SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३७ ॥ खरतरगच्छ पटावली-२ ॥ अंबडो लोकैः निंद्यमानस्ततो मृत्वा व्यंतरो भूत्वा छलनार्थ गुरुछिद्राणि पश्यतिस्म । एकदा पट्टात् रजोहरणप्रपतनेन छलिता गुरवस्तेन। ततः श्री गुरून व्यग्रान् विलोक्य आभूनामक श्रावकेण तव्यंतरवचसा स्वकुटुंबं गुरूणामुपरि ढोकयित्वा सज्जीकृता गुरवस्ततो गुरुभिस्तदंबडच्छलं ज्ञात्वा रजोहरणं गृहीत्वा तत्प्रयोगेण जीवितं सर्वमपि तत् कुटुंबम् । ततो नष्टो व्यंतरः स्वस्थानं ययौ। तथा पुनरेकदा विक्रमपुर मरकोपद्रवः प्रादुर्भूतः, ततो गुरुभिर्जेनेभ्यः स उपद्रवो वारितः, तदा दुःखितैर्माहेश्वरैरुक्तं-'स्वामिन् ! अस्मदुपर्यपि एषा कृपा विधेया' ततो गुरुभिर्वचनं गृहीत्वा तेषामपि मरकोपद्रवो निरस्तस्तदा बहवो माहेश्वराः श्रावकाः कृताः; तथा केपि शैवाः श्राद्धा न जाताः। तन्मध्ये यस्य चत्वारः पुत्रास्तस्य एकः पुत्रो गृहीतो, यस्य चतस्रः पुत्र्यस्तस्यैका पुत्री गृहीता, एवं च पंचशत (५००) शिष्याः, सप्तशत (७००) साध्व्यश्च दीक्षिताः। इत्थं श्रीजिनदत्तसूरिभिर्वहुषु नगरेषु नाहटा, राखेचा, भणशाली, नवलखा, डागा, लूणीया इत्यादि गोत्रालंकृताः साधिकेक (१) लक्ष श्राद्धाः प्रतिबोधिताः। तथा श्रीगुरुभिर्मुलताननगरे लूणीया गोत्रीय हाथी साहस्योपरि कृपां विधाय प्रतिक्रमणे तस्मै "अजियंजियसव्वभयं” इति स्तोत्रं दत्तम् । तथा अणहिल्लपत्तने बोहित्थरा गोत्रीय श्रावकेम्यो " जयतिहुयण वर कप्प रुक्ख" इति स्तोत्रं दत्तम् । तथा गुरुभिर्मेडताख्ये नगरे गणधर चोपडा गोत्रीय श्राद्धेभ्य " उक्सग्गहरं पासं" इति स्तवनं प्रदत्तम्। अथैवंविधाः क्षत्रीयब्राह्मणादि-कुलीन-साधिकलक्षश्राद्धप्रतिबोधकाः, जलभ्रमोपरि कंबलास्तरणादि प्रकारेण पंचनदीसाधकाः, संदेहदोलावल्याद्यनेकग्रन्थविधायकाः परकायप्रवेशिन्यादि-विविधविद्यासंपन्नाः, परोपकारकारिणः, परमयशःसौभाग्यधारिणः, श्री खरतर गच्छनायकाः महाप्रभावकाः श्रीजिनदत्तसूरयः सं० १२११ आषाढ शुदि एकादस्यामजमेरु नगरे अनशनं कृत्वा प्रथमं स्वर्ग गताः ॥ ४४ ॥ ॥श्री जिनदत्तसूरीणां गुरूणां गुणवर्णनम् । मया क्षमादिकल्याणमुनिना लेशतः कृतम् ॥ सविस्तरेण तत्कर्तुं सूराचार्योपि न क्षमः। ४५. तत्पट्टे पंचचत्वारिंशत्तमः श्री जिनचंद्रसूरिः। स च सं० ११९७ भाद्रपद शुक्ल अष्टम्यां लब्धजन्मा, पिता साह रासलकः माता देल्हणदेवी तयोः पुत्रः। सं० १२०३ फाल्गुण कृष्ण नवम्यां अजमेरुपुरे संप्राप्तदीक्षः। सं० १२११ वैशाख सुदि षष्ठ्यां विक्रमपुरे रासलकृतनंदिमहोत्सवेन श्रीजिनदत्तसूरिभिः स्वयमाचार्यपदे स्थापितः । नरमणि मंडितभालः, खंज-क्षेत्रपालसंसेवितश्च संजातः । अथान्यदा श्री गुरवो गुजरदेशं प्रति गच्छंतः श्रीपाल मदनपाल श्रीचंदादि संघाग्रहेण दिल्लीनगरे समागताः, तत्रैकदा गुरुभिरंत्यावस्थायां मदनपालश्राद्धाय उक्तं-'अस्माकं मस्तके मणिरस्ति, सा चाग्निसंस्कारसमये दुग्धभृतपात्ररक्षणेन भवता गृहीतव्या, तथा मार्गमध्ये विश्रामग्रहणार्थ सेढिका न विमोच्या, इति । ततः सर्वायुः षड् विंशति वर्षाणि प्रपाल्य सं० १२२३ भाद्र कृष्ण चतुर्दश्यामनसनेन स्वर्ग गताः। तदा सर्वे श्रावकाः संमील्य अग्निसंस्कारणार्थ चलिता यावता च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy