________________
श.१ उ.१: सू.१-३
३४४
भगवती वृत्ति वाऽतस्तेभ्यः। 'नमो लोए सव्वसाहूणति क्वचित्पाठः, तत्र 'सर्व' शब्दस्य देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते-'लोके' मनुष्यलोके न तु गच्छादौ ये सर्वसाधवस्तेभ्यो नम इति । एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात्, आह च
"असहाए सहायत्तं करेंति मे संजमं करेंतस्स ।
एएण कारणेणं णमामिऽहं सव्वसाहूणं || ति। ननु यद्ययं सक्षेपेण नमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तद्ग्रहणेऽन्येषामप्यर्हदादीनां ग्रहणात्, यतोऽहंदादयो न साधुत्वं व्यभिचरन्ति । अथ विस्तरेण तदा ऋषभादिव्यक्तिसमुच्चारणतोऽसौ वाच्यः स्यादिति । नैवं, यतो न साधुमात्रनमस्कारेऽहंदादिनमस्कारफलमवाप्यते, मनुष्यमात्रनमस्कारे राजादिनमस्कारफलवदिति कर्तव्यो विशेषतोऽसौ, प्रतिव्यक्ति तु नासौ वाच्योऽशक्यत्वादेवेति । ननु यथाप्रधानन्यायमङ्गीकृत्य सिद्धादिरानुपूर्वी युक्ताऽत्र, सिद्धानां सर्वथाकृतकृत्यत्वेन सर्वप्रधानत्वात् । नैवम्, अहंदुपदेशेन सिद्धानां ज्ञायमानत्वादर्हतामेव च तीर्थप्रवर्तनेनात्यन्तोपकारित्वादित्यहंदादिरेव सा।। नन्वेवमाचार्यादिः सा प्राप्नोति, क्वचित्काले आचार्येभ्यः सकाशादर्हदादीनां ज्ञायमानत्वादिति, अत एव च तेषामेवात्यन्तोपकारित्वात् । नैवम्, आचार्याणामुपदेशदानसामर्थ्यमर्हदुपदेशत एव, न हि स्वतंत्रा आचार्यादय उपदेशतोऽर्थज्ञापकत्वं प्रतिपद्यन्ते अतोऽर्हन्त एव परमार्थेन सर्वार्थज्ञापकाः, तथा अर्हत्परिषद्पा एवाचार्यादयोऽतस्तान् नमस्कृत्याहन्नमस्करणमयुक्तम्, उक्तं च
"ण य कोइवि परिसाए पणमित्ता पणवए रनो"त्ति एवं तावत्परमेष्ठिनो नमस्कृत्याधुनातनजनानां श्रुतज्ञानस्यात्यन्तोपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वात् भावश्रुतस्य च द्रव्यश्रुत
हेतुकत्वात्सज्ज्ञाऽक्षररूपं द्रव्यश्रुतं नमस्कुर्वन्नाह११२. णमो बंभीए लिवीए'त्ति ।
लिपिः-पुस्तकादावक्षरविन्यासः सा चाष्टादशप्रकाराऽपि श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता ततो ब्राह्मीत्यभिधीयते. आह च"लेहं लिवीविहाणं जिणेणं बंभीई दाहिणकरेणं''इत्यतो ब्राह्मीतिस्वरूपविशेषणं लिपेरिति। ननु अधिकृतशास्त्रस्यैव मङ्गलत्वात् किं मङ्गलेन ? अनवस्थादिदोषप्राप्तेः । सत्यं, किन्तु शिष्यमतिमङ्गलपरिग्रहार्थं मङ्गलोपादानं शिष्टसमयपरिपालनाय चेत्युक्तमेवेति । अभिधेयादयः पुनरस्य सामान्येन व्याख्याप्रज्ञप्तिरिति नाम्नैवोक्ता इति ते पुनर्नोच्यन्ते, तत एव श्रोतृप्रवृत्त्यादीष्टफलसिद्धेः, तथाहि इह भगवतोऽर्थव्याख्या अभिधेयतया उक्ताः, तासां च प्रज्ञापना बोधो वाऽनन्तरफलं, परम्पराफलं तु मोक्षः, स चास्याऽऽप्तववनत्वादेव फलतया सिद्धो, न ह्याप्तः साक्षात् पारम्पर्येण वा यन्न मोक्षाङ्गं तत्प्रतिपादयितुमुत्सहते, अनाप्तत्वप्रसङ्गात्। तथाऽयमेव सम्बन्धो यदुतास्य शास्त्रस्येदं प्रयोजनमिति । तदेवमस्य शास्त्रस्यैकश्रुतस्कन्धरूपस्य सातिरेकाध्ययनशतस्वभावस्य उद्देशकदशसहस्रीप्रमाणस्य षट्त्रिंशत्प्रश्नसहस्रपरिमाणस्य अष्टाशीतिसहस्राधिकलक्षद्वयप्रमाणपदराशेर्मङ्गलादीनि दर्शितानि । अथ प्रथमे शते ग्रन्थान्तरपरिभाषयाऽध्ययने दशोद्देशका भवन्ति । उद्देशकाश्च-अध्ययनार्थदेशाभिधायिनोऽध्ययनविभागाः, उद्दिश्यन्तेउपधानविधिना शिष्यस्याचार्येण यथैतावन्तमध्ययनभागमधीष्वेत्येवमुद्देशास्त एवोद्देशकाः, तांश्च सुखधरणस्मरणादिनिमित्तमाद्याभिधेयाभिधानद्वारेण संग्रहीतुमिमां गाथामाह-'रायगिहे'त्यादि । अधिकृतगाथार्थो यद्यपि वक्ष्यमाणोद्देशकदशकाभिगमे स्वयमेवावगम्यते तथापि बालानां सुखावबोधार्थमभिधीयते तत्र 'रायगिहेति लुप्तसप्तम्येकवचनत्वाद्राजगृहे नगरे वक्ष्यमाणोद्देशकदशकस्याथों भगवता श्रीमहावीरेण दर्शित इति व्याख्येयम् । एवमन्यत्रापीष्टविभक्त्यन्तताऽवसेया । 'चलण'ति चलनविषयः प्रथमोद्देशकः 'चलमाणे चलिए' इत्याद्यर्थनिर्णयार्थइत्यर्थः। 'दुक्खे'त्ति दुःखविषयो द्वितीयः, 'जीवो भदन्त ! स्वयंकृतं दुःखं वेदयती' त्यादिप्रश्ननिर्णयार्थ इत्यर्थः । 'कंखपओसे''ति कांक्षा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपो जीवपरिणामः स एव प्रकृष्टये दोषो-जीवदूषणं कांङ्क्षाप्रदोषस्तद्विषयस्तृतीयः। जीवेन भदन्त! कांक्षामोहनीयं कर्म कृतमित्याद्यर्थनिर्णयार्थः । चकारः समुच्चये। 'पगइ'त्ति प्रकृतयः-कर्मभेदाश्चतुर्थोद्देशकस्यार्थः, कति भदन्त ! कर्मप्रकृतयः ? इत्यादिश्चासौ । 'पुढवीओ'त्ति रलप्रभादिपृथिव्यः पञ्चमे वाच्याः, 'कति भदन्त! पृथिव्यः ?' इत्यादि च सूत्रमस्य। 'जावन्ते'त्ति यावच्छब्दोपलक्षितः षष्ठः, 'यावतो भदन्त ! अवकाशान्तरात्सूर्य' इत्यादिसूत्रश्चासौ । 'नेरइए'त्ति नैरयिकशब्दोपलक्षितः सप्तमः नैरयिको भदन्त ! निरये उत्पद्यमान' इत्यादि च तत्सूत्रम् । 'बाले'त्ति बालशब्दोपलक्षितोऽष्टमः, एकान्तबालो भदन्त ! मनुष्य' इत्यादिसूत्रश्चासौ। 'गुरुए'त्ति गुरुकविषयो नवमः, कथं भदन्त! जीवा गुरुकत्वमागछन्ति?' इत्यादि च सूत्रमस्य । चः समुच्चयार्थः । 'चलणाओ'त्ति बहुवचननिर्देशाच्चलनाद्या दशमोद्देशकस्यार्थाः, तत्सूत्रं चैवम्-'अन्ययूथिका भदन्त ! एवमाख्यान्ति चलत् अचलितमित्यादी ति प्रथमशतोद्देशकसङ्ग्रहणीगाथार्थः ।
तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाह१३. 'नमो सुयस्स'त्ति नमस्कारोऽस्तु' 'श्रुताय' द्वादशाङ्गीरूपायाहत्प्रवचनाय ।
१. करिति ख. ग. घ. २.x क. ३. बंभीए ख. ग. च. ४. प्रमाणस्य क.
५. पाओसत्ति च पाओसित्ति ग ६. x ख ७. ति ग. घ. छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org