________________
श.१: उ.१: सू.१
३४२
भगवती वृत्ति व्याख्याप्रज्ञाप्तिाख्याप्रज्ञात्तिर्वा व्याख्याप्रज्ञाद्वा भगवतः सकाशादाप्तिरात्तिर्वा गणधरस्य यस्याः सा तथा। ६. अथवा विवाहा-विविधा विशिष्टा वाऽर्थप्रवाहा नयप्रवाहा वा प्रज्ञाप्यन्ते—प्ररूप्यन्ते प्रबोध्यन्ते वा यस्यां, विवाहा वा-विशिष्टसन्ताना । ७,८. विबाधा वा-प्रमणाबाधिता प्रज्ञा आप्यन्त यस्याः । विवाहा चासौ विबाधा चासौ प्रज्ञप्तिश्च-अर्थप्रज्ञप्तिश्चार्थप्ररूपणा=विवाहप्रज्ञप्तिर्विवाहप्रज्ञाप्तिः विबाधप्रज्ञप्तिर्विबाधप्रज्ञाप्तिर्वा ।' ६. इयं च भगवतीत्यपि पूज्यत्वेनाभिधीयते इति।
इह व्याख्यातारः शास्त्रव्याख्यानारम्भे फलयोगमङ्गलसमुदायादीनि द्वाराणि वर्णयन्ति । तानि चेह व्याख्यायां विशेषावश्यकादिभ्योऽवसेयानि । शास्त्रकारास्तु विघ्नविनायकोपशमननिमित्तं विनेयजनप्रवर्त्तनाय च शिष्टजनसमयसमाचरणाय वा मड़लाभिधेयप्रयोजनसम्बन्धानुदाहरन्ति। तत्र च सकलकल्याणकारणतयाऽधिकृतशास्त्रस्य श्रेयोभूतत्वेन विघ्नः संभवतीति तदुपशमनाय मङ्गलान्तरव्यपोहेन भावमङ्गलमुपादेयम्, मङ्गलान्तरस्यानैकान्तिकत्वादनात्यन्तिकत्वाच्च । भावमङ्गलस्य तु तद्विपरीततयाऽभिलषितार्थसाधनसमर्थत्वेन पूज्यत्वात् । आह च
"किं पुण तमणेगंतियमचंतं च ण जओऽमिहाणाई।
तबिवरीयं मावे तेण विसेसेण तं पुजं॥" भावमङ्गलस्य च तपःप्रभृतिभेदभिन्नत्वेनानेकविधत्वेऽपि परमेष्ठिपञ्चकनमस्काररूपं विशेषेणोपादेयम्, परमेष्ठिनां मङ्गलवलोकोत्तमत्वशरण्यत्वाभिधानात्, आह च–वत्तारि मंगलमित्यादि । तन्नमस्कारस्य च सर्वपापप्रणाशकत्वेन सर्वविघ्नोपशमहेतुत्वात्, आह च
"एष पञ्चनमस्कारः, सर्वपापप्रणाशनः ।
मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम्।।" अत एवायं समस्तश्रुतस्कन्धानामादावुपादीयते। अत एव चायं तेषामभ्यन्तरतयाऽभिधीयते, यदाह-'सो सव्वसुयक्खंधऽब्यंतरभूओ'त्ति, अतः शास्त्रस्यादावेव' परमेष्ठिपञ्चकनमस्कारमुपदर्शयन्नाहनमो अरहंताणमित्यादि, तत्र नम इति नैपातिकं पदं द्रव्यभावसङ्कोचार्थम्। आह च–'नेवाइयं पयं दव्वभावसंकोयण पयत्यो'। 'नमः' करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः, केभ्य इत्याह-'अर्हद्यः' अमरवरविनिर्मिताशोकादिमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तः, यदाह
"अरहति वंदणनमंसणाणि अरहंति पूयसकारं ।
सिद्धिगमणं च अरहा अरहंता" तेण बुचंति ।।" अतस्तेभ्यः । इह च चतुर्थ्यर्थे षष्ठी प्राकृतशैलीवशात् । अविद्यमानं वा रह:-एकान्तरूपो देशः अन्तश्च-मध्यं गिरिगुहादीनां, सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याभावेन येषां ते अरहोऽन्तरः अतस्तेभ्योऽरहोऽन्तयः, अथवा अविद्यमानो रथः-स्यन्दनः सकलपरिग्रहोपलक्षणभूतोऽश्च-विनाशो जराद्युपलक्षणभूतो येषां ते अरधान्ता अतस्तेभ्यः। अथवा 'अरहंताणं ति क्वचिदप्यासक्तिमगच्छद्र्यः क्षीणरागत्वात्। अथवा अरहयद्भ्यः-प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजद्भय इत्यर्थः । 'अरिहंताणं'ति पाठान्तरं, तत्र कर्मारिहन्तभ्यः, आह च
"अविहंपि व कम्मं अरिभूयं होइ सयलजीवाणं ।
तं कम्ममरि" हंता, अरिहंता तेण वुचंति ॥" 'अरुहंताण' मित्यपि पाठान्तरं, तत्र 'अरोहद्भयः' अनुपजायमानेभ्यः क्षीणकर्मवीजत्वात्, आह च
"दग्ये बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः ।
कर्मबीचे तथा दग्ये, न रोहति भवाङ्कुरः ।। १ ॥" नमस्करणीयता चैषां भीमभवगहनभ्रमणभीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति । 'नमो सिद्धाणं'ति, सितं-बद्धमष्टप्रकार" कर्मेन्धनं मातं-दग्धं जाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः ।
१.आप्यन्ते २. xच. ३. क.ख.ग.प.च.छ. संकेतितादर्शेषु पाठविपर्ययो दृश्यते-विवाधप्रज्ञाप्तिर्विवा-
धप्रज्ञप्तिा ४. यहां टीकाकार ने मूल प्राकृत पाठ न देकर उसका संस्कृत रूप उद्धृत किया
दी गई है। ७. पदं ख. घ. छ .. संकोअण ग ६,१०. अरिहंति क ११. अरिहंता छ १२. कम्ममरि क.ख. घ. च. छ १३. प्रकार क. घ. च. छ
५. शास्त्रादावेव ख ६. सूत्र से पहले जो संख्या दी गई है, वह अंगसुत्ताणि भाग २ के आधार पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org