्भवात् ।' प्राप्तुकाम इति च यदुच्यते तदुपचारात्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति
''मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः।" इति वचनादिति। 'जाव समोसरणं ति, तावद्भगवद्वर्णको वाच्यो यावत्समवसरणं-समवसरणवर्णक इति। स च भगदद्वर्णक एवम्-'भुयमोयग-भिंग नेलकजल-पहट्ठभमरगण-निद्धनिकुरुंबनिचियकुंचियपयाहिणावत्तमुद्धसिरए'। भुजमोचको-रत्नविशेषः भृङ्ग:-कीटविशेषोऽङ्गारविशेषो वा नैलंनीलीविकारः कजलं-मषी प्रहृष्टभ्रमरगणः प्रतीतः एत इव स्निग्धः कृष्णच्छायो निकुरम्बः-समूहो येषां ते तथा ते च ते निचिताश्च-निबिडाः कुञ्चिताश्च-कुण्डलीभूताः प्रदक्षिणावर्ताश्च मूर्द्धनि शिरोजा यस्य स तथा । एवं शिरोजवर्णका "रतुप्पलपत्तमउयसुकुमालकोमलतले"इति पादतलवर्णकान्तः शरीरवर्णको भागवतो वाच्यः । पादतलविशेषणस्य चायमर्थः-रक्त-लोहितम् उत्पलपत्रवत्-कमलदलवत् मृदुकम्-अस्तब्ध सुकुमालानां मध्ये कोमलं च तल–पादतलं यस्य य तथा। तथा "अट्ठसहस्सवरपुरिसलक्खणधरे आगासगएणं चक्केणं आगासगएणं छत्तेणं आगासगयाहिं चामराहिं आगासफलिहामएणं सपायपीढेणं सीहासणेणं" आकाशस्फटिकम्-अतिस्वच्छस्फटिकविशेषस्तन्मयेन उपलक्षित इति गम्यं । 'धम्मज्झएणं पुरओ कड्डिजमाणेणं' देवैरिति गम्यते। 'चउदसहि समणसाहस्सीहिं छत्तीसाए अजियासाहस्सीहिं सद्धिं संपरिखुडे' साहस्रीशब्दः सहस्रपर्यायः सार्द्ध सह, तेषां विद्यमानतयाऽपि सार्द्धमिति स्यादत उच्यते--संपरिदृतः-परिकरित इति । 'पुवाणुपुब्बिं चरमाणे' न पश्चानपूर्व्यादिना 'गामाणुगामं दूइज्जमाणे' ग्रामश्च प्रतीतः अनुग्रामश्च तदनन्तरं ग्रामो ग्रामानुग्रामं तद् 'द्रवन्' गच्छन् 'सुहंसुहेणं विहरमाणे जेणेव रायगिहे नगरे जेणेव गुणसिलए चेइए तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हइ ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ'त्ति। समवसरणवर्णके च 'समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अप्पेगइया उग्गपव्वइया' इत्यादि साध्वादिवर्णको वाच्यः ।
तथाऽसुरकुमाराः शेषभवनपतयो व्यन्तरा ज्योतिष्का वैमानिका देवाश्च भगवतः समीपमागच्छन्तो वर्णयितव्याः । १८. "परिसा निग्गय"त्ति राजगृहाद्राजादिलोको भगवतो वन्दनार्थं निगतः, तन्निर्गमश्चैवम्-"तए णं रायगिहे नगरे सिंघाडगतिग
चउक्कचच्चरचउम्मुहमहापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे इह गुणसिलए चेइए अहापडिरूवं
ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तं सेयं खलु तहारूवाणं अरहंताणं भगवंताणं नामगोयस्सवि सवणयाए किमंग पुण वंदणणमंसणयाए ? त्तिकट्ट बहवे उग्गा उग्गपुत्ता इत्यादिर्वाच्यो यावद्भगवन्तं नमस्यन्ति पर्युपासते चेति। एवं राजनिगमोऽन्तःपुरनिर्गमश्च तत्पर्युपासना चौपपातिकवद्वाच्या। 'धम्मो कहिओ'त्ति, धर्मकथेह भगवतो वाच्या, सा चेवं-'तए णं समणे भगवं महावीरे सेणियरस रनो चिल्लणापमुहाण य देवीणं तीसे य महइमहालियाए परिसाए सव्वभासाणुगामिणीए सरस्सईए धम्म परिकहेइ, तंजहा-अस्थि लोए, अस्थि अलोए, एवं जीवा अजीवा बंधे मोक्खे' इत्यादि । तथा
"जह णरगा गम्मती जे णरया जा य वेयणा नरए ।
सारीरमाणसाई दुक्खाई तिरिक्खजोणीए॥" इत्यादि । 'पडिगया परिस'त्ति लोकः स्वस्थानं गतः, प्रतिगमश्च तस्या एवं वाच्यः-'तए णं सा महइमहालिया महचपरिसा' महाऽतिमहती आलप्रत्ययस्य स्वार्थिकत्वादतिशयातिशयगुर्वी महत्पर्षत्-प्रशस्तता प्रधानपरिषत्, महाचर्चानां वा-सत्पूजानां महाा वा पर्षत् महार्चपर्षदिति 'समणरस भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हट्टतुट्ठा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ" करेत्ता वंदइ नमसइ२ एवं वयासीसुयक्खाए णं भंते ! निग्गंथे पावयणे, णत्थि णं अन्ने केइ समणे वा माहणे वा एरिसं धम्ममाइक्खित्तए। एवं वइत्ता जामेव दिसि पाउन्भूया
तामेव दिशं पडिगय'त्ति। १६. 'तेण मित्यादि तेन कालेन तेन समयेन श्रमणस्य भगवतो महावीरस्य 'जेट्टे'त्ति प्रथमः' अंतेवासित्ति शिष्यः। अनेन पदद्वयेन तस्य सकलसङ्घ
नायकत्वमाह । 'इंदभूइ'त्ति इन्द्रभूतिरिति मातापितृकृतनामधेयः । 'नाम'ति विभक्तिपरिणामान्नाम्नेत्यर्थः । अन्तेवासी किल विवुक्षया श्रावकोऽपि स्यादित्यत आह–'अणगारे'त्ति, नास्यागारं विद्यत इत्यनगारः । अयं चावगीतगोत्रोऽपि स्यादित्यत आह-'गोयमसगोत्तेणं 'त्ति गौतमसगोत्र इत्यर्थः । अयं च तत्कालोचितदेहमानापेक्षया न्यूनाधिकदेहोऽपि स्यादित्यत आह–'सत्तुस्सेहे'त्ति सप्तहस्तीच्छ्यः । अयं च लक्षणहीनोऽपि स्यादित्यत आह-'समचउरंससंठाणसंठिए'त्ति, समं–नाभेरुपरि अधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरसंच-प्रधानं समचतुरसम्। अथवा समाः-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽसयो यस्य तत्समचुरस्रम्। अस्रयस्त्विह चतुर्दिग्भागोपलक्षिताः शरीरावयवा इति । अन्ये त्वाहुः-समा-अन्यूनाधिकाः चतस्रोऽप्यस्रयो यत्र तत्समचतुरस्रम् । अस्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरम् आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य वामजानुनश्चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति ।
१. भावात् क.ख. घ. छ. २. नील च ३. पहिट्ट ख ४. भगवतो ख. ग. च. ५. x ख. च. ६. फालिह घ
७. उगह क. ग. घ. छ. ८. उगिण्हित्ता ख. ग. घ. छ. ६. महतिमहती घ. छ. १०. पर्षत् ग. छ. ११. पकरेइ क. ग. घ. छ. १२. गोयमगोतेण घ. च. गोयमे गोतेणं ख. छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org