________________
नंदी
२६५
मइ-विगप्पियं, तं जहा–१ भारहं २ रामायणं ३, ४ हंभोमासुरुत्तं' ५. कोडिल्लयं ६ सगभद्दियाओ ७ घोडमुहं ८ कप्पासियं ह नागसुहुम' १० कणगसत्तरी ११ वइसे सियं १२ बुद्धवयणं १३ वेसियं १४ काविलं' १५ लोगाययं १६ सद्वितंतं १७ माढरं १८ पुराणं १६ वागरणं २० नाडगादि । अहवा- बावत्तरिकलाओ चत्तारि य वेया संगोवंगा। ‘एयाई मिच्छदिहिस्स मिच्छत्त-परिग्गहियाई मिच्छसुयं । एयाइं चेव सम्मदिहिस्स सम्मत्त-परिग्गहियाई सम्मसुयं"।
१. यद्यपि अस्माभिः पाठशोधार्थं प्रयुक्तासु प्रतिषु 'हंभीमासुरुत्तं' पाठो नोपलभ्यते, तथापि अनुयोगद्वारस्य (४६) आधारेण असावेव पाठः समीचीनः प्रतिभाति । अन्येषु अप्रयुक्तादर्शष्वपि 'हंभीमासुरुत्त' इति पाठ एव लभ्यते। व्यवहारभाष्ये (भाग ३ पत्र १३२) 'भंभीयमासुरक्खे' इति पाठो विद्यते। मलयगिरिणा अस्य व्याख्या 'भंभ्यां आसूवृक्षे' इत्थं कृतास्ति । अस्या आधारेण ग्रन्थद्वयस्य अनुमानं जायते-एको ग्रन्थ: भं भीनामा द्विती. यश्च आसुवृक्षनामा । मूलाचारेणापि एतत् स्पष्टं भवति । तत्र 'हंभी' शब्दस्य उल्लेखो नास्ति, किन्तु 'आसुरक्व' शब्दः स्वतंत्ररूपेण
गृहीतोस्तिकोडिल्ल मासुरक्खा, भारहरामायणादि जे धम्मा। होज्ज व तेसु विसुत्ती, लोइयमूढो हवदि एसो॥
(५६०, पृ० २१७)। गोम्मटसारेणापि उक्तानुमानस्य पुष्टिर्जायते। तत्र आभीत-आसुरक्षनाम्नोईयोर्ग्रन्थयोरुल्लेखो
लभ्यतेआभीयमासुरक्खं, भारहरामायणादि उवएसा । तुच्छा असाहणीया, सुय अण्णाणं ति णं वेंति ॥
(जीवकाण्ड ३०३)। ललितविस्तरे (परि० १२, ३३ पद्यानन्तरं पत्र १०८) आम्भिर्य-आसूर्यनाम्नोरुभयो ग्रन्थयोः समुल्लेखः समस्ति । उपरितन पङ्कितषु समुद्धतेषु ग्रन्थेषु सर्वत्र नाम
साम्यं नास्ति, तथापि तैरिति स्पष्टं जायते 'हंभीमासुरुत्तं' पाठे सूत्रकारेण ग्रन्थद्वय निक्षिप्तमस्ति । नंतयोग्रन्थयोः कश्चिद् परिचयः इदानीमुपलब्धोस्ति, तथापि इत्यनुमानं कर्तुमवकाशोस्ति-'आसुरक्खं, आसुरुक्खं' पाठयोरुल्लेख: श्रुतानुश्रुतपरंपरया कृतोस्ति, न तु ग्रन्थस्य साक्षात् परिचयं प्राप्य । अतएव तेषु ग्रन्थेषु नाम्नः संवादकत्वं नास्ति । समालोच्य ग्रन्थस्य साक्षात् परिचयाभावे निश्चयपूर्वक न किञ्चित् कथयितुं शक्यम् । यदि समालोच्यग्रन्थः असुरेण उक्तः अथवा असुरसंबंधी स्यात् तदा 'आसुरुत्त' (आसुरोक्त) इति पाठस्य स्वीकारः समीचीनो भवेत् । २. खोडमुहं (क, ख)। ३. नामसुहुम (पु)। ४. तेसियं (क, ख)। ५. कविलं (पु)। ६. अतः परं प्रत्योः एतानि अतिरिक्तानि पदानि दृश्यन्ते-'भागवयं पायंजली पुस्सदेवयं लेहं गणियं सउणरुयं' चूणों वृत्त्योश्च नैतानि व्याख्यातानि सन्ति, अनुयोगद्वारे (४६) पि नतानि दृश्यन्ते । ७. नाडइयाइं (क, ख)८. इच्चेताई सम्मदिहिस्स सम्मत्तपरिग्गहियाई सम्मसुयं । इच्चेताई मिच्छदिट्रिस्स मिच्छत्तपरिग्गहियाई मिच्छसुत्तं (चू)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org