________________
श.१: उ.१: सू.७
३४६
भगवती वृत्ति रूपादिनाऽतिशयेनोद्गतत्वादूर्ध्ववर्तित्वादुत्तमः' पुरुषोत्तमः । अथ पुरुषोत्तमत्वमेवास्य सिंहाधुपमानत्रयेण' समर्थयन्नाह–'पुरिससीहे 'त्ति, सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः । लोकेन हि सिंहे शौर्यमतिप्रकृष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः। शौर्यं तु भगवतो बाल्ये प्रत्यनीकदेवेन भाष्यमानस्याप्यभीतत्वात् कुलिशकठिनमुप्रिहारप्रहतिप्रवर्द्धमानामरशरीरकुब्जताकरणाच्चेति । तथा 'पुरिसवरपोंडरीए'त्ति, वरपुण्डरीकंप्रधानधवलसहस्रपत्रं पुरुष एव वरपुण्डरीकमिवेति पुरुषवरपुण्डरीकं, धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वेश्च शुभानुभावैः शुद्धत्वात्। अथवा पुरुषाणां-तत्सेवकजीवानां वरपुण्डरीकमिव-वरच्छत्रमिव यः सन्तापातपनिवारणसमर्थत्वात् भूषाकारणत्वाच्च स पुरुषवरपुण्डरीकमिति । तथा 'पुरिसवरगंधहत्थि'त्ति पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि समस्तेतरहस्तिनो भज्यन्ते तथा भगवतस्तद्देशविहरणेन ईतिपरचक्रदुर्भिक्षडमरमरकादीनि दुरितानि नश्यन्तीति पुरुषवरगन्धहस्तीत्युच्यत इत्यत उपमात्रयात्पुरुषोत्तमोऽसौ । न चायं पुरुषोत्तम एव, किन्तु लोकस्याप्युत्तमो लोकनाथत्वाद्, एतदेवाह-'लोगणाहे'त्ति, लोकस्य-सज्ञिभव्यलोकस्य नाथ:-प्रभुर्लोकनाथः, नाथत्वं च योगक्षेमकारित्वं 'योगक्षेमकृन्नाथ' इति वचनात्, तच्चास्याप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य च परिपालनेनेति। लोकनाथत्वं च यथाऽवस्थितसमस्तवस्तुस्तोमप्रदीपनादेवेत्यत आह–'लोगपईवे'त्ति लोकस्य-विशिष्टतिर्यग्नरामररूपस्याऽऽन्तरतिमिरनिराकरणेन प्रकृष्टप्रकाशकारित्वात्प्रदीप इव प्रदीपः । इदं विशेषणं द्रष्ट्रलोकमाश्रित्योक्तम्, अथ दृश्यं लोकमाश्रित्याह-'लोगपज्जोयगरे'त्ति, लोकस्य-लोक्यत इति लोकः अनया व्युत्पत्त्या लोकालोकस्वरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावावभाससमर्थकवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्त्तनेन प्रद्योत द्यप्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरः। उक्तविशेषणोपेतश्च मिहिरहरिहरहिरण्यगर्भादिरपि तत्तीर्थकमतेन भवतीति कोऽस्य विशेष इत्याशङ्कायां तद्विशेषाभिधानायाह-'अभयदए'त्ति न भयं दयते-ददाति प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनीत्यभयदयः। अभया वा-सर्वप्राणिभयपरिहारवती दया-अनुकम्पा यस्य सोऽभयदयः । हरिहरमिहिरादयस्तु नैवमिति विशेषः । न केवलमसावपकारिणां तदन्येषां वाऽनर्थपरिहारमात्रं करोत्ति अपि त्वर्थप्राप्तिमपि करोतीति दर्शयन्नाह-'चक्खुदये त्ति चक्षुरिव चक्षुः-श्रुतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात्, यदाह
"चक्षुष्मन्तस्त एवेह, ये श्रुतज्ञानचक्षुषा ।
सम्यक् सदैव पश्यन्ति, मावान् हेयेतरानराः ॥" तद्दयत इति चक्षुर्दयः । यथाहि लोके कान्तारगतानां चौरैर्विलुप्तधनानां बद्धचक्षुषां चक्षुरुद्घाटनेन चक्षुर्दत्त्वा वाञ्छितमार्गदर्शनेनोपकारी भवति, एवमयमपि संसारारण्यवर्त्तिनां रागादिचौरविलुप्तधर्मधनानां कुवासनाऽऽच्छादितसज्ज्ञानलोचनानां तदपनयनेन श्रुतचक्षुर्दत्त्वा निवार्णमार्ग यच्छन्नुपकारीति दर्शयन्नाह–'मग्गदए'त्ति, मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपुरपथं दयत इति मार्गदयः । यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तान निरुपद्रवं स्थान प्रापयन् परमोपकारी भवतीत्येवमयमपीति दर्शयन्नाह –'सरणदए'त्ति शरणं-त्राणं नानाविधोपद्रवोपद्रुतानां तद्रक्षास्थानं, तच्च परमार्थतो निर्वाणं तद्दयत इति शरणदयः । शरणदायकत्वं चास्य धर्मदेशनयैवेत्यत आह–'धम्मदेसए'त्ति धर्म-श्रुतचारित्रात्मकं देशयतीति धर्मदेशकः । 'धम्मदये'त्ति पाठान्तरं, तत्र च धर्मा-चारित्ररूपं दयत इति धर्मादयः । धर्मदेशनामात्रेणापि धर्मदेशक उच्यत इत्यत आह । 'धम्मसारहि' त्ति धर्मरथस्य प्रवर्तकत्वेन सारथिरिव धर्मसारथिः । यथा रथस्य सारथी रथं रथिकमश्वांश्च रक्षति एवं भगवान् चरित्रधर्माङ्गानां -संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारथिर्भवतीति। तीर्थान्तरीयमतेनान्येऽपि धर्मसारथयः सन्तीति विशेषयन्नाह-'धम्मवरचाउरंतचक्कवट्टी'त्ति, त्रयः समुद्राश्चतुर्थश्च हिमवान् एते चत्वारोऽन्ताः-पृथिव्यन्ताः एतेषु स्वामितया भवतीति चातुरन्तः, स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती वरश्चासौ चातुरन्तचक्रवर्ती च वरचातुरन्तचक्रवर्ती-राजातिशयः । धर्मविषये 'वरचातुरन्तचक्रवर्ती' धर्मवरचातुरन्तचक्रवर्ती, यथा हि पृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती भवति तथा भगवान् धर्मविषये शेषप्रणेतॄणां मध्ये सातिशयत्वात्तथोच्यत इति । अथवा धर्म एव वरमितरचक्रापेक्षया कपिलादिधर्मचक्रापेक्षया वा। चतुरन्तं दानादिभेदेन चतुर्विभागं चतसृणां वा नारकादिगतीनामन्तकारित्वाच्चतुरन्तं तदेव चातुरन्तं। यच्चक्रं भावारातिच्छेदात् तेन वर्तितुं शीलं यस्य स तथा। एतच्च धर्मदेशकत्वादिविशेषेणकदम्बकं प्रकृष्टज्ञानादियोगे सति भवतीत्याह-'अप्पडिहयवरनाणदसणधरे'त्ति अप्रतिहते- कटकुट्यादिभिरस्खलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शन केवलाख्ये विशेषसामान्यावबोधात्मके धारयतियः स तथा । छद्मवानप्येवंविधसंवेदनसंपदुपेतः कैश्चिदभ्युपगम्यते, स च मिथ्योपदेशित्वानोपकारी भवतीति निश्छद्मताप्रतिपादनायाऽस्याह। अथवा कथमस्याप्रतिहतसंवेदनत्वं संपन्नम् ? अत्रोच्यते, आवरणाभावाद्, एतमेवास्याऽऽवेदयन्नाह–'वियदृछउमे'त्ति व्यावृत्तं-निवृत्तमपगतं छद्म–शठत्वमावरणं वा यस्यासौ व्यावृत्तछया। छद्माभावश्चास्य रागादिजयाजात इत्यत आह । 'जिणे'त्ति जयति-निराकरोति रागद्वेषादिरूपानरातीनिति जिनः । रागादिजयश्चास्य रागादिस्वरूपतज्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह । 'जाणए'त्ति जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञायकः । ज्ञायक इत्यनेनास्य स्वार्थसंपत्त्युपाय उक्तः । अधुना तु स्वार्थसंपत्तिपूर्वकं परार्थसंपादकत्वं विशेषणचतुष्टयेनाह-'बुद्धे 'त्ति, बुद्धो जीवादितत्त्वं बुद्धवान् । तथा 'बोहए'त्ति, जीवादितत्त्वस्य परेषां बोधयिता, तथा 'मुत्तेत्ति मुक्तो बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तत्वात्। तथा 'मोयए'त्ति परेषां कर्मबन्धनान्मोचयिता। अथ मुक्तावस्थामाश्रित्य विशेषणान्याह-सव्वन्नू सव्वदरिसी'ति सर्वस्य वस्तुस्तोमस्य विशेषरूपतया ज्ञायकत्वेन सर्वज्ञः, सामान्यरूपतया पुनः सर्वदर्शी, न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषवद्भविष्यजडत्वम्। एतच्च पदद्वयं क्वचिन्न दृश्यत इति । तथा 'सिवमयल' मित्यादि, तत्र 'शिव' सर्वाऽऽबाधारहितत्वात् । 'अचलं' स्वाभाविकप्रायोगिकचलनहेत्वभावात् । 'अरुजम्' अविद्यमानरोगं तन्निबन्धनशरीरमनसोरभावात्। 'अनन्तम्' अनन्तार्थविषयज्ञानस्वरूपत्वात्। 'अक्षयम्' अनाशं साद्यपर्यवसितस्थितिकत्वात्। अक्षतं वा परिपूर्णत्वात्पौर्णमासीचन्द्रमण्डलवत्। 'अव्याबाध' परेषामपीडाकारित्वात् । 'सिद्धिगइनामधेय'ति । सिध्यन्ति-निष्ठितार्था भवन्ति यस्यां सा सिद्धिः सा चासौ
गम्यमानत्वाद्गतिश्च सिद्धिगतिस्तदेव नामधेयं-प्रशस्तं नाम यस्य तत्तथा। 'ठाणं'ति तिष्ठति-अनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो १. उद्भूत क.छ.
६. कारि ख. ग. छ. २. उपमा क. च
७. चारित्र क. ग. ३. भाष्यमान घ.
८. नरनारकादि क. ख. ग. च. ४. प्रहत ग.
६. विशेषसामान्यबोधात्मके क. ख. ग. च. छ. ५. उद्योत ख. छ.
१०. प्रतिपादनायाऽह ग. घ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org