________________
परिशिष्ट - ६ अभयदेवसूरि-कृता भगवती-वृत्तिः
प्रथमं शतकम् प्रथम उद्देशकः
सर्वज्ञमीश्वरमनन्तमसमग्र, सार्वीयमस्मरमनीशमनीहमिदम् । सिद्धं शिवं शिक्करं करणव्यपेतं, श्रीमजिनं जितरिपुं प्रयतः प्रणौमि ॥१॥ नत्वा श्री वर्द्धमानाय, श्रीमते च सुधर्मणे। सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥२॥ एतट्टीकाचूर्णी जीवाभिगमादिवृत्तिलेशांच।
संयोज्य पञ्चमाझं विवृणोमि विशेषतः किञ्चित् ॥३॥ व्याख्यातं समवायाख्यं चतुर्थमङ्गम् । अथावसायातस्य 'विआहपण्णत्ति'त्ति सज्ञितस्य पञ्चमाङ्गस्य समुन्नतजयकुञ्जरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य उपसर्गनिपाताव्ययस्वरूपस्य घनोदारशब्दस्य लिङ्गविभक्तियुक्तस्य सदाख्यातस्य सल्लक्षणस्य देवताधिष्ठितस्य सुवर्णमण्डितोद्देशकस्य नानाविधाद्भुतप्रवरचरितस्य षट्त्रिंशत्प्रश्नसहस्रप्रमाणसूत्रदेहस्य चतुरनुयोगचरणस्य ज्ञानचरणनयनयुगलस्य द्रव्यास्तिकपर्यायास्तिकनयद्वितयदन्तमुशलस्य निश्चयव्यवहारनयसमुन्नतकुम्भद्वयस्य प्रस्तावनावचनरचनाप्रकाण्डशुण्डादण्डस्य निगमनवचनातुच्छपुच्छस्य कालाधष्टप्रकारप्रवचनोपचारचारुपरिकरस्य उत्सर्गापवादवादसमुच्छलदतुच्छघण्टायुगलघोषस्य' यशःपटहपटुप्रतिरवापूर्णदिक्चक्रवालस्य स्याद्वादविशदाङ्कुशवशीकृतस्य विविधहेतुहेतिसमूहसमन्वितस्य मिथ्यात्याज्ञानाविरमणलक्षणरिपुबलदलनाय श्रीमन्महावीरमहाराजेन नियुक्तस्य बलनियुक्तककल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनाबाधमधिगमाय पूर्वमुनिशिल्पिकल्पितयोबहुप्रवरगुणत्वेऽपि ह्रस्वतया महतामेव वाञ्छितवस्तुसाधनसमर्थयोवृत्तिचूर्णिनाडिकयोस्तदन्येषां च जीवाभिगमादिविविधविवरणदवरकलेशानां संघटनेन' बृहत्तरा अत एवामहतामप्युपकारिणी हस्तिनायकादेशादिव गुरुजनवचनात्पूर्वमुनिशिल्पिकुलोत्पन्नैरस्माभिन डिकवेयं वृत्तिरारभ्यत इति शास्त्रप्रस्तावना। १. अथ 'विआहपण्णत्ति'"त्ति कः शब्दार्थः ? उच्यते-विरिति” विविधा जीवाजीवादिप्रचुरतरपदार्थविषयाः, आ–अभिविधिना कथञ्चिन्निखिलज्ञेयव्याप्त्या मर्यादया वा-परस्परासंकीर्णलक्षणाभिधानरूपया, ख्या-ख्यानानि भगवतो महावीरस्य गौतमादिविनेयान् प्रति प्रश्नितपदार्थप्रतिपादनानि-व्याख्याः । ताः प्रज्ञाप्यन्ते-प्ररूप्यन्ते भगवता सुधर्मस्वामिना जम्बूनामानमभियस्याम् । २. अथवा विविधतया विशेषेण वा आख्यायन्त इति व्याख्या:--अभिलाप्यपदार्थवृत्तयः, ताः प्रज्ञाप्यन्ते यस्याम् । ३. अथवा व्याख्यानाम्-अर्थप्रतिपादनानां प्रकृष्टाः ज्ञप्तयो-ज्ञानानि यस्यां सा व्याख्याप्रज्ञप्तिः । ४,५. अथवा व्याख्याया:-अर्थकथनस्य प्रज्ञायाश्च-तद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्तिः-प्राप्तिः आत्तिर्वा-आदानं यस्याः सकाशादसौ
पूर्वमानाशवरमणलक्षणरिपुबलदलनाय दहापटप्रतिरवापूर्णदिक्चक्रवालस्यातापुच्छस्य कालाधष्टप्रकारप्रवचनातयदन्तमुशलस्य निश्चय
१. सर्वीय ख.ग.घ.च.छ. २ वियाह ख.च.छ. विवाह ग.घ. ३. उपसर्ग ख.ग.घ.घ.छ. ४. ज्ञान ........ नयनयन ....... ग. ५. कालाधटप्रकारवचनो ......... घ. ६. उत्सर्गापवादसमुच्छलद ग.
७. बलनियुक्तकल्पगण ......... क.ग. ८. दिविवरण च. ६. संघटनेन ख.च.छ. १०. वियाहपण्णत्ति ख.ग.घ.च.छ. ११.xक.च.छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org