SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ भगवई भूमिका ३८ प्रस्तुत आगम पर नवाङ्गीटीकाकार अभयदेवसूरि की वृत्ति उपलब्ध है। सं. ११२८ अणहिलपाटक नगर में इस वृत्ति का निर्माण संपन्न हुआ। इसका ग्रन्थमान अनुष्टुप् श्लोक के अनुपात से १८६१६ है। वृत्ति का प्रारम्भ मंगलाचरण के साथ किया गया है सर्वज्ञमीश्वरमनन्तमसङ्गमा सार्वीयमस्मरमनीशमनीहमिद्धम् । सिद्ध शिवं शिवकरं करणव्यपेतं, श्रीमजिनं जितरिपुं प्रयतः प्रणौमि ॥ १॥ नत्वा श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥ २॥ एतट्टीकाचूर्णी जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पञ्चमाझं विवृणोमि विशेषतः किञ्चित् ॥ ३॥ वृत्ति की परिसमाप्ति पर प्रशस्ति के सोलह श्लोक हैं। उनमें अपनी परम्परा का परिचय और वृत्ति के शोधनकार द्रोणसूरी के प्रति कृतज्ञता, सहायकों के प्रति आभार, रचनापूर्ति का काल तथा ग्रंथमान का उल्लेख है यदुक्तमादाविह साधुयोधैः श्रीपञ्चमाङ्गोनतकुञ्जरोऽयम् । सुखाधिगम्योऽस्त्विति पूर्वगुर्वी, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥ १॥ समर्थितं तत्पटुबुद्धिसाधुसाहायकात्केवलमत्र सन्तः। सबुद्धिदात्र्याऽपगुणांल्गुनन्तु, सुखग्रहा येन भवत्यथैषा ॥ २॥ चांद्रे कुले सद्वनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् ॥३॥ तत्पुष्पकल्पी विलसद्विहारसद्गन्धसम्पूर्णदिशौ समन्तात् । बभूवतुः शिष्यवरावनीचवृत्तिश्रुतज्ञानपरागवन्तौ ॥ ४ ॥ एकस्तयोः सूरिवरो जिनेश्वरः, ख्यातस्तथान्यो भुवि बुद्धिसागरः । तयोविनेयेन विबुद्धिनाप्यलं, वृत्तिः कृतैषाऽभयदेवसूरिणा ॥ ५॥ तयोरेव विनेयानां, तत्पदं चानुकुर्वताम् । श्रीमतां जिनचन्द्राख्यसप्रभूणां नियोगतः ॥ ६॥ श्रीमजिनेश्वराचार्यशिष्याणां गुणशालिनाम् । जिनभद्रमुनीन्द्राणामस्माकं चाहिसेविनः॥७॥ यशश्चन्द्रगणेर्गाढसाहाय्यात् सिद्धिमागता । परित्यक्तान्यकृत्यस्य, युक्तायुक्तविवेकिनः ॥ ८॥ युग्मम् । शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, विद्वन्मधुव्रतगणस्य सदैव सेव्यः । श्रीनिवृताख्यकुलसन्नदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशःपरागः ॥ ६ ॥ शोधितवान् वृत्तिमिमां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम् ॥ १०॥ विशोधिता तावदियं सुधीभिस्तथापि दोषाः किल संभवन्ति । मन्मोहतस्तांश्च विहाय सद्भिस्तद्ग्राह्यमाप्ताभिमतं यदस्याम् ।। ११ ॥ यदवाप्तं मया पुण्यं, वृत्ताविह शुभाशयात् । मोहाद् वृत्तिजमन्यच्च, तेनागो मे विशुद्ध्यतात् ॥ १२ ॥ प्रथमादर्श लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । कुर्वद्भिः श्रुतभक्तिं दक्षैरधिकं विनीतैश्च ॥ १३॥ अस्याः करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम् । दायिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् ।। १४ ॥ अष्टाविंशतियुक्ते वर्षसहस्त्रे शतेन चाभ्यधिके । अणहिलपाटकनगरे कृतेयमच्छुप्तधनिवसती ॥१५॥ अष्टादश सहस्त्राणि, षट् शतान्यथ षोडश । इत्येवमानमेतस्याः, श्लोकमानेन निश्चितम् ।। १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003593
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages458
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy