________________
।। खरतरगच्छ पट्टावली-३॥
३९ श्रीजिनपतिसूरयः समाहृताः, ते च मुहूर्तोपरि तत्रागताः। तदा तेषां पार्श्वे प्रतिष्ठा कारिता । जधरणमंत्रि सकुटुंबः खरतर गच्छीय श्रावकश्च बभूवः तस्य च कुलधरनामा पुत्रो जातो येन बाहडमेरनगरे उत्तुंगतोरणप्रासादः कारितः। तथा पुनर्मरोटवास्तव्य नेमिचंद्र भांडागारिकेण परीक्षां कृत्वा शुद्धसंवेगवतः श्रीगुरून् ज्ञात्वा चारित्रेच्छां कुर्वाणो अंबडनामा स्वपुत्रो गुरुभ्यो दत्तः। एवंविधाः श्रीजिनपतिसूरयः सर्वायुः सप्तपष्टि वर्षाणि प्रपाल्य, सं० १२७७ पाल्हणपुरे स्वर्ग गताः।
तदा सं० १२१३ आंचलिक मतं जातं । तथा सं० १२८५ चित्रवाल गच्छीय जगच्चंद्रसूरितः तपागणो जातः॥
४७. श्री जिनपतिमरिपट्टे सप्तचत्वारिंशत्तमः श्री जिनेश्वरसूरिः। तस्य च सं० १२४५ मार्गशीर्ष सुदि एकदश्यां भरणीनक्षत्रे जन्म । तथा मरोटवास्तव्यभांडागारिक नेमिचंद्रः पिता, लक्ष्मी माता, तयोः पुत्रो अंबड इति मलनामा । सं० १२५५ खेडनगरे दीक्षां दत्त्वा गुरुभिरिप्रभ इति नाम दत्तं । ततः सं० १२७८ माघसुदि षष्ठयां जालोर नगरे माल्हूगोत्रीय साह खीमसीकारित द्वादश सहस्र रूप्यमुद्राव्ययरूप नंदिमहोत्सवेन सर्वदेवाचार्यप्रदत्त सूरिमंत्रेण पदस्थापना जाता। अथैकदा अणहिलपत्तने कुमारपालेन राज्ञा हेमाचार्याय प्रोक्तं- स्वामिन् ! यदि मह्यं स्वर्णसिद्धरुपायं दद्यास्तर्हि विक्रमादित्यवद् अहमपि नवीनं संवत्सरं प्रवर्त्तयामि' । तदा गुरुणोक्तं- श्रीहरिभद्रसूरिशिष्यानीतबौद्धपुस्तके स्वर्णसिद्धरुपायोस्ति, परं तत् पुस्तकं खरतर गच्छे विद्यते'। ततो राजा नानादेशनिवासिनो व्यापारार्थं पत्तने स्थितान् श्रावकान् निरुध्य कथयामास 'यदि पुस्तकं आनाययत तदा मुच्यध्वे' । ततः श्रावकैर्जिनेश्वरसूरिभ्यस्तत्स्वरूपं कथापितं, तदा गुरुभिश्चित्रकूटे गत्वा चिंतामणिपार्श्वनाथ चैत्यस्तंभात् पुस्तकं निष्कास्य पत्तने आनीय राज्ञे दत्तं, परंतु "इदं पुस्तकं न छोटनीयं न वाचनीयं, किंतु भाडांगारे पूजनीयमिति” पुस्तकोपरि लिखितानि वर्णानि विलोक्य राजा उवाच-'अहं तु नैतत् पुस्तकं छोटयामि'। हेमा. चार्येणाप्युक्तं-'महापुरुषाणां वचनं न लोपनीयं । तदा हेमाचार्यभगिनी हेमश्री म महत्तरा उवाच-'अहं छोटयामि जिनदत्तसूरिवचनात् नाहं विभमि'। ततो राज्ञा तस्यै पुस्तकं दत्तं, तया छोटितं परं तत्कालमेव तस्या द्वे अपि चक्षुषी निःसृत्य पतिते; ततो अंधत्वं प्राप्तां तां दृष्ट्वा राज्ञा पुस्तकं स्वभंडागारे मुक्तं रात्री अग्नेर्लग्नात् तद्भांडागारं सर्वमपि ज्वलितं, तदा तत् पुस्तकं आकाशे उड्डीय स्वस्थानं प्राप्तम् । एवंविधाः श्री जिनेश्वरसूरयः सं० १३३१ आश्विन वदि षष्टयां अनशनेन स्वगं गताः॥४७॥ तद्वारके १३३१ जिनसिंहसूरितो लघु खरतर शाखा भिन्ना । अयं तृतीयो गच्छभेदः॥
४८. श्री जिनेश्वरसूरि पट्टेऽष्टचत्वारिंशत्तमः श्रीजिनप्रबोधरिः। स च दुर्गप्रबोधव्याख्याता । साह श्रीचंद-भायां सिरीयादेवी तयोः पुत्रः। सं० १२८५ लब्धजन्मा पर्वत इति मूलनामा । सं० १२९६ फाल्गुण वदि पंचम्यां हस्ताकें थिरापद्रनगरे गृहीतदीक्षः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org