SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ भगवता वृत्ति ३४५ नन्विष्टदेवतानमस्करो मङ्गलार्थो भवति, न च श्रुतमिष्टदेवतेति कथमयं मङ्गलार्थ इति ? अत्रोच्यते--श्रुतमिष्टदेवतैव, अर्हतां नमस्करणीयत्वात, सिद्धवत्, नमस्कुर्वन्ति च श्रुतमर्हन्तो-'नमस्तीर्थायेति भणनात्। तीर्थं च श्रुतं संसारसागरोत्तरणासाधारणकारणत्वात्, तदाधारत्वेनैव च सङ्घस्य तीर्थशब्दाभिधेयत्वात् । तथा सिद्धानपि मङ्गलार्थमर्हन्तो नमस्कुर्वन्त्येव "काऊण नमोकारं सिद्धाणमभिग्गहं तु सो गिण्हे" इति वचनादिति । एवं तावत्प्रथमशतोद्देशकाभिधेयार्थलेशः प्राग्दर्शितः, ततश्च 'यथोद्देशं निर्देश' इति न्यायमाश्रित्यादितः प्रथमोद्देशकार्थप्रपञ्चो वाच्यः । तस्य च गुरुपर्वक्रमलक्षणं सम्बन्धमुपदर्शयन् भगवान् सुधर्मस्वामी जम्बूस्वामिनमाश्रित्येदमाह१॥४. 'तेणं कालेणं तेणं समएण' मित्यादि, अथ कथमिदमवसीयते यदुत-सुधर्मस्वामी जम्बूस्वामिनमभिसंबन्धग्रन्थममु मुक्तवानिति ? उच्यते, सुधर्मस्वामिवाचनाया एवानुवृत्तत्वात्, आह च ___ "तित्थं च सुहम्माओ निरवचा गणहरा सेसा।" सुधर्मस्वामिनश्च जम्बूस्वाम्येव प्रधानः शिष्योऽतस्तमाश्रित्येयं वाचना प्रवृत्तेति । तथा षष्ठाड़े उपोद्घात एवं दृश्यते-यथा किल सुधर्मस्वामिनं प्रति जम्बूनामा प्राह-"जइ णं भंते ! पंचमस्स अंगस्स विवाहपन्नत्तीए समणेणं भगवया महावीरेणं अयमढे पन्नत्ते, छट्टरस णं भंते ! के अट्टे पन्नत्ते ?"त्ति तत एवमिहापि सुधम्र्मैव जम्बूनामानं प्रत्युपोद्घातमवश्यमभिहितवानित्यवसीयत इति। अयं चोपोद्घातग्रन्थो मूलटीकाकृता समस्तं शास्त्रमाश्रित्य व्याख्यातोऽप्यस्माभिः प्रथमोद्देशकमाश्रित्य व्याख्यास्यते । प्रतिशतं प्रत्युद्देशकमुपोद् घातस्येह शास्त्रऽनेकधाऽभिधानादिति। अयं च प्राग्व्याख्यातो नमस्कारादिको ग्रन्थो वृत्तिकृता न व्याख्यातः कुतोऽपि कारणादिति । 'ते णं काले णं'ति, ते इति-प्राकृतशैलीवशात्तस्मिन् यत्र तन्नगरमासीत् । णंकारोऽन्यत्रापि वाक्यालङ्कारार्थो यथा “इमा णं भंते ! पुढवी" त्यादिषु । 'काले' अधिकृतावसर्पिणीचतुर्थविभागलक्षण इति, 'ते ण ति तस्मिन् यत्रासौ भगवान् धर्मकथामकरोत् । 'समए णं'ति समये-कालस्यैव विशिष्टे विभागे, अथवा तृतीयैवेयं, ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव । 'रायगिहे'ति एकारः प्रथमैकवचनप्रभव: "कयरे आगच्छइ दित्तरूवे" इत्यादाविव। ततश्च राजगृहं नाम नगरं 'होत्थ'त्ति अभवत् । नन्विदानीमपि तन्नगरमस्तीत्यतः कधमुक्तमभवदिति ?, उच्यते-वर्णकग्रन्थोक्तविभूतियुक्तं तदैवाभवत् न तु सुधर्मस्वामिनो वाचनादानकाले, अवसर्पिणीत्वात्कालस्य तदीयशुभभावानां हानिभावात् । 'वनओ'त्ति इह स्थानके नगरवर्णको वाच्यः । ग्रन्थगौरवभयादिह तस्यालिखितत्वात्, स चैवम् 'रिद्धस्थिमियसमिद्धे' ऋद्धं-पुरभवनादिभिर्वृद्धं स्तिमितं-स्थिरं स्वचक्रपरचक्रादिभयवर्जितत्वात् समृद्धं-धनधान्यादिविभूतियुक्तत्वात्, ततः पदत्रयस्य कर्ममधारयः, ‘पमुइयजणजाणवए' प्रमुदिता-हृष्टाः प्रमोदकारणवस्तूनां सद्भावाजना-नगरवास्तव्यलोका जानपदाश्व-जनपदभवास्तत्रायाताः सन्तो यत्र तत् प्रमुदितजनजानपदमित्यादिरौपपातिकात् सव्याख्यानोऽत्र दृश्यः । 'तस्स णं'ति षष्ट्याः पञ्चम्यर्थत्वात्तस्माद्राजगृहानगरात् 'बहिय'त्ति बहिस्तात् 'उत्तरपुरस्थिमे'त्ति उत्तरपौरस्त्ये 'दिसीभाए'त्ति दिशां भागो दिग्रुपो वा भागो गगनमण्डलस्य दिग्भागस्तत्र 'गुणसिलकं' नाम 'चेइयंति चितेर्लेप्यादिचयनस्य भावः कर्म वेति चैत्यं-सज्ञाशब्दत्वाद्देवविम्बं तदाश्रयत्वात्तद्गृहमपि चैत्यं, तच्चेह व्यन्तरायतनं न तु भगवतामर्हतामायतनं 'होत्यत्ति बभूव, इह च यन्न व्याख्यास्यते तप्रायः सुगमत्वादित्यवसेयमिति। 'तेणं कालेणं तेणं समएणं समणे......' ‘समणे'त्ति 'श्रमु तपसि खेदे चेति वचनात् श्राम्यति-तपस्यीति श्रमणः । अथवा सह शोभनेन मनसा वर्तत इति समनाः, शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात्, मनोमात्रसत्त्वस्यास्तवत्वात् । ५ संगतं वा-यथा भवत्येवमणति-भाषते समो वा सर्वभूतेषु सन् अणति-अनेकार्थत्वाद्धातूनां प्रवर्तत इति समणो निरुक्तिवशाद् । 'भगवं'त्ति भगवान्-ऐश्वर्यादियुक्तः पूज्य इत्यर्थः । ‘महावीरे' त्ति वीरः 'सूर वीर विक्रान्ता वितिवचनात् रिपुनिराकरणतो विक्रान्तः, स च चक्रवादिरपि स्यादतो विशेष्यते-महांश्चासौ दुर्जयान्तररिपुतिरस्करणाद्वीरश्चेति महावीरः । एतच्च देवैर्भगवतो गौणं नाम कृतं, यदाह "अयले भयमेरवाणं खंतिक्खमे परिसहोवसग्गाणं । देवेहिं (से नाम) कयं (समणे भगवं) महावीरेत्ति।।" 'आदिकरे'त्ति आदौ-प्रथमतः श्रुतधर्मम्-आचारादिग्रन्थात्मकं करोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरः। आदिकरत्वाच्चासौ किंविध इत्याह-'तित्थयरे'त्ति तरन्ति तेन संसारसागरमिति तीर्थ-प्रवचनं तदव्यतिरेकाचेहसङ्घस्तीर्थं तत्करणशीलत्वात्तीर्थकरः। तीर्थकरत्वं चास्य नान्योपदेशपूर्वकमित्यत आह–'सहसंबुद्धे'त्ति, सह-आत्मनैव सार्द्धमनन्योपदेशत इत्यर्थः, सम्यग्-यथावत् बुद्धो-हेयोपादेयोपेक्षणीय वस्तुतत्त्वं विदितवानिति सहसंबुद्धः। सहसंबुद्धत्वं चास्य न प्राकृतस्य सतः पुरुषोत्तमत्वादित्यत आह-'पुरिसुत्तमो 'त्ति पुरुषाणां मध्ये तेन तेन १.x क.ख. च. छ. ५. सम्बन्धस्या घ. च. छ. २. व्याख्यायते क.छ. ६. खंतिखमे क. ३. पुरच्छिमेक ७. पुरिसोत्तमो क. ग. घ. ४. चेइअंक. ख. ग. छ, चेइअ छ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003593
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages458
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy