________________
भगवती वृत्ति
३४३
अथवा 'षिधु गतौ' इति वचनात् सेधन्ति स्म - अपुनरावृत्त्या निर्वृतिपुरीमगच्छन् । अथवा 'षिधु संराद्धौ' इतिवचनात् सिद्धयन्ति स्म - निष्ठितार्था भवन्ति स्म ।
अथवा 'षिधूञ् शास्त्रे माङ्गल्ये चे 'तिवचनात् सेधन्ति स्म - शासितारोऽभूवन् माङ्गल्यरूपतां चानुभवन्ति स्मेति सिद्धाः । अथवा सिद्धाः – नित्याः अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यैरुपलब्धगुणसन्दोहत्वात्, आह च"मातं सितं येन पुराणकर्म्म, यो वा गतो निर्वृतिसोधमूर्ध्नि ।
ख्यातोऽनुशास्ता परिनिष्ठतार्यो यः सोऽस्तु सिद्धः कृतमङ्गलो मे ।। "
अतस्तेभ्यो नमः ।
नमस्करणीयता चैषामविप्रणाशिज्ञानदर्शनसुखवीर्यादिगुणयुक्ततया' स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति । 'नमो आयरियाणं' ति आ — मर्यादया तद्विषयविनयरूपया चर्यन्ते - सेव्यन्ते जिनशासनार्थोपदेशकतया तदाकांङ्क्षिभिरित्याचार्याः, उक्तञ्च -
" सुत्तत्थविऊ लक्खणत्तो गच्छस्स मेटिभूओ य । गणतत्तिविष्यमुको अत्थं वाएइ आयरिओ ।।" त्ति ।
अथवा आचारो - ज्ञानाचारादिः पञ्चधा, आ-मर्यादया वा चारो-विहार आचारस्तत्र साधवः स्वयंकरणात् प्रभाषणात् प्रदर्शनाच्चेत्याचार्याः आह
च
अथवा आ-ईषद् अपरिपूर्णा इत्यर्थः, चारा - हेरिका ये ते आचाराः, चारकल्पा इत्यर्थः, युक्तायुक्तविभागनिरूपणनिपुणा विनेयाः अतस्तेषु साधवो यथावच्छास्त्रार्थोपदेशकतया इत्याचार्या अतस्तेभ्यः ।
""पंचविहं आयारं आयरमाणा तहा पहासिंता । आयारं दंसिंता आयरिया तेण वुच्यंति ।।"
नमस्यता चैषामाचारोपदेशकतयोपकारित्वात् ।
'नमो उवज्झायाणं 'ति उपं - समीपमागत्याधीयते 'इङ् अध्ययने' इतिवचनात् पठ्यते । 'इण गता' वितिवचनाद्वा अधि-आधिक्येन गम्यते, 'इक् स्मरणे' इति वचनाद्वा स्मर्यते सूत्रतो जिनप्रवचनं येभ्यस्ते उपाध्यायाः, यदाह
''बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहे ।
तं वइति जम्हा, उवज्झाया तेण बुच्चति ।।"
श. १: उ.१: सू.१
अथवा उपाधानमुपाधिः–—–—संनिधिस्तेनोपाधिना उपाधौ वा आयो - लाभः श्रुतस्य येषामुपाधीनां वा - विशेषणानां प्रक्रमाच्छोभनानामायो – लाभो येभ्यः ।
अथवा उपाधिरेव - संनिधिरेव आयम् - इष्टफलं दैवजनितत्वेन, आयानाम् - इष्टफलानां समूहस्तदेकहेतुत्वाद्येषाम् ।
अथवा आधीनां मनः पीडानामायो - लाभ आध्यायः अधियां वा नञः कुत्सार्थत्वात् कुबुद्धीनामायोऽध्यायः 'ध्यै चिन्तायाम्' इत्यस्य धातोः प्रयोगान्नञः कुत्सार्थत्वादेव च दुर्ध्यानं वाऽध्यायः, उपहत आध्यायः अध्यायो वा यैस्ते उपाध्यायाः । अतस्तेभ्यः ।
नमस्यता चैषां सुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति ।
'नमो सव्यसाहूणं 'ति, साधयन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः, समतां वा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह
''निव्वाणसाहए जोए, जम्हा साहेति साहुणो ।
समाय सब्बभूएस, तम्हा ते भावसाहुणो ॥ "
१. x क. घ च छ
२. पयासंता छ पहासितो च
साहायकं वा संयमकारिणां धारयन्तीति साधवः, निरुक्तेरेव, सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकयथालन्दककल्पिकपरिहारविशुद्धिकल्पिकस्थविरकल्पिकस्थितकल्पिकास्थितकल्पिकक ल्पातीतभेदाः प्रत्येकबुद्धस्वयम्बुद्धबुद्धबोधितभेदा भारतादिभेदाः सुषमदुष्षमादिविशेषिता वा साधवः सर्वसाधवः ।
सर्वग्रहणं च सर्वेषां गुणवतामविशेषनमनीयताप्रतिपादनार्थम् । इदं चार्हदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति ।
अथवा सर्वेभ्यो जीवेभ्यो हिताः सार्वास्ते च ते साधवश्च सार्वस्य वा - अर्हतो न तु बुद्धादेः साधवः सार्वसाधवः सर्वान् वा शुभयोगान् साधयन्ति - कुर्वन्ति । सार्व्वान् वा - अर्हतः साधयन्ति - तदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्व्वसाधवः सार्वसाधवो
वा ।
अथवा श्रव्येषु श्रवणार्हेषु वाक्येषु, अथवा सव्यानि – दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो - निपुणाः श्रव्यसाधवः सव्यसाधवो
३. संता क. छ
४. साहंति ख. ग. च. छ
Jain Education International
५. x ख. ग. च. छ
६. स्थितास्थितकल्पिक क. ख. ग. च. छ
७. सुखमदुःखमादि ख. घ. छ.
For Private & Personal Use Only
www.jainelibrary.org