SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ।। खरतरगच्छ पट्टावली -२ ॥ माणिक्यचतुष्के समागताः तावता तैः कार्याकुलत्वेन प्रागुक्तगुरुवचनविस्मरणात् विश्रा मा सेकिsar विमुक्ता, मणिग्रहणाय दुग्धपात्रमपि न रक्षितं परं तत्रैको विद्यावान् योगी माजिघृक्षया दुग्धपात्रं भृत्वा एकांते स्थितः । अथ सा सेढिका बहुप्रयत्नेन उत्पाट्य मानापि नोत्तिष्ठतिस्म । ततः सर्वस्मिन्नपि नगरे एषा वार्त्ता प्रवृत्ता, क्रमेण पतिसाहिनापि श्रुता । ततः स्वयं तत्र आगत्य बहव उत्पाटनोपाया अपि कृताः, परं सेढिका पदमात्रमपि ततो न चलिता, ततः पतिसाहिना प्रोक्तं- 'सत्यो यं देवः, एतस्य स्थानमत्रैव भवतु ' ततः श्रावकैस्तत्रैवाग्निसंस्कारः कृतः । तस्मिन्नवसरे मणिर्गुरुमस्तकात् फडाकशब्दं कृत्वा योगिरक्षित दुग्धपात्रे आगत्य निपतिता, योगी च तां गृहीत्वा स्वस्थानं ययौ । तदा मदनपालेनोक्तं गुरुभिमह्यं प्रागुक्तमासीत्, परमहं त्वरावसात् विस्मृतः । ततः सर्वैः साधु श्रावकैः तस्मै उपालंभो दत्तः । अथ तत्रैव जिनचंद्रसूरीणां स्तूपस्थापना कृता, पतिसाहिप्रमुखैः सर्वैरपि लोकैर्बहुमानो विहितः, तत् स्थानमद्यापि पूज्यमानं प्रवर्त्तते । एवं विधाः सप्रभावाः श्री गुरखो जाताः । इतश्चतुपट्टे सातिशयजिनचंद्रेति नाम स्थाप्यमिति पद्मावती वचनात् व्यवस्था जाता ॥ ४५ ॥ ४६. तत्पट्टे षट्चत्वारिंशत्तमः श्री जिनपतिसूरिः । तस्य च सं० १२१० चैत्र वदि अष्टम्यां मूल नक्षत्रे जन्म । तथा माल्हूगोत्रीय साह यशोवर्द्धनः पिता, सूहवदेवी माता । सं० १२१८ फाल्गुण वदि अष्टम्यां दिल्लीनगरे दीक्षा । सं० १२२३ कार्तिक सुदि त्रयोदश्यां श्रीजयदेवाचार्येण पदस्थापना कृता । अथ श्रीजिनपतिसूरय एकदा बब्बेरनानि पत्तने समाजग्मुः तत्र षट्त्रिंशद्वादेषु जयो लब्धः । बह्री जिनशासन - प्रभावना कृता । तथा पुनरेकदा आसापुरे श्रीमालज्ञातीय हाजीसाह कारित प्रतिष्ठावमरे मणिग्राहिणा योगिना जिनप्रतिमा स्तंभिता । तदा सचिन्तै गुरुभिः स्वगुरवः समाराधिताः । ततः श्रीजिनचंद्र सूरिभिः प्रादुर्भूय चूर्ण दत्तम् । अथ प्रभाते गुरुभिः प्रतिमोपरि तच्चूर्ण प्रक्षिप्तं तेन सद्य उत्थि ता प्रतिमा, ततो रंजितेन योगिना मणिः पश्चात् प्रदत्ता, श्री गुरूणां भूयान्महिमा प्रससार तथा पुनरेकदा श्री गुरवोऽजमेरु नगरे चतुर्मास्यां स्थिता आसीत्, तदा तत्रत्य रामदेवादि rantri पुरः सदैव खेड वास्तव्य छाजेडगोत्रीय मंत्रि ऊधरण साहस्य प्रशंसामकुर्वन् । एकदा रामदेव श्राद्धो मंत्रि ऊधरणं प्रति मिलितः, तदा तेन मंत्रिणा रामदेव बहादरेण स्वगृहं समानीय विधिना भोजनादिभिस्तद्भक्तिः कृता, तस्मिन्नवसरे मंत्रिपत्नी देवगृहे देववंदनार्थं चलिता शाटक-कंचुकाद्यनेक वस्त्रता छव्वडिका सार्थे गृहीतवती । तदा रामदेवेन पृष्ट - किमर्थमेताः, ततः सेवकः उक्तं साधर्मिक स्त्रीभ्यः प्रदानार्थ सदैव गृह्यते । तदा रामदेव उवाच श्री जिनपतिसूरयो यद् भवत्प्रशंसां कुर्वन्ति तद् योग्यमेव, यद् गृहे इत्थं धर्मकार्याणि जायते इति । 看 अथैकदा ऊधरण मंत्रणा नागपुरे देवगृहं कारितं तदा विवप्रतिष्ठानिमित्तं मंत्रिणा स्वकीयाः कुलगुरवः समाहूताः परं केनापि कारणेन मुहूर्तोपरि नागताः । अपरं च ऊधरणस्य भार्या खरतर गच्छीय श्राद्धस्य पुत्री आसीत्, तया मंत्रिकुलगुरून् हीनाचारिणो मत्वा शुद्धसंवेगरंगधारिणः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy